Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 195
________________ Jain Education नपुंसकवत् इत्यनुमानमिति चेन्न, तीव्रस्यापि कामस्य श्रुताध्ययनादिप्रसूतविपरीत परिणामनिवर्त्तनीयत्वात्, नहि काममनिरुध्य पुरुषा अपि मुच्यन्ते, एवं च पूर्वानुमाने स्त्रियो मोक्षभाजः नपुंसकेभ्यो हीनकामत्वात् पुरुषवत् इति सत्प्रतिपक्षोऽपि, नन्वेवं नपुंसकानामपि कुतो न मुक्तिस्तेषामपि तीव्रतरकामस्य विपरीतपरिणामनिवर्त्तनीयत्वात्, स्त्रीपुरुषशरीरयोरेव मोक्षहेतुत्वान्नपुंसकस्य स्वभावादेव न मोक्ष इति चेत्तर्हि लाघवात्पुंशरीरत्वेनैव मोक्षहेतुतास्तु, स्त्रीनपुंसकयोस्तु स्वभावादेव न मोक्षः, आगमसिद्धः स्त्रीणां मोक्षो नतु नपुंसकस्येति चेत्सोऽयमागमो विवादग्रस्तः, अक्कीबशरीरत्वेनैव मोक्षहेतुतास्त्विति चेन्न, पुंशरीरत्वापेक्षयाऽक्की बशरीरत्वस्य गुरुत्वात्, अत्रोच्यते - जातिनपुंस कस्य तावत्सम्यक्त्वाद्यभावादेव न मोक्षः, स्त्रीणां तु तत्साम्राज्यात्तदविरोधः, एवं च प्रमाणबलाद्गुरुणाप्यक्लीवशरीरत्वेनैव हेतुता, येन रूपेण रत्नत्रयप्राप्तिहेतुता तेन रूपेण मोक्षहेतुत्वात्, अन्यथा स्त्रीक्लीवयोः स्वभावसाम्ये स्त्रियाः क्लीबस्येव सम्यग्दर्शनादिकमपि न स्यात् स्यादेतत्-नपुंसकानाऽनपुंसक शरीरनिर्वृत्तेरन्तानुबन्धिभिरनुवर्त्तितव्यम्, | स्त्रीणां त्वास्त्रीशरीरनिर्वृत्तेः प्रत्याख्यानावरणैरनुवर्त्तिष्यत इति क्लीबस्य न सम्यग्दर्शनं, स्त्रीणां तु न चारित्रमेवेति चेन्न, स्त्रीत्वक्लीबत्वबन्धकत्वसाम्येन द्वयोरप्यविशेषेणानन्तानुबन्ध्यनुवृत्तिप्रसङ्गात् स्त्रियास्तत्क्षयादिसामग्र्यां च कषायान्तरक्षयादिसामग्र्या अप्यबाधात्, नपुंसकस्य कुतो न तादृशसामग्रीतिचेत्तत्र स्वभाव एव शरणम् ; ॐ नपुंसकत्वबन्धकालीनानामनन्तानुबन्ध्यादीनां निकाचनादिति दिग् ॥ १६५ ॥ अथ मनःप्रकर्षविरहसंहननविरहहेतुं दूषयति For Private & Personal Use Only 900000 Hww.jainelibrary.org

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240