SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ अध्यात्म परीक्षा वृ० ॥९२॥ 0000000000000000000000 णय तामिणविरियं असुहं वसुहं विणेव उकिटं। तारिसणियमाभावा तेण हओचरमहेऊवि॥१६॥ नच तासां मनोवीर्यमशुभं च शुभमपि नैवोत्कृष्टम् । तादृशनियमाभावात् तेन हतश्चरमहेतुरपि ॥ १६६ ॥ यत्तावदुक्तं “ स्त्रीणां सप्तमनरकपृथ्वीगमनयोग्यमनोवीर्यपरिणत्यभावात् मोक्षगमनहेतुमनोवीर्यपरिणतेरप्यभाव इति" तदयुक्तं, नहि यत्र यत्र मोक्षगमनयोग्यता तत्र तत्र सप्तमनरकपृथ्वीगमनयोग्यतेति व्याधिरस्ति, यद्बलेन व्यापकाभावाचाप्याभावः सिद्ध्येत् , प्रसन्नचन्द्रादिषु तदुभयसहचारो दृष्ट इति चेन्न, सहचारदर्शनमात्रेण व्याप्तेरग्रहात्, तादृशाशुभमनोवीर्यपरिणतिविरहिणि चरमशरीरिणि व्यभिचारात्; एतेन यत्र सप्तमनरकपृथ्वीगमनयोग्यताविरहस्तत्र मुक्तिगमनयोग्यताविरह इत्यभावमुखेन व्याप्तिरपि परास्ता; उत्कृष्टाशुभमनोवीर्यपरिणतिविरहेपि उत्कृटशुभमनोवीर्यपरिणतिसम्भवादन्यथा विपरीतनियमप्रसङ्गे मुक्तिगमनायोग्यानामभव्यानामपि सप्तमनरकपृथ्वीगमनं १ न स्यात्। अपि च-नाधोगतिविषये मनोवीर्यपरिणतिवैषम्यदर्शनादूर्ध्वगतावपि तद्वैषम्यम्, यतो भुजपरिसर्पाः पक्षिणश्चतुष्पदा उरगाश्चाधोगतावुत्कर्षतो यथाक्रम द्वितीयां तृतीयां चतुर्थी पञ्चमी च पृथ्वीं गच्छन्ति, ऊर्ध्व तु सर्वेप्युत्कर्षतः सहस्रारं यावदेवेति; स्यादेतत, तेषामू धोगतिवैषम्यं भवस्वाभाव्यादेव, स्त्रीणां तु न तथा, नरभवेन सप्तनरकपृथिव्यामपि गमनसम्भवात् इतिचेत्तथापि स्त्रीपर्यायस्यैवायं स्वभावो यत्सप्तमनरकपृथ्व्यां ता न गच्छन्तीति; मोक्षेऽपि ता न गच्छन्तीति कुतो नासां स्वभाव इतिचेत् तत्कारणसाम्राज्ये तादृशस्वाभाव्याकल्पनात्, तर्हि सप्तमनरक, पृथिवीगमनाभावोऽपि तासां कारणाभावमन्वेषयतीतिचेत्तर्हि भुजपरिसादीनामपि द्वितीयादिनरकपृथिवीगमनाभाव उत्कृष्टाशुभमनोरक 0000000000000000000000 नयमप्रसङ्गे मुक्ति विषये म ॥ ९२॥ Jain Educati o nal For Private Personal Use Only
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy