Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
0000000000000000000000
ज काउं जे ॥२॥ सोवि य निययपरक्कमववसायधिइबलं अगृहंतो। मुत्तण कूडचरियं,जई जयंतो अवस्सजइत्ति ॥२॥" मनोधृतिबलेन च कायवाक्प्रवृत्तिरपि काचिद्भवत्येव यया त्रिकरणशुद्धिराधीयते, केवलं विचित्रतपोभिग्रहादिक कर्तुमशक्नुवतोऽपि तस्य कायव्रतयतनया न हानिः शक्त्यनिगूहनात् , उक्तंच-"जइ ता असक्कणिज्जं, ण तरसि काऊण तो इमं कीस । अप्पायत्तं न कुणसि, संजमजयणं जईजोग्गंति ।” ननु तर्हि धृतिबलेन विचित्राभिग्रहादिकमपि न दुष्करम् , दृश्यन्ते हि धृतिबलेन कायमपि त्यजन्तो महासाहसिका इति चेन्न, धृतिबलसाध्येपि विचित्राभिग्रहादौ व्रतार्जनक्षमयोगहानिरूपबलवदनिष्टानुबन्धित्वप्रतिसन्धानेन तत्राप्रवृत्तेः, अत एवोक्तं-"मा कुणउ जइ तिगिच्छं, अहि. यासेऊण जइ तरइ सम्मं । अहियासंतस्स पुणो, जइसे जोगाण हायंतित्ति ।" नन्वेवं तपसि कस्यापि प्रवृत्तिर्न स्यात्तत्र नियमतो दुःखानुबन्धित्वज्ञानादितिचेन्न, व्याधिचिकित्सारूपे तपस्यायतिसुखानुबन्धित्वस्यैव ज्ञानात्, न च दुःखजनकत्वज्ञानेन तत्र द्वेषः, बलवत्सुखाननुबन्धिदुःखजनकत्वज्ञानस्यैव द्वेषजनकत्वात् , अन्यथा समुच्छिन्ना योगमार्गव्यवस्था, तथाप्यातध्यानजनके ध्रुवयोगहानिजनके च तत्र प्रवृत्तिर्नास्त्येव, शुभध्यानध्रुवयोगानुकूल्येनैव तदुपदेशात्तदुक्तम्-16 “जह जह खमइ सरीरं,धुवजोगा जह जहा न हायति । कम्मक्खओ अविउलो, विचित्तया इंदियदमो यत्ति।"॥१७५॥ ये तु बलकालशोचनयैवालस्योपहताः शक्ता अपि चारित्रं नाद्रियन्ते ते प्रान्ते जरामरणभयभीतास्तन्निवृत्त्युपायाप्रवृत्त्या प्रार्थनामात्रेण प्रार्थितं, सुखमप्राप्नुवन्तो बाढमात्मानं शोचन्ति, ततश्चार्तध्यानोपहता एव बालमरणेन म्रियन्त इत्युपदिशति
000000000000®®e
Jain Education
For Private 8 Personal Use Only
Harjainelibrary.org

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240