SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ DUCTS अध्यात्म० विच्छेदकत्वौचित्यात्, वस्तुतस्तु विशेषदर्शिनः सिद्धत्वज्ञानकृतः सामान्येच्छाविच्छेदो नास्त्येव, किन्तु सुखे संसार परीक्षा वृ० दुःखानुबन्धित्वज्ञानाद्वेषकृत एव सः, अत एवोक्तम् “न जातु कामः कामानामुपभोगेन शाम्यतीति" अत एव ॥ ९८ ॥ संसारसुखमात्र एव द्वेषे विशेषेच्छापि विरक्तस्य विच्छिद्यते, यत्र तु बलवदुःखानुबन्धित्वं न ज्ञातं प्रत्युत तदननु बन्धित्वमेव ज्ञातम् तत्र मोक्षसुखे द्वेषाभावान्मुमुक्षोरिच्छा न विच्छिद्यते, प्रत्युत समेधते, सामग्रीसत्त्वादिति। स्यादेतत् , विजातीयसुखत्वावच्छेदेन सिद्धजातीयत्वज्ञानमेव विजातीयसुखत्वेनेच्छाप्रतिबन्धकम्, नचाविरक्तस्य संसारसुखे सिद्धजातीयत्ववस्तु सदपि भासते, मोहनीयकर्मदोषमहिम्ना भाविनि सुखे नियमतः सिद्धसुखे वैलक्षण्यस्यैवोपस्थितेः तदुक्तम्-"पत्ता य कामभोगा कालमणंतं इहं सउवभोगा। अपुर्वपि व मन्नइ तहवि य जीवो मणे सुक्खंति" अत्रापूर्वपदमपूर्वजातीयपरम् , अन्यथा भाविनः सुखस्य वस्तुतोऽपूर्वत्वादिनार्थानुपपत्तिः, एवं चोक्तकर्मदोषविलयेन विजातीयसुखत्वावच्छेदेन सिद्धजातीयत्वज्ञानादेव संसारसुखेच्छाविच्छेद इति, मैवम् , सिद्धसुखे बलवदुःखा(न)नुब-18 कान्धित्वज्ञानात् तज्जातीयत्वज्ञानस्य द्वेषहेतुतद्ज्ञानप्रयोजकत्वात् , तद्धि सामग्रीप्रतिपादनेन फलतः संसारसुखेच्छाविच्छेदहेतुद्वेषसामग्रीवैकल्यस्यैव प्रतिपादनात्, अत एव “जाणिज्जइ चिंतिजइ जम्मजरामरणसंभवं दुक्खं । ण य विसएसु विरजइ अहो सुबद्धो कवडगंठि" इत्यनेन दोषमहिम्ना संसारसुखे द्वेषहेतुबलवदुःखानुबन्धित्वज्ञानवैकल्यमेवोक्तम् , अत एव च "जाणेइ जह मरिजइ अमरंतं पि हु जरा विणासेइ। ण य उबिग्गो लोओ अहो रहस्सं सुणिम्माय" इत्यनेनैतदेव विवृतम् । स्यादेतत् , तजातीयसुखत्वेनेच्छाया निवृत्तौ यावत्तज्जात्याश्रयाणां सुखानां स्वरूपसंसिद्धत्वमेव | 00000000000000000000000000 ஒருங்காருடாஇ Jain Education a l For Private Personal Use Only Mw.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy