Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 207
________________ 000000000000000000000 सिद्धत्वज्ञानं, तेन तत्तत्सुखेच्छाविरोधिवशेनानन्तप्रतिबन्धकत्वकल्पने गौरवात् , समानप्रकारकत्वेनैव तथात्वात्। इत्थं च सुखत्वेन सिद्धत्वज्ञानदशायां तत्तत्सुखभिन्नत्वेनैव सिद्ध एव तत्तत्सुखे इच्छाप्रोषितस्यापि ज्ञात एव कान्तावलोकने ज्ञातान्यस्वीयकान्तावलोकनत्वेनेच्छेति चेन्न, तथापि सामान्येच्छाऽविच्छेदेपि विशेषेच्छाविच्छेदप्रसङ्गात, तावदिच्छानां भ्रमत्वकल्पनापेक्षया समानविषयत्वप्रत्यासत्त्या समानप्रकारकसिद्धत्वज्ञानस्य प्रतिबन्धकत्वकल्पनाया न्याय्यत्वात्तत्तत्सुखभिन्नत्वेन सुखेच्छानां ज्ञातान्यकान्तावलोकनत्वादिनेष्टसाधनताज्ञानानां ज्ञातान्यकान्तावलोकनत्वादिनेच्छाहेतुत्वकल्पनापेक्षयावच्छेदकावच्छेदेनैव सिद्धत्वज्ञानस्य प्रतिबन्धकत्वकल्पनाया युक्तत्वाच्च, एतेन सामाना|धिकरण्येन सिद्धत्वज्ञानस्यैव विरोधित्वम् , प्रोषितस्य त्ववलोकनत्वसामान्यलक्षणयोपस्थिते भाव्यवलोकने तत्कान्ती-10 यत्वभ्रमेण सिद्धतत्तदवलोकनेतरतत्कान्तावलोकनत्वेनैवेच्छेति निरस्तम् । अथ सुखत्वेनेच्छां प्रति सुखत्वेन सिद्धत्व-16 ज्ञानमेव प्रतिबन्धक, न तु सुखत्वावच्छेदेन सिद्धत्वज्ञानं, सुखत्वव्यापकसिद्धत्वीयस्वरूपसम्बन्धेन सिद्धत्वप्रकारकसुकाखत्वावच्छिन्नविशेषताकज्ञानत्वापेक्षया विशेषतः स्वरूपसम्बन्धेन सिद्धत्वप्रकारकसुखत्वावच्छिन्नविशेष्यताकज्ञान-13 त्वस्यैव लघुत्वात् , नचैवं सामानाधिकरण्येन सिद्धत्वज्ञानोत्तरं सामानाधिकरण्येनेच्छापलापः, अनन्यगत्या सुखज-16 नकादृष्टविशेषस्योत्तेजकत्वस्वीकारात् , एवं च प्रोषितस्यापि मृतकान्तावलोकनेच्छाप्रतिबन्धके तत्कान्तावलोकनत्वेन सिद्धत्वज्ञाने कान्तामरणज्ञानाभावादिकमुत्तेजक वाच्यम् , नचैवं गौरवं, व्यापकत्वनिवेशापेक्षयोत्तेजकनिवेशे लाघवात् , अन्यथा विशेषदर्शिनः सामान्येच्छाऽविच्छेदप्रसङ्गाच्चेति चेन्न, एवं सत्युत्तेजकत्वाभिमतादृष्टक्षयस्यैव सामान्येच्छा 300000000000000000000000 Jain Educataa TAL For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240