________________
DUCTS
अध्यात्म० विच्छेदकत्वौचित्यात्, वस्तुतस्तु विशेषदर्शिनः सिद्धत्वज्ञानकृतः सामान्येच्छाविच्छेदो नास्त्येव, किन्तु सुखे संसार
परीक्षा वृ० दुःखानुबन्धित्वज्ञानाद्वेषकृत एव सः, अत एवोक्तम् “न जातु कामः कामानामुपभोगेन शाम्यतीति" अत एव ॥ ९८ ॥ संसारसुखमात्र एव द्वेषे विशेषेच्छापि विरक्तस्य विच्छिद्यते, यत्र तु बलवदुःखानुबन्धित्वं न ज्ञातं प्रत्युत तदननु
बन्धित्वमेव ज्ञातम् तत्र मोक्षसुखे द्वेषाभावान्मुमुक्षोरिच्छा न विच्छिद्यते, प्रत्युत समेधते, सामग्रीसत्त्वादिति। स्यादेतत् , विजातीयसुखत्वावच्छेदेन सिद्धजातीयत्वज्ञानमेव विजातीयसुखत्वेनेच्छाप्रतिबन्धकम्, नचाविरक्तस्य संसारसुखे सिद्धजातीयत्ववस्तु सदपि भासते, मोहनीयकर्मदोषमहिम्ना भाविनि सुखे नियमतः सिद्धसुखे वैलक्षण्यस्यैवोपस्थितेः तदुक्तम्-"पत्ता य कामभोगा कालमणंतं इहं सउवभोगा। अपुर्वपि व मन्नइ तहवि य जीवो मणे सुक्खंति" अत्रापूर्वपदमपूर्वजातीयपरम् , अन्यथा भाविनः सुखस्य वस्तुतोऽपूर्वत्वादिनार्थानुपपत्तिः, एवं चोक्तकर्मदोषविलयेन विजातीयसुखत्वावच्छेदेन सिद्धजातीयत्वज्ञानादेव संसारसुखेच्छाविच्छेद इति, मैवम् , सिद्धसुखे बलवदुःखा(न)नुब-18 कान्धित्वज्ञानात् तज्जातीयत्वज्ञानस्य द्वेषहेतुतद्ज्ञानप्रयोजकत्वात् , तद्धि सामग्रीप्रतिपादनेन फलतः संसारसुखेच्छाविच्छेदहेतुद्वेषसामग्रीवैकल्यस्यैव प्रतिपादनात्, अत एव “जाणिज्जइ चिंतिजइ जम्मजरामरणसंभवं दुक्खं । ण य विसएसु विरजइ अहो सुबद्धो कवडगंठि" इत्यनेन दोषमहिम्ना संसारसुखे द्वेषहेतुबलवदुःखानुबन्धित्वज्ञानवैकल्यमेवोक्तम् , अत एव च "जाणेइ जह मरिजइ अमरंतं पि हु जरा विणासेइ। ण य उबिग्गो लोओ अहो रहस्सं सुणिम्माय" इत्यनेनैतदेव विवृतम् । स्यादेतत् , तजातीयसुखत्वेनेच्छाया निवृत्तौ यावत्तज्जात्याश्रयाणां सुखानां स्वरूपसंसिद्धत्वमेव |
00000000000000000000000000
ஒருங்காருடாஇ
Jain Education
a
l
For Private
Personal Use Only
Mw.jainelibrary.org