________________
000000000000000000000
सिद्धत्वज्ञानं, तेन तत्तत्सुखेच्छाविरोधिवशेनानन्तप्रतिबन्धकत्वकल्पने गौरवात् , समानप्रकारकत्वेनैव तथात्वात्। इत्थं च सुखत्वेन सिद्धत्वज्ञानदशायां तत्तत्सुखभिन्नत्वेनैव सिद्ध एव तत्तत्सुखे इच्छाप्रोषितस्यापि ज्ञात एव कान्तावलोकने ज्ञातान्यस्वीयकान्तावलोकनत्वेनेच्छेति चेन्न, तथापि सामान्येच्छाऽविच्छेदेपि विशेषेच्छाविच्छेदप्रसङ्गात, तावदिच्छानां भ्रमत्वकल्पनापेक्षया समानविषयत्वप्रत्यासत्त्या समानप्रकारकसिद्धत्वज्ञानस्य प्रतिबन्धकत्वकल्पनाया न्याय्यत्वात्तत्तत्सुखभिन्नत्वेन सुखेच्छानां ज्ञातान्यकान्तावलोकनत्वादिनेष्टसाधनताज्ञानानां ज्ञातान्यकान्तावलोकनत्वादिनेच्छाहेतुत्वकल्पनापेक्षयावच्छेदकावच्छेदेनैव सिद्धत्वज्ञानस्य प्रतिबन्धकत्वकल्पनाया युक्तत्वाच्च, एतेन सामाना|धिकरण्येन सिद्धत्वज्ञानस्यैव विरोधित्वम् , प्रोषितस्य त्ववलोकनत्वसामान्यलक्षणयोपस्थिते भाव्यवलोकने तत्कान्ती-10 यत्वभ्रमेण सिद्धतत्तदवलोकनेतरतत्कान्तावलोकनत्वेनैवेच्छेति निरस्तम् । अथ सुखत्वेनेच्छां प्रति सुखत्वेन सिद्धत्व-16
ज्ञानमेव प्रतिबन्धक, न तु सुखत्वावच्छेदेन सिद्धत्वज्ञानं, सुखत्वव्यापकसिद्धत्वीयस्वरूपसम्बन्धेन सिद्धत्वप्रकारकसुकाखत्वावच्छिन्नविशेषताकज्ञानत्वापेक्षया विशेषतः स्वरूपसम्बन्धेन सिद्धत्वप्रकारकसुखत्वावच्छिन्नविशेष्यताकज्ञान-13
त्वस्यैव लघुत्वात् , नचैवं सामानाधिकरण्येन सिद्धत्वज्ञानोत्तरं सामानाधिकरण्येनेच्छापलापः, अनन्यगत्या सुखज-16 नकादृष्टविशेषस्योत्तेजकत्वस्वीकारात् , एवं च प्रोषितस्यापि मृतकान्तावलोकनेच्छाप्रतिबन्धके तत्कान्तावलोकनत्वेन सिद्धत्वज्ञाने कान्तामरणज्ञानाभावादिकमुत्तेजक वाच्यम् , नचैवं गौरवं, व्यापकत्वनिवेशापेक्षयोत्तेजकनिवेशे लाघवात् , अन्यथा विशेषदर्शिनः सामान्येच्छाऽविच्छेदप्रसङ्गाच्चेति चेन्न, एवं सत्युत्तेजकत्वाभिमतादृष्टक्षयस्यैव सामान्येच्छा
300000000000000000000000
Jain Educataa
TAL
For Private & Personal Use Only
www.jainelibrary.org