SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ परीक्षावृ० अध्यात्म र्षभनाराचसंहननपर्यवसितत्वेनात्माश्रयात्; अथ सप्तमनरकपृथ्वीगमनयोग्यत्वाभावेन विशिष्टमनोवीर्यपरिणत्यभा वोऽनुमीयते, तेन च वज्रर्षभनाराचसंहननाभाव इति चेत्तत्रापि योग्यता यदि वज्रर्षभनाराचसंहननरूपा तदान्यो न्याश्रयः, यदि च मनःपरिणतिविशेषरूपा तदा तदभावेन तदभावसाधने आत्माश्रयः, तादृशाशुभमनोवीर्यपरिकिणतिं विनापि वज्रर्षभनाराचसंहननस्य चरमशरीरिणां सम्भवेन व्यभिचारश्च; नच सप्तमनरकपृथ्वीगमनयोग्यत्वा भावनोत्कृष्टाशुभमनोवीर्यजातीयवीर्याभावोऽनुमीयते, तेन च वज्रर्षभनाराचसंहननाभावोऽनुमास्यते इति(चेन्न),योग्यताया दुर्वचत्वादुक्तान्तर्भावे चोक्तदोषात्, एवं चक्रकानवस्थादिदूषणकदम्बकमुद्भावनीयम् । ___ एवं व्यवस्थिते स्त्रीनिर्वाणसाधनायानुमानमाहुः-मनुष्यस्त्रीजातिः कयाचिव्यक्त्या मुक्त्यविकलकारणवत्या तद्वती प्रव्रज्याधिकारित्वात् पुरुषवत्, न चैतदसिद्धम्। “गुविणी बालवुड्डाय पवावेउंण कप्पइ" इति सिद्धान्तेन तासां तदधिकारित्वप्रतिपादनात् , विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानान्तरीयकत्वादिति । ननु प्रव्रज्याधिकारस्य पारम्पर्येण मोक्षहेतुतयैवनिर्वाहः, न चैवमल्पायाससाध्ये तद्धेतुदेशविरत्यादावेव प्रवृत्तिः सङ्गच्छेत, नतु बह्वायाससाध्यसर्वविरताविति वाच्यम्, देशविरत्यादेर्भूयोभवघटितपारम्पर्येण मोक्षहेतुत्वेऽपि चारित्रस्यैवाल्पभवघटितपारम्पर्येण मोक्षहेतुत्वात्तादृशपारम्पर्येण मोक्षार्थितया तत्र प्रवृत्तेर्युक्तत्वात्कथमन्यथा दुष्षमाकालवर्तिनो मुमुक्षवस्तत्र प्रवर्तिष्यन्त इतिचेन्न,विना कारणवैकल्यम|धिकारिणः सामान्यतो मुमुक्षामात्रेणैव प्रवृत्तेः, अन्यथा विपरीतशङ्कया प्रवृत्तिप्रतिबन्धः । किंचैवं देशविरतानामिव |संयतीनां पारम्पर्येणैव मोक्षाधिकारित्वमभिधानीयं स्यात्, अन्यथाऽधिकारिणः सर्वदा सामग्रीवैकल्येऽनधिकारित्वं 0000000000000000000000०६ 000000000000000 Jan Education in For Private Personal use only R ainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy