________________
0000000000000000000000
वतीति तज्जातीया अपि सत्यपि ज्ञानादिसाम्राज्ये न केवलिनो भवेयुः, किंच तीर्थकरेऽसम्भवदतीर्थकरत्वं सामाकान्यकेवलिनामपि सम्भवेदिति तस्मात्पक्षपातमात्रमेतत्, परमौदारिकशरीरं चाशौचनिरासप्रवणं यदि स्वसामग्र्यधीनं
सम्भवेत्तर्हि स्त्रीणामपि प्राप्तकैवल्यानामशौचनिरासाय प्रभवेन्नो चेन्न संभवेदिति सङ्केपः ॥ १६९ ॥ उपसंहरतिइय इत्थीणं सिद्धी सिद्धा सिद्धंतमूलजुत्तीहि । एयं असदहंता चिक्कणकम्मा मुणेयवा ॥ १७०॥
इति स्त्रीणां सिद्धिः सिद्धा सिद्धान्तमूलयुक्तिभिः । एतामश्रद्दधतः दृढकर्माणो ज्ञातव्याः ।। १७० ॥ स्पष्टा एवं च प्रासाधि स्त्रीणां निर्वाणं, तत्सिद्धौ च सिद्धाः सिद्धानां पञ्चदश भेदाः, तत्सिद्धौ च सिद्धं सप्रसङ्गमध्यात्मनिरूपणम् , अथैतदुपनिषद्भूतमुपदिशति-- एयं परमरहस्सं एसो अज्झप्पकणगकसवहो। एसा य परा आणा संजमजोगेस जो जत्तो॥ १७१॥
एतत्परमरहस्यमेषोऽध्यात्मकनककषपट्टः । एषा च पराज्ञा संयमयोगेषु यो यत्नः ॥ १७१ ॥ 'एतदेव खलु सकलनयप्रमाणव्युत्पादनप्रवणस्य प्राक्प्रपञ्चस्योपनिषद्भूतं यः संयमयोगेषु व्यापारः' ज्ञानस्य विरतिफलत्वात् , तन्मयस्य शास्त्रस्य तत्फलवत्तयैव फलवत्त्वात्, तथाच पारमाणे "सबेसि पिणयाणं बहुविहवत्तवयं णिसामित्ता । तं सबणयविसुद्धं जं चरणगुणडिओ साहूत्ति ।” नन्वेवं वादग्रन्थस्यास्य वादिपराजय एव फलं नतु विरतिरिति न पारमार्थिकं फलमितिचेन्न, विजिगीषूणां वादिपराजयस्य फलत्वेपि तत्त्वनिर्णिनीषूणां तत्त्वनिर्णयद्वारा विरतेरेव फलत्वात्, एष एव चाध्यात्मभावनायाध्यात्म्यपरीक्षानिबन्धनम् , कनकस्येव कषोपललेखा, बाह्यकरणव्या
இருமுருருருOேGGE
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org