SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 0000000000000000000000 तन्त्रं, मैवं “इच्छा हु आगाससमा असंखया” इत्याद्यागमप्रामाण्यबलेन जगत एवाविरुद्धमनसामिच्छाविषयत्वात् , ताव-| द्विषयाणामसिद्धत्वात्, प्रोषितस्य सकलतत्कान्तावलोकनानां स्वरूपतः सिद्धत्वेपि मृतकान्तावलोकनेच्छाऽदर्शनाच्च, अथ सिद्धत्वनिश्चयाभावापेक्षया लाघवादसिद्धत्वज्ञानमेवेच्छाहेतुरिति सिद्धत्वज्ञाने तन्निवृत्ताविच्छानिवृत्तिरितिचेन्न, सामानाधिकरण्येन सिद्धत्वज्ञानस्य सामानाधिकरण्येनासिद्धत्वज्ञानाविरोधित्वात् , सामान्यतः सिद्धत्वप्रमायाश्चासम्भवात्, इदं तु प्रतिभाति-यथा जलपानेन पिपासाकारणतृनिवृत्तौ पिपासानिवृत्तिः एवं स्वकारणाधीनभोगकर्मनिवृत्तावेव भोगेच्छानिवृत्तिस्तत एव च भोगद्वेषः, कथमन्यथा अविरतसम्यग्दृशः संसारसुखे बलवदुःखानुबन्धित्वं प्रतिसन्दधाना अपि न ततो निवर्तन्ते । नन्वेवं भोगेनैव भोगकर्मनाशात् तन्नाशार्थिनस्तत्र प्रवृत्तियुक्तेतिचेत्सत्यम् , यस्तस्य भोगैकनाश्यत्वं कुतोऽपि हेतोनिश्चिनोति तस्य भोगेच्छानिवृत्तये तत्र प्रवृत्तिर्युक्तैव यथा कालदष्टस्य विषभक्षणे, यस्य तु न तथानिश्चयस्तस्य तत्र प्रवृत्तिविपरीतप्रयोजनेतितत्त्वम् ॥ १७३ ॥ अपिच भोगप्रवृत्तेर्भोगनाशः सन्दिग्धः, आयुर्निर्णयस्य कर्तृमशक्यत्वाच्चायतौ योगप्रवृत्तिरपि सन्दिग्धा, प्रतिक्षणमविरतिप्रत्ययिककर्मबन्धश्च बलवदनिष्टसाधनं भगवद्वचनान्निर्णीतमेवेति कथमेवंविधाभिलाषो विवेकिनामुज्जम्भेतेत्युपदिशति8 को वा जिय वीसासो विजुलयाचंचलंमि आउंमि।सज्जो निरुज्जमो जइ जराभिभूओ कहं होही ॥१७॥ को वा जीव विश्वासो विद्युल्लताचञ्चल आयुषि । सज्जो निरुद्यमो यदि जराभिभूतः कथं भविष्यति भवान् ।। १७४ ।। 000000000ccc00CcOS0GGG006 Jain Education Intel For Private & Personel Use Only Mainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy