________________
अध्यात्म
परीक्षा वृ०
SOOOOOOOOOOOOOOOOOOாட்டு
पारस्यैवाभ्यन्तरविशुद्धिपरीक्षाक्षमत्वात् , तद्विरहे तदभावात् , तदुक्तमागमे "सञ्जमजोगेसु सया जे पुण संतविरिया विसीयन्ति । कह ते विसुद्धचरणा, बाहिरकरणालसा हुंतित्ति ।” एषैव च परा भगवतामाज्ञा तपःसंयमयोरेवोद्यच्छतां सकलफलानुज्ञानात् तदुक्तम्-"चेइयकुलगणसंघे, आयरियाणं च पवयणसुए य । सबेसु वि तेण कयं, तवसंजममुज्जमतेणंति।" अयं च तत्रोक्तसकलगुणयोगाल्लाक्षणिकः प्रयोगः, एवं च सकलसारभूततया तपःसंयमयोरेव यतितव्यमित्युपदेशसर्वस्वम्, नन्वस्मादुपदेशाच्चारित्रे इष्टसाधनत्वप्रतिसन्धानेपि चारित्रावरणकर्मप्रतिबन्धादेव प्राणिनां
न प्रवृत्तिर्भविष्यति, तदनुदये च स्वत एव तत्र प्रवृत्तेर्व्यर्थोऽयमुपदेश इतिचेन्न, लघुकर्मणामपि येषामिष्टसाधनत्वका ज्ञानविलम्बान्न प्रवृत्तिस्तेषामिष्टसाधनत्वज्ञापनायैव शास्त्रव्यापारात्, पुनर्बन्धकादिव्यतिरिक्तानामेव योग्यत्वेनाधिकारित्वाद् अतथाभूतेषु भगवदुपदेशस्याप्यनतिप्रयोजनत्वात् ,अपि च शास्त्रोपदेशश्रवणोद्भूतश्रद्धातिशयेनानिकाचितकर्मणां प्रतिबन्धककर्मक्षयोऽपि सम्भवेदेव, निकाचितकर्मणामेव धर्म श्रुत्वाप्यप्रवृत्तेः उक्तंच-अणुसिठ्ठा य बहुविहं, मिच्छद्दिही य जे नरा अहमा। बद्धनिकाइयकम्मा सुगंति धम्मं ण य करतीति ।" ननु तथापि दीर्घसंसारित्वशङ्कया अभव्यत्वशङ्कया |च बह्वायाससाध्यमोक्षोपाये चारित्रे प्रवृत्तिर्न भविष्यतीत्याशङ्कायामाहआसन्नसिद्धियाणं जीवाणं लक्खणं इमं चेव । तेण ण पवित्तिरोहो भवाभवत्तसंकाए ॥१७२॥
आसन्नसिद्धिकानां जीवानां लक्षणमिदमेव । तेन न प्रवृत्तिरोधो भव्याभव्यत्वशङ्कया ।। १७२ ।। संयमो यम एव ह्यासन्नसिद्धिकस्य जीवस्य लक्षणं तदाहुः-"आसन्नकालभवसिद्धियस्स जीवस्स लक्खणं इणमो।
6000-6666000
॥९६॥
Jain Education
For Private
Personel Use Only
a
ainelibrary.org