SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ 3@ @@eeDo@ अध्यात्मबलकालसोयणाए अलसा चिट्ठति जे अकयपुण्णा।ते पत्थिता वि लहुं सोइंति सुहं अपावंता ॥१७६॥ परीक्षावृ० ॥१०॥ ____ बलकालशोचनयाऽलसास्तिष्ठन्ति येऽकृतपुण्याः । ते प्रार्थयन्तोऽपि लघु शोचन्ति सुखमप्राप्नुवन्तः ॥ १७६ ॥ जह णाम कोइ पुरिसो न धणट्ठा निधणोवि उज्जमइ । मोहाइपत्थणाए सो पुण सोएति अप्पाणं॥१७७॥ यथा नाम कश्चित्पुरुषो न धनार्थे निर्धनोऽप्युद्यच्छति । मोघया प्रार्थनया स पुनः शोचत्यात्मानम् ॥ १७७ ।। ये खलु बलकालशोचनयैव धर्म नाहतवन्तो न ते मरणभयभीताः प्रार्थनामात्रेण वाञ्छितसुखमामुवन्ति, न हि निर्धनः पुमाननुद्यच्छन् धनेच्छामात्रेण धनं लभते, न खलूपायेच्छामात्रेणोपेयलाभः, अपितु तया तदुपायेच्छा, ततस्तत्र प्रवृत्तिस्ततश्च तल्लाभ इति; ननु स्वप्रार्थनामात्रस्याकिञ्चित्करत्वेपि भगवत्प्रार्थनयवेष्टसिद्धिर्भविष्यतीतिचेन्न, क्षीणरागद्वेषाणां भगवतां निश्चयतः प्रार्थितसुखादायकत्वात्तदुपदिष्टरत्नत्रयाराधनयैव मोक्षप्राप्तौ ततस्तत्प्राप्तिव्यवहारात्, अत एव-"आरुग्गबोहिला, समाहिवरमुत्तमं दितु ।" इतीयमसत्यामृषाभाषा उक्तंच-"भासा असच्चमोसा, णवरं भत्तीइ भासिया एसा । ण हु खीणपेमदोसा, दिंति समाहिं च बोहिंच ॥१॥ जं तेहिं दायचं तं दिन्नं जिणवरेहिं 6 सवेहिं । दंसणनाणचरित्तस्स मोक्खमग्गस्स उवएसोत्ति ॥२॥" नन्वेवं संयमेप्युद्यच्छतां तादृशप्रार्थनाऽकिञ्चिकरीतिचेन्न, वन्दनादिकारिणामपि वन्दनादिप्रत्ययिककायोत्सर्गाभिलाषवत् तदभिलाषस्य तदभिवृद्धितत्प्रत्ययिकनिर्जराहेतुत्वात्, अनुद्यच्छतोपि ततस्तल्लाभ इतिचेन्न, तस्य भगवदुपदिष्टकारणाऽ ऽराधनपर्यवसन्नदानार्थासम्भवेन तभाषाया अतथात्वात्तदुक्तं-"लद्धिल्लियं च बोहिं, अकरतो णागयं च पत्थितो। अन्नं दाई बोहिं, लन्भिसि कयरेण இருருருருருருரு ॥१० ॥ @@@@@@ Jain Education a l For Private & Personel Use Only rjainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy