________________
अध्यात्म
॥९४॥
00000000000000000000000
प्रबलकर्मक्षपणम् , कथं च तदक्षये प्रतिपन्थिनि जाग्रति केवलज्ञानादिप्रादुर्भावः, कथं च तदप्रादुर्भावे परमानन्द-| परीक्षावृ० सुखसंवेदनमिति । नन्वेवं तादृशकर्मक्षपणार्थितया तासां चारित्रेऽपि प्रवृत्तिर्न स्यादिति चेन्न, सामान्यतश्चारित्रप्रत्ययिकनिर्जरार्थितयैव चारित्रे प्रवृत्तेविशेषस्य संशयग्रस्ततया प्रवृत्त्युनुपयोगित्वात् ,स्यादेतत् , बाह्यक्रियाया हीनत्वेऽपि भावप्राबल्यादेव प्रबलकर्मक्षयः स्यादिति,मैवम् , विना क्रियाप्राबल्यं भावप्राबल्यस्यैवासम्भवादन्यथा जिनकल्पादिकं विनैव | | जिनकल्पादिजन्यनिर्जराजनकभावप्राबल्यसम्भावनया जिनकल्पादिप्रतिपित्सवोऽपि जिनकल्पादावुदासीरन् , ननु तथा
पि यथावत्प्रयतमानस्य साधोः क्रोधादिनोत्तरगुणवैकल्येऽपि यथा न मुनिगुणराहित्यम् ,तथा स्त्रीवेदप्राबल्येपि स्त्रीणां न |चारित्रहानिरिति, मैवं, योगस्थैर्यरूपस्यापि चारित्रस्य क्रोधादिनाऽप्रतिघातेऽपि ब्रह्मचर्यैकजीवितस्य तस्य स्त्रीवे-19 दोदयजनितकामातिरेकेण प्रतिघातात्, विरोधिप्रचयस्याल्पीयसः प्रतिबन्धे सामर्थ्यात्, तस्मात् स्त्रीक्लीबयोरुभयोरपि किंचिन्मुक्तिकारणवैकल्ये समाने कल्पितयोरेव तयोर्मुक्तिर्न त्वकल्पितयोः, स्वभावतस्तु पुरुषस्यैव मुक्तियोग्यत्व-16 मिति युक्तमाभाति, तथा पुण्यसुरतरोः फलभूतं कैवल्यमासादयतां केवलिनां पापनिष्पन्दभूतं स्त्रीत्वं न सम्भवति, अन्यथा तीर्थङ्करादयोऽपि स्त्रीत्वमासादयेयुः, अथ स्त्रीशरीरं न पापं, स्त्रीवेदादेस्तु पापरूपस्य कैवल्यप्राप्तेः प्रागेवोपक्षेपात् नेयमुपालम्भसम्भावनेति चेन्न, न खलु पापप्रकृतिजन्यत्वेन पापत्वम् , पुण्यप्रकृतिजन्यत्वेन वा पुण्यत्वम् व्यव-13 स्थितम्, पापप्रकृतिजन्यस्यापि रागस्य शुभाशुभाङ्गतया द्वैविध्यव्यवस्थितेः, अपितु पापत्वं प्रतिकूलवेदनीयतया पुण्यत्वं चानुकूलवेदनीयतया, ततश्च स्त्रीत्वं जगद्गर्हणीयमिति प्रतिकूलवेदनीयतया पापमेव क्लीबत्ववद्, यद्यप्येवं कुष्ठिप्रभृतीनां |
ஒOOOGROOOOOOOOOOOOOOO
Jan Education intem
For Private Personal Use Only