________________
0000000000000000000000004
|यपरिणामरूपं चारित्रमुज्जीवतीति, मैवं, तस्य स्त्रीपुंसयोस्तुल्यत्वात् , श्रूयते च चरमशरीरिणामपि नारदादीनां माया| दिप्रकर्षवत्त्वं, तेषां संज्वलनी माया न चारित्रविरोधिनीतिचेत्संयतीनामपि सैव, तथा न च सर्वासां मायाप्रकर्षनियमोऽपि, स्वभावसिद्धाया अपि तस्या विपरीतपरिणामनिवर्त्तनीयत्वात् , बाहुल्येन तत्संभवादेव च पुरुषप्रधानोधर्म इति व्यवस्था । अथ सलजतया तासां चारित्रमूलमाचेलक्यं न संभवि, अप्रावृतानां च तासां तिरश्चीनामिव पुरुषैरभिभ वनीयत्वात्, “नो कप्पइ निग्गंधीए अचेलाए होन्तएत्ति” भवदागमेनापि निषिद्धमेव नाश्यमिति न तासां चारि-1 त्रसंभव इतिचेन्न, नाम्यं हि न चारित्राङ्गं लज्जारूपसंयमविघातित्वान्न च धर्मोपकरणधरणेन परिग्रहस्तस्य मूर्छारूपत्वात्, इति प्रपञ्चितं प्राक् । अपिच मूछी विनापि वस्त्रसंसर्गमात्रेण यदि परिग्रहः स्यात्तदा जिनकल्पिकस्यापि हिमत्तौ शीतसंपातनिवृत्तये धर्मार्थिना शिरसि वस्त्रे प्रक्षिप्ते तस्य परिग्रहप्रसङ्गः, तस्माद्यतनया धर्मोपकरणधारिणीनां जासंयतीनां न संयमविघातो नाम, यत्त्वनन्तजन्तुसम्पातयोनिभूततया प्राणातिपातविरतिं विना न तासां चारित्र| मिति तदसभ्यप्रलपितं, अशक्यपरिहारविराधनाया हिंसात्वायोगात्, अन्यथा जन्तुसन्तानसम्पूरिते लोके समुच्छिन्नैव प्राणिनामहिंसा, किश्च स्त्रीणां यदि चारित्रं न स्यात् तर्हि साधुः साध्वी श्रावकः श्राविका चेति चतुर्वर्णश्रमणसङ्घव्यवस्था न स्यात्, तथाच “जो पगरे दिठभत्तिं चादुवण्णस्स समणसंघस्स ” इत्यादित्वदागमविरोधः, अथाणुव्रतधारिणी श्राविकापि साध्वीत्येव व्यपदिश्यत इतिचेद, हंत तर्हि केवलसम्यक्त्वधारिण्येव श्राविकाव्यपदेशमासादयेदेवं च श्रावकेष्वपि तद्वैविध्यप्रसङ्गे पञ्चविधःसङ्कः स्यात् , अथ वेषधारिणी श्राविका साध्वीति व्यपदिश्यते, श्राव
1000000000000000000000000
श्वविधःसङ्घः स्यात, तर्हि केवलसम्यक्त्वधारदत्वदागमविरोधः, अथाण
Jain Education india
For Private
Personal Use Only
ainelibrary.org