Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 200
________________ अध्यात्म ॥९४॥ 00000000000000000000000 प्रबलकर्मक्षपणम् , कथं च तदक्षये प्रतिपन्थिनि जाग्रति केवलज्ञानादिप्रादुर्भावः, कथं च तदप्रादुर्भावे परमानन्द-| परीक्षावृ० सुखसंवेदनमिति । नन्वेवं तादृशकर्मक्षपणार्थितया तासां चारित्रेऽपि प्रवृत्तिर्न स्यादिति चेन्न, सामान्यतश्चारित्रप्रत्ययिकनिर्जरार्थितयैव चारित्रे प्रवृत्तेविशेषस्य संशयग्रस्ततया प्रवृत्त्युनुपयोगित्वात् ,स्यादेतत् , बाह्यक्रियाया हीनत्वेऽपि भावप्राबल्यादेव प्रबलकर्मक्षयः स्यादिति,मैवम् , विना क्रियाप्राबल्यं भावप्राबल्यस्यैवासम्भवादन्यथा जिनकल्पादिकं विनैव | | जिनकल्पादिजन्यनिर्जराजनकभावप्राबल्यसम्भावनया जिनकल्पादिप्रतिपित्सवोऽपि जिनकल्पादावुदासीरन् , ननु तथा पि यथावत्प्रयतमानस्य साधोः क्रोधादिनोत्तरगुणवैकल्येऽपि यथा न मुनिगुणराहित्यम् ,तथा स्त्रीवेदप्राबल्येपि स्त्रीणां न |चारित्रहानिरिति, मैवं, योगस्थैर्यरूपस्यापि चारित्रस्य क्रोधादिनाऽप्रतिघातेऽपि ब्रह्मचर्यैकजीवितस्य तस्य स्त्रीवे-19 दोदयजनितकामातिरेकेण प्रतिघातात्, विरोधिप्रचयस्याल्पीयसः प्रतिबन्धे सामर्थ्यात्, तस्मात् स्त्रीक्लीबयोरुभयोरपि किंचिन्मुक्तिकारणवैकल्ये समाने कल्पितयोरेव तयोर्मुक्तिर्न त्वकल्पितयोः, स्वभावतस्तु पुरुषस्यैव मुक्तियोग्यत्व-16 मिति युक्तमाभाति, तथा पुण्यसुरतरोः फलभूतं कैवल्यमासादयतां केवलिनां पापनिष्पन्दभूतं स्त्रीत्वं न सम्भवति, अन्यथा तीर्थङ्करादयोऽपि स्त्रीत्वमासादयेयुः, अथ स्त्रीशरीरं न पापं, स्त्रीवेदादेस्तु पापरूपस्य कैवल्यप्राप्तेः प्रागेवोपक्षेपात् नेयमुपालम्भसम्भावनेति चेन्न, न खलु पापप्रकृतिजन्यत्वेन पापत्वम् , पुण्यप्रकृतिजन्यत्वेन वा पुण्यत्वम् व्यव-13 स्थितम्, पापप्रकृतिजन्यस्यापि रागस्य शुभाशुभाङ्गतया द्वैविध्यव्यवस्थितेः, अपितु पापत्वं प्रतिकूलवेदनीयतया पुण्यत्वं चानुकूलवेदनीयतया, ततश्च स्त्रीत्वं जगद्गर्हणीयमिति प्रतिकूलवेदनीयतया पापमेव क्लीबत्ववद्, यद्यप्येवं कुष्ठिप्रभृतीनां | ஒOOOGROOOOOOOOOOOOOOO Jan Education intem For Private Personal Use Only

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240