Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
SOOOOOOOORSOCCCSFOOOOO
कारणाभावमन्वेषयतीति तुल्यम् , तस्मान्न शुभगत्यर्जनसामोत्कर्षोऽशुभगत्यर्जनसामोत्कर्ष व्यामोति, अथोर्ध्वगतिपरमोत्कर्ष एवाधोगतिपरमोत्कर्षव्याप्यस्तेनान्तरालिकवैषम्यदर्शनेपि न क्षतिरिति चेन्न, तस्यापि नियमस्य दूषितत्वात् एतेन-स्त्रीणां न ज्ञानादि परमप्रकर्षत्वात् सप्तमनरकपृथ्वीगमनापुण्यपरमप्रकर्षवत्, इत्यपि निरस्तम्। स्त्रियो ज्ञानादिपरमप्रकर्षाभाववत्यः परमप्रकर्षवादित्यर्थे हि किं केन सङ्गतम्, ज्ञानादिपरमप्रकर्षों न स्त्रीवृत्तिः परमप्रकर्षत्वात् इत्यर्थे तु षष्ठयाः सप्तम्यर्थे लक्षणापत्तिः, साम्प्रदायिकसप्तम्यनुपादानस्यान्याय्यत्वम्, मोहनीयस्थितिपरमप्रकर्षे स्त्रीवेदपरमप्रकर्षे व्यभिचारश्च, सप्तमनरकपृथ्वीगमनापुण्यजातीयपरमप्रकर्षत्वस्य हेत्वर्थत्वे पक्षावृत्तित्वम् ज्ञानादेरपुण्यजातीयत्वाभावात्, आत्मपरिणामत्वजात्या तज्जातीयत्वस्य स्त्रीवेदपरिणामादिसाधारणत्वेनानैकान्तिकत्वात् , स्त्रीणां न ज्ञानादिपरमप्रकर्षः गुणप्रकर्षत्वात् , इत्यत्र व्याप्तिग्राहकप्रमाणाभावः, ज्ञानादिप्रकर्षः स्त्रीवृत्तिनपुंसकावृत्तिर्गुणप्रकर्षत्वात् सम्यग्दर्शनप्रकर्षवत् इत्येतेन बाधश्च । किंच छाास्थ्यकालावच्छेदेन ज्ञानादिप्रकर्षस्य । स्त्रीवृत्तित्वाभावे साध्ये श्रुतज्ञानप्रकर्षमादाय पक्षकदेशे सिद्धसाधनम्, कैवल्यकालावच्छेदेन तत्साधने च वदतो व्याघातः, अथ चारित्रप्रकर्षो न स्त्रीवृत्तिर्गुणप्रकर्षत्वात् श्रुतज्ञानपरमप्रकर्षवत् इतिचेन्न, सम्यग्दर्शनप्रकर्षण व्यभिचारादू, ज्ञानप्रकर्ष विनापि चारित्रप्रकर्षस्य माषतुषादौ सिद्धत्वेनाप्रयोजकत्वाच्च । एवं चैतद्धेतुनिरासे संहननाभावहेतुरपि परास्तो वेदितव्यो, यतः स्त्रीणां वज्रर्षभसंहननाभावः किमागमनिषिद्धत्वात् साध्यते ? सप्तमनरक-15 पृथ्वीगमनायोग्यत्वाद्वानुमीयते? नाद्यः निषेधकागमाश्रवणात्, न द्वितीयः सप्तमनरकपृथ्वीगमनयोग्यत्वस्य वज्र
000000000000000000000000
Join Education
For Private & Personal Use Only
Mr.jainelibrary.org

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240