Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 206
________________ अध्यात्म परीक्षावृ० 3900000000000000000000 संसार्यकस्वभावा एव केचित् आत्मान इति स्थितेऽहमेव यदि तथा स्यां तदा मम विपरीतप्रयोजनं परिव्राजकत्वमिति शङ्कया न कश्चित्तदर्थं ब्रह्मचर्यादिदुःखमनुभवेदित्युदयनमतं परास्तम् , एवमभव्यत्वशङ्कानिवृत्तौ सामान्यतः प्रवृत्तिर्दीर्घसंसारित्वशङ्कानिवृत्तौ दृढतरकर्मक्षये प्रवृत्तिरिति तत्त्वम् ॥१७२॥ अथ ये वदन्ति मोक्षोपाये प्रवृत्तिस्तावद्वैराग्यादेव, वैराग्यं च नाभुक्तभोगानामेव, भोगेषु सिद्धत्वप्रतिसन्धानेन तदिच्छासन्ततिविच्छेदसम्भवात्तथाच भोगान् भुक्त्वैव तदनन्तरं मोक्षोपाये योगमार्गे प्रवर्तिष्यामह इति, ताननुशासितुमाहजो पुण भोए भोत्तुं इच्छइ तत्तो य संजमं काउं । जलणमि पजलित्ता इच्छइ पच्छा स निवाउं॥१७३॥1 यः पुनर्भोगान् भुक्त्वेच्छति ततश्च संयमं कर्तुम् । ज्वलने प्रज्वल्येच्छति पश्चात्स निर्वातुम् ॥ १७३ ॥ _ न खलु कामोपभोगेन कामक्षयो नामापि तु तदभिवृद्धिरेव, प्राप्तजातीये सुखान्तरे इच्छासामग्रीसञ्चारादज्ञात इच्छाविरहादू, नचैवं समानप्रकारकेच्छां प्रति समानप्रकारकज्ञानस्य हेतुत्वमस्तु, सिद्धत्वं तु तत्रातन्त्रमिति वाच्यम् , तथापि सिद्धसुखोपायेष्टसाधनतासाक्षात्कारप्रसूतसदृशदर्शनोद्बोध्यदृढतरसंस्कारपरम्परोपनीयमानोपायान्तरेष्टसाधनतास्मरणपरम्पराधीनेच्छाभिवृद्धेः कामोपभोगाधीनत्वाद, अथ सिद्धत्वज्ञानकृतसामान्येच्छाविच्छेदसम्भवात् नेवमितिचेन्न, सामानाधिकरण्येन सिद्धत्वज्ञानेपि सामानाधिकरण्येनेच्छाया अनुभविकत्वात् , कथमन्यथा प्रोषितस्याज्ञातकान्तामरणस्य तत्कान्तावलोकनादाविच्छा, सामान्यधर्मावच्छेदेन सिद्धत्वधीस्तु यावदाश्रयसिद्धत्वधियं विना विशेपदर्शिनो न सम्भवति, अथ सुखत्वादिसामानाधिकरण्येन सिद्धत्वज्ञानमेवेच्छाविरोधि, न च सुखत्वेन तत्तत्सुखे கருEைCOGNOS Jain Education Inter For Private & Personel Use Only H ainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240