Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 204
________________ अध्यात्म परीक्षा वृ० SOOOOOOOOOOOOOOOOOOாட்டு पारस्यैवाभ्यन्तरविशुद्धिपरीक्षाक्षमत्वात् , तद्विरहे तदभावात् , तदुक्तमागमे "सञ्जमजोगेसु सया जे पुण संतविरिया विसीयन्ति । कह ते विसुद्धचरणा, बाहिरकरणालसा हुंतित्ति ।” एषैव च परा भगवतामाज्ञा तपःसंयमयोरेवोद्यच्छतां सकलफलानुज्ञानात् तदुक्तम्-"चेइयकुलगणसंघे, आयरियाणं च पवयणसुए य । सबेसु वि तेण कयं, तवसंजममुज्जमतेणंति।" अयं च तत्रोक्तसकलगुणयोगाल्लाक्षणिकः प्रयोगः, एवं च सकलसारभूततया तपःसंयमयोरेव यतितव्यमित्युपदेशसर्वस्वम्, नन्वस्मादुपदेशाच्चारित्रे इष्टसाधनत्वप्रतिसन्धानेपि चारित्रावरणकर्मप्रतिबन्धादेव प्राणिनां न प्रवृत्तिर्भविष्यति, तदनुदये च स्वत एव तत्र प्रवृत्तेर्व्यर्थोऽयमुपदेश इतिचेन्न, लघुकर्मणामपि येषामिष्टसाधनत्वका ज्ञानविलम्बान्न प्रवृत्तिस्तेषामिष्टसाधनत्वज्ञापनायैव शास्त्रव्यापारात्, पुनर्बन्धकादिव्यतिरिक्तानामेव योग्यत्वेनाधिकारित्वाद् अतथाभूतेषु भगवदुपदेशस्याप्यनतिप्रयोजनत्वात् ,अपि च शास्त्रोपदेशश्रवणोद्भूतश्रद्धातिशयेनानिकाचितकर्मणां प्रतिबन्धककर्मक्षयोऽपि सम्भवेदेव, निकाचितकर्मणामेव धर्म श्रुत्वाप्यप्रवृत्तेः उक्तंच-अणुसिठ्ठा य बहुविहं, मिच्छद्दिही य जे नरा अहमा। बद्धनिकाइयकम्मा सुगंति धम्मं ण य करतीति ।" ननु तथापि दीर्घसंसारित्वशङ्कया अभव्यत्वशङ्कया |च बह्वायाससाध्यमोक्षोपाये चारित्रे प्रवृत्तिर्न भविष्यतीत्याशङ्कायामाहआसन्नसिद्धियाणं जीवाणं लक्खणं इमं चेव । तेण ण पवित्तिरोहो भवाभवत्तसंकाए ॥१७२॥ आसन्नसिद्धिकानां जीवानां लक्षणमिदमेव । तेन न प्रवृत्तिरोधो भव्याभव्यत्वशङ्कया ।। १७२ ।। संयमो यम एव ह्यासन्नसिद्धिकस्य जीवस्य लक्षणं तदाहुः-"आसन्नकालभवसिद्धियस्स जीवस्स लक्खणं इणमो। 6000-6666000 ॥९६॥ Jain Education For Private Personel Use Only a ainelibrary.org

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240