SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ SOOOOOOOORSOCCCSFOOOOO कारणाभावमन्वेषयतीति तुल्यम् , तस्मान्न शुभगत्यर्जनसामोत्कर्षोऽशुभगत्यर्जनसामोत्कर्ष व्यामोति, अथोर्ध्वगतिपरमोत्कर्ष एवाधोगतिपरमोत्कर्षव्याप्यस्तेनान्तरालिकवैषम्यदर्शनेपि न क्षतिरिति चेन्न, तस्यापि नियमस्य दूषितत्वात् एतेन-स्त्रीणां न ज्ञानादि परमप्रकर्षत्वात् सप्तमनरकपृथ्वीगमनापुण्यपरमप्रकर्षवत्, इत्यपि निरस्तम्। स्त्रियो ज्ञानादिपरमप्रकर्षाभाववत्यः परमप्रकर्षवादित्यर्थे हि किं केन सङ्गतम्, ज्ञानादिपरमप्रकर्षों न स्त्रीवृत्तिः परमप्रकर्षत्वात् इत्यर्थे तु षष्ठयाः सप्तम्यर्थे लक्षणापत्तिः, साम्प्रदायिकसप्तम्यनुपादानस्यान्याय्यत्वम्, मोहनीयस्थितिपरमप्रकर्षे स्त्रीवेदपरमप्रकर्षे व्यभिचारश्च, सप्तमनरकपृथ्वीगमनापुण्यजातीयपरमप्रकर्षत्वस्य हेत्वर्थत्वे पक्षावृत्तित्वम् ज्ञानादेरपुण्यजातीयत्वाभावात्, आत्मपरिणामत्वजात्या तज्जातीयत्वस्य स्त्रीवेदपरिणामादिसाधारणत्वेनानैकान्तिकत्वात् , स्त्रीणां न ज्ञानादिपरमप्रकर्षः गुणप्रकर्षत्वात् , इत्यत्र व्याप्तिग्राहकप्रमाणाभावः, ज्ञानादिप्रकर्षः स्त्रीवृत्तिनपुंसकावृत्तिर्गुणप्रकर्षत्वात् सम्यग्दर्शनप्रकर्षवत् इत्येतेन बाधश्च । किंच छाास्थ्यकालावच्छेदेन ज्ञानादिप्रकर्षस्य । स्त्रीवृत्तित्वाभावे साध्ये श्रुतज्ञानप्रकर्षमादाय पक्षकदेशे सिद्धसाधनम्, कैवल्यकालावच्छेदेन तत्साधने च वदतो व्याघातः, अथ चारित्रप्रकर्षो न स्त्रीवृत्तिर्गुणप्रकर्षत्वात् श्रुतज्ञानपरमप्रकर्षवत् इतिचेन्न, सम्यग्दर्शनप्रकर्षण व्यभिचारादू, ज्ञानप्रकर्ष विनापि चारित्रप्रकर्षस्य माषतुषादौ सिद्धत्वेनाप्रयोजकत्वाच्च । एवं चैतद्धेतुनिरासे संहननाभावहेतुरपि परास्तो वेदितव्यो, यतः स्त्रीणां वज्रर्षभसंहननाभावः किमागमनिषिद्धत्वात् साध्यते ? सप्तमनरक-15 पृथ्वीगमनायोग्यत्वाद्वानुमीयते? नाद्यः निषेधकागमाश्रवणात्, न द्वितीयः सप्तमनरकपृथ्वीगमनयोग्यत्वस्य वज्र 000000000000000000000000 Join Education For Private & Personal Use Only Mr.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy