SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ अध्यात्म परीक्षा वृ० 000000000000000000000000 स्तरां तदतिरेकाधीनभाववैचित्र्यप्राप्तिसम्भावना, स्त्रीणां तु विशिष्टमार्गे शक्तिरेव नेति स्वोचितचारित्रे शक्तिमनिगूह्य प्रवर्त्तमानानां न नाम शक्तिनिगूहनाधीनां चारित्रहानिरस्ति, एवं चोत्तरोत्तरं चारित्रवृद्धिरेव तासां सम्भवतीति सम्भवति भाववैचित्र्याधीनो विचित्रकर्मक्षयः, इदमेवाभिप्रेत्योक्तं "जिनवचनं जानीते, श्रद्धत्ते, चरति, चार्यिका शबलम्। नास्यास्त्यसम्भवोऽस्य नादृष्टविरोधगतिरस्तीति," नच स्त्रीवेदोदयप्रसूतकामातिरेकप्रतिबद्ध्यतया ब्रह्मचर्यैकजीवितं भाववैचित्र्यमेव तासामसम्भवीति वाच्यम् , स्त्रीणामपि दुर्द्धरब्रह्मचर्यधरणश्रवणात् , कषायहानिसामच्या नोकषायहानेः सुकरत्वादन्यथा पुंसामपि कः प्रतीकारः, नच छद्मस्थानां कात्स्न्येनानिरुद्धमनसाम् कादाचित्केन मानसविकारलेशेनातिचारसम्भवेऽप्यनाचारो नाम, देशभङ्गेपि सर्वभङ्गाभावात्, मानसिकपापस्य मानसपश्चात्तापादि-| प्रतीकार्यत्वादू । अन्यथा छद्मस्थानां प्रत्याख्यानभङ्गावश्यकत्वे प्रव्रज्योच्छेदप्रसङ्गः, तस्मात् स्त्रीक्लीबयोवैषम्यस्य दर्शितत्वात्तयोरुभयोः समानशीलत्वे वाङमात्रमेव शरणमिति न किञ्चिदेतत् , यदप्युक्तं 'पापरूपं स्त्रीत्वं परमपुण्यप्रारभाराणां केवलिनां न सम्भवतीति' तदसत्, स्त्रीत्वस्य पापत्वासिद्धेः, जगद्गहणीयत्वस्यासिद्धतया तदसाधकत्वात् , भगवजनन्यादीनामहणीयत्वात् , नच स्त्रीत्वं केवलिनां वीतद्वेषाणां प्रतिकूलवेदनीयं, येन त्वदुक्तरीत्यापि तत्पापत्वमास्कन्देत् , नच परप्रतिकूलवेदनीयतयैव पापत्वं, बाह्यानां श्रामण्यस्यापि प्रतिकूलवेदनीयत्वात् , रागस्य शुभाशुभाङ्गतया द्वैविध्यमपि न पापपुण्यत्वाभ्याम् , किन्तु शुभाशुभत्वाभ्यां, पुण्यपापत्वयोस्तु परिभाषैव तन्त्रमिति न किञ्चिदेतत्, नच स्त्रीत्वं तीर्थकराणां प्रायोऽसम्भवीति केवलिनामपि तथा, एवं सति विप्रत्वादिजातिरपि तीर्थकराणां प्रायो न सम्भ 100000000000000000000000 ॥ ९५॥ Jain Education Inter For Private Personel Use Only ainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy