Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अध्यात्म
परीक्षाव
॥१०२॥
000000000000000000000000
नेन, अपिच तादृशधर्म साधुराभोगेन कुर्यादनाभोगेन वा, नाद्योऽप्रमादिनस्तादृशप्रवृत्त्यसम्भवात् , न द्वितीयः, अनाभोगस्यातिचारमात्रजनकत्वादभिनिवेशेन तत्करणे च मिथ्यादृष्टित्वमेवेति व धर्मानुप्रवेशः, एतेन श्रावकपदमविरतसम्यग्दृष्टिपरमित्यपि परास्तम्, एवं च प्रतिज्ञाभङ्ग उभयविरतिभ्रंशोऽभिनिवेशे तु मिथ्यात्वं, परस्य शङ्काजननात् मिथ्यात्वाभिवृद्धिः, दीक्षितस्याप्यलीकभाषणेन लौकिकेभ्योऽपि महापापीयस्त्वं उक्तंच-"लोएवि जो ससूगो, अलियं सहसा ण भासए किंचि। अह दिक्खिओ वि अलियं, भासइ तो किंच दिक्खाएत्ति।" तथा वेषमात्रेण पररञ्जनया मायानिकृतिप्रसङ्गः इत्यादयो महान्तोऽना भ्रष्टचारित्रस्य प्रादुष्यन्ति, किंबहुना ? तीव्रक्लेशेनानन्तसंसारानुबन्धोऽपि स्यात् उक्तंच-"संसारो अ अणंतो, भट्ठचरित्तस्स लिंगजीविस्स । पंचमहबयतुंगो, पागारो भिल्लिओ जेणन्ति ।” १७८ एवं च श्रावकत्वमपि सुष्ठुतरम् , न तु दीक्षित्वात्तद्भङ्गेन वेषमात्रोपजीवित्वमित्युपदिशतिचुयधम्मस्स उ मुणिणो सुट्टयरं किर सुसावगत्तंपि । पडियंपि फलंसेयं तरुपडणाओन उच्चपि ॥ १७९॥
च्युतधर्मणो मुनेः सुष्टुतर सुश्रावकत्वमपि । पतितमपि फलं श्रेयस्तरुपतनान्नोधमपि ॥ १७९ ॥ यदा हि महायानपात्रसमानसंसारसागरतारणप्रवणं संयम भग्नमवगच्छति, तदा संसारभीरुः क्षुद्रतरङ्गकल्पमपि श्रावकधर्ममङ्गीकुरुते, नतु निराधार एव वेषमात्रमुपजीवति, संसारपातप्रसङ्गात्, श्रावकत्वेपि अर्हच्चैत्यसुसाधुपूजादानधर्मादेनिस्तारसम्भवात् , उक्तंच-"अरहंतचेइयाणं, सुसाहुपूआरओ दढायारो । सुस्सावओ वरतरं, न साहुवेसेण चुयधम्मोत्ति ।" लिङ्गमात्रोपजीवने तूक्ता एव दोषाः, अथ व्रतभङ्गेपि तस्य धर्मान्तरसम्भवात् कथमित्थं गर्हणी
॥१०२॥
en Education
For Private Personal use only

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240