Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 196
________________ अध्यात्म परीक्षा वृ० ॥९२॥ 0000000000000000000000 णय तामिणविरियं असुहं वसुहं विणेव उकिटं। तारिसणियमाभावा तेण हओचरमहेऊवि॥१६॥ नच तासां मनोवीर्यमशुभं च शुभमपि नैवोत्कृष्टम् । तादृशनियमाभावात् तेन हतश्चरमहेतुरपि ॥ १६६ ॥ यत्तावदुक्तं “ स्त्रीणां सप्तमनरकपृथ्वीगमनयोग्यमनोवीर्यपरिणत्यभावात् मोक्षगमनहेतुमनोवीर्यपरिणतेरप्यभाव इति" तदयुक्तं, नहि यत्र यत्र मोक्षगमनयोग्यता तत्र तत्र सप्तमनरकपृथ्वीगमनयोग्यतेति व्याधिरस्ति, यद्बलेन व्यापकाभावाचाप्याभावः सिद्ध्येत् , प्रसन्नचन्द्रादिषु तदुभयसहचारो दृष्ट इति चेन्न, सहचारदर्शनमात्रेण व्याप्तेरग्रहात्, तादृशाशुभमनोवीर्यपरिणतिविरहिणि चरमशरीरिणि व्यभिचारात्; एतेन यत्र सप्तमनरकपृथ्वीगमनयोग्यताविरहस्तत्र मुक्तिगमनयोग्यताविरह इत्यभावमुखेन व्याप्तिरपि परास्ता; उत्कृष्टाशुभमनोवीर्यपरिणतिविरहेपि उत्कृटशुभमनोवीर्यपरिणतिसम्भवादन्यथा विपरीतनियमप्रसङ्गे मुक्तिगमनायोग्यानामभव्यानामपि सप्तमनरकपृथ्वीगमनं १ न स्यात्। अपि च-नाधोगतिविषये मनोवीर्यपरिणतिवैषम्यदर्शनादूर्ध्वगतावपि तद्वैषम्यम्, यतो भुजपरिसर्पाः पक्षिणश्चतुष्पदा उरगाश्चाधोगतावुत्कर्षतो यथाक्रम द्वितीयां तृतीयां चतुर्थी पञ्चमी च पृथ्वीं गच्छन्ति, ऊर्ध्व तु सर्वेप्युत्कर्षतः सहस्रारं यावदेवेति; स्यादेतत, तेषामू धोगतिवैषम्यं भवस्वाभाव्यादेव, स्त्रीणां तु न तथा, नरभवेन सप्तनरकपृथिव्यामपि गमनसम्भवात् इतिचेत्तथापि स्त्रीपर्यायस्यैवायं स्वभावो यत्सप्तमनरकपृथ्व्यां ता न गच्छन्तीति; मोक्षेऽपि ता न गच्छन्तीति कुतो नासां स्वभाव इतिचेत् तत्कारणसाम्राज्ये तादृशस्वाभाव्याकल्पनात्, तर्हि सप्तमनरक, पृथिवीगमनाभावोऽपि तासां कारणाभावमन्वेषयतीतिचेत्तर्हि भुजपरिसादीनामपि द्वितीयादिनरकपृथिवीगमनाभाव उत्कृष्टाशुभमनोरक 0000000000000000000000 नयमप्रसङ्गे मुक्ति विषये म ॥ ९२॥ Jain Educati o nal For Private Personal Use Only

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240