SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ अध्यात्म० ॥ ८८ ॥ Jain Education स्त्रीवेदाः सन्तः सिद्धाः स्त्रीलिङ्गसिद्धा इत्यप्यपव्याख्यानं द्रष्टव्यम् अपि च स्त्रीलिङ्गसिद्धा इत्यतो नैतादृशार्थोपस्थितिरपि, अवस्थितत्वस्यैव सप्तम्यर्थत्वात्, स्त्रीलिङ्गात् सिद्धा इति पञ्चमीतत्पुरुषमर्यादया विश्लेषलाभेपि नियतविश्लेषालाभात्, नियतविश्लेषे पञ्चम्या लक्षणायामनिरूढ लक्षणाप्रसङ्गात् किंचैवं लिङ्गपदस्यैव तादृशी लक्षणास्तु तत्पुरुषस्तु प्रथमागर्भएवेत्यत्र किं विनिगमकम् एवं च " वीस णपुंसगवेया" इत्यादावपि विषमव्याख्यानं, तस्मा स्त्रीलिङ्गसिद्धा इत्यत्र चूर्णिकाकारोक्तव्याख्यानमेव न्याय्यम् । ननु स्त्रीणां मुक्तौ चरणविरहादीनि बाधकान्युक्तानि, तत्कथमिदं व्याख्यानमित्याशङ्कायामाह - " चरणविरहाइया पुणत्ति " चरणविरहादयो ये हेतवस्त्वयोपन्यस्तास्ते सर्वेऽ - सिद्धा एव, तथा चासिद्धानामेतेषां न बाधकत्वमिति भावः । १६२ । तदसिद्धिमेवोद्भावयितुं प्रथमं चरणविरहरूपं हेतुं दूषयतिणेगंतियमित्थीणं दुट्ठत्तं संजमोचिया लज्जा । तासिं चरित्तविरहे चाउब्वण्णो कहं संघो ॥ १६३ ॥ नैकान्तिकं स्त्रीणां दुष्टत्वं संयमोचिता लज्जा । तासां चारित्रविरहे चतुर्वर्णः कथं सङ्घः ॥ १६३ ॥ यत्तावदुक्तं 'दुःशीलत्वादिदोषदुष्टतया स्त्रीणां न चारित्रमिति' तदनैकान्तिकं श्रूयन्ते हि परमशीलश्रद्धादिगुणशालितया सुलसाद्या भगवतामपि प्रशस्याः, पूज्यन्ते च बहुविधगुणगरिमयोगितया भगवज्जनन्यादयः पुरन्दरप्रभृतिभिरपि, पुरुषा अपि च केचन महारम्भपरिग्रहनिरताः क्रूराशयाश्च दृश्यन्ते, न चैतावता तज्जातीयस्य न सिद्धिः ॐ सम्भवतीति प्रणिगद्यमानं हृद्यम् । एवं स्त्रीणामपि कासांचिदुःशीलत्वादिदोषदुष्टत्वेपि न तज्जातीयानां सर्वासामेव तदभावसम्भवः, स्यादेतत् स्त्रीणां तावत् स्वभावत एव मायादिप्रकर्षवत्त्वमुज्जृम्भते, न च तत्प्रकर्षे निष्कषा 160000 For Private & Personal Use Only परीक्षा वृ० ॥ ८८ ॥ w.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy