________________
00000000000000000000000
तीति कथम् बहुलपापप्रकृतिपराभूतानां तासां परमपुण्यप्राग्भारलभ्या परमानन्दसम्पदुदेतु, अपिच-स्त्रियस्तावत्सप्तमनरकपृथ्व्यां न गच्छन्तीत्यावयोः समानं, तच्च तासां तादृशपापपरिणामप्रकर्षविरहादेव सङ्गच्छते, एवं च तासां तादृशपुण्यपरिणामप्रकर्षोपि न संभवतीति कथं तं विना मोक्षावाप्तिः ? एवं सप्तमनरकपृथ्वीगमनायोग्यतया तासु वज्रर्षभनाराचसंहननमपि न स्वीक्रियत इति कथं तदेकसाध्या सिद्धिस्तासामिति सङ्ग्रेपः॥ १६१॥ अथैतन्निरसितुमाहतम्मिच्छं वेयखओ सरीरनिवत्तिनियमणियउत्ति । चरणविरहाइआ पुण सवे तह हेयवोऽसिद्धा॥१२॥
तन्मिथ्या वेदक्षयः शरीरनिर्वृत्तिनियमनियत इति । चरणविरहादिकाः पुनः सर्वे तव हेतवोऽसिद्धाः ।। १६२ ॥ थीलिङसिद्धा इत्यत्र यत्तावद्विपरीतव्याख्यानं दिगम्बरेण कृतं तत्किं सूत्राशातनाभयात्, स्वपरिकल्पितोत्सूत्राशातनाभयाद्वा, आद्ये सूत्राशातनाभयाद्विभ्यचूयाशातनाभयात् कुतो न बिभेति, न खलु राजानमासेवमानस्यापि महामन्त्रिणोऽपराध्यतोन तत्प्रयुक्तः पराभवोऽन्त्ये तु स्वैरमुन्मत्तकेलीविलसितप्रायं व्याख्यानमेतत्, वेदक्षयस्य शरीरनिर्वत्तिनियमनियतत्वात् तथाहि-यदि पुरुषः प्रारम्भकः तदा पूर्व नपुंसकवेदं, ततः स्त्रीवेदं, ततो हास्यादिषटुं क्षपयति, ततः पुरुषवेदं च खण्डनयं कृत्वाखण्डद्वयं युगपत् क्षपयति, तृतीयखण्डं तु संज्वलनक्रोधेप्रक्षिपति, यदि च स्त्रीप्रारम्भिका ततः प्रथमं नपुंसक एव प्रारम्भकः तदासौ प्रथमं स्त्रीवेदं, ततः पुरुषवेदं, ततः षटुं, ततो नपुंसकवेदमिति, एवं च शरीरनिर्वृत्तिनियमनियते वेदक्षये पुरुष एव सिद्ध्यति न स्त्रीत्यज्ञानविलसितमेतत्, उदीर्णस्यैव वेदस्य पूर्व क्षयस्ततोनु-पू दीर्णयोरित्येव नियम इतिचेन्न, कल्पनामात्रेण नियन्तुमशक्यत्वात् , अभिहितक्रमस्य दुरतिक्रमत्वादू, एतेन पश्चात्क्षीण
त्यत्र यत्तावद्विपरीतव्याख्यात इति । चरणविरहादिकाः पुनः स स्वतह हेयवोऽसिद्धा ॥ १६२
9000000000000000000000000
Jain Education
For Private Personal use only
hainelibrary.org