SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 0000000000000000000000 ज काउं जे ॥२॥ सोवि य निययपरक्कमववसायधिइबलं अगृहंतो। मुत्तण कूडचरियं,जई जयंतो अवस्सजइत्ति ॥२॥" मनोधृतिबलेन च कायवाक्प्रवृत्तिरपि काचिद्भवत्येव यया त्रिकरणशुद्धिराधीयते, केवलं विचित्रतपोभिग्रहादिक कर्तुमशक्नुवतोऽपि तस्य कायव्रतयतनया न हानिः शक्त्यनिगूहनात् , उक्तंच-"जइ ता असक्कणिज्जं, ण तरसि काऊण तो इमं कीस । अप्पायत्तं न कुणसि, संजमजयणं जईजोग्गंति ।” ननु तर्हि धृतिबलेन विचित्राभिग्रहादिकमपि न दुष्करम् , दृश्यन्ते हि धृतिबलेन कायमपि त्यजन्तो महासाहसिका इति चेन्न, धृतिबलसाध्येपि विचित्राभिग्रहादौ व्रतार्जनक्षमयोगहानिरूपबलवदनिष्टानुबन्धित्वप्रतिसन्धानेन तत्राप्रवृत्तेः, अत एवोक्तं-"मा कुणउ जइ तिगिच्छं, अहि. यासेऊण जइ तरइ सम्मं । अहियासंतस्स पुणो, जइसे जोगाण हायंतित्ति ।" नन्वेवं तपसि कस्यापि प्रवृत्तिर्न स्यात्तत्र नियमतो दुःखानुबन्धित्वज्ञानादितिचेन्न, व्याधिचिकित्सारूपे तपस्यायतिसुखानुबन्धित्वस्यैव ज्ञानात्, न च दुःखजनकत्वज्ञानेन तत्र द्वेषः, बलवत्सुखाननुबन्धिदुःखजनकत्वज्ञानस्यैव द्वेषजनकत्वात् , अन्यथा समुच्छिन्ना योगमार्गव्यवस्था, तथाप्यातध्यानजनके ध्रुवयोगहानिजनके च तत्र प्रवृत्तिर्नास्त्येव, शुभध्यानध्रुवयोगानुकूल्येनैव तदुपदेशात्तदुक्तम्-16 “जह जह खमइ सरीरं,धुवजोगा जह जहा न हायति । कम्मक्खओ अविउलो, विचित्तया इंदियदमो यत्ति।"॥१७५॥ ये तु बलकालशोचनयैवालस्योपहताः शक्ता अपि चारित्रं नाद्रियन्ते ते प्रान्ते जरामरणभयभीतास्तन्निवृत्त्युपायाप्रवृत्त्या प्रार्थनामात्रेण प्रार्थितं, सुखमप्राप्नुवन्तो बाढमात्मानं शोचन्ति, ततश्चार्तध्यानोपहता एव बालमरणेन म्रियन्त इत्युपदिशति 000000000000®®e Jain Education For Private 8 Personal Use Only Harjainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy