Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 185
________________ 00000000000000000000000 मरुदेव्यादयः, तीर्थव्यवच्छेदे च सिद्धाः सुविधिस्वाम्याद्यपान्तरालेषु ये जातिस्मृत्यादिना विरज्याऽपवृक्ता, ननु तीर्यतेऽनेनेति तीर्थ तदभावे च कथं तरणमितिचेद्वाह्यतीर्थाभावेपि क्रोधलोभोपशमरूपाभ्यन्तरतीर्थस्य सत्त्वात् उक्तंच | "कोहंमि उ निग्गहिए दाहस्सोवसमणं हवइ तित्थं । लोहंमि उ निग्गहिए तण्हावोच्छेयणं होइत्ति।" तथा तीर्थकराःसन्तो ये सिद्धास्ते तीर्थकरसिद्धाः, सामान्यकेवलिनः सन्तो ये सिद्धास्तेऽतीर्थकरसिद्धाः, स्वयमेव बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धाःसन्तः सिद्धाःस्वयम्बुद्धसिद्धाः, तेच तीर्थकराऽतीर्थकरभेदेन द्विविधाः,अत्र चातीर्थकरैरधिकारः, प्रत्येकं बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः सन्तः सिद्धाः प्रत्येकबुद्धसिद्धाः, स्त्रिया लिङ्ग स्त्रीलिङ्गम् , स्त्रीत्वस्योप| लक्षणमित्यर्थस्तच्च त्रिधा वेदः शरीरनिर्वृत्तिर्नेपथ्यं चेति, इह च शरीरनिवृत्त्यैवाधिकारो न वेदनेपथ्याभ्यां, तयोर्मोक्षानङ्गत्वात् , ततस्तस्मिन् लिङ्गे वर्तमानाः सन्तो ये सिद्धास्ते स्त्रीलिङ्गसिद्धाः, तथा पुंलिङ्गे पुंशरीरनिर्वृत्तिरूपे विद्यमानास्सन्तो ये सिद्धास्ते पुंल्लिङ्गसिद्धा, एवं नपुंसकलिङ्गसिद्धाः, तथा स्वलिङ्गे रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः, अन्यलिङ्गे परिव्राजकादिसम्बन्धिनि सिद्धा अन्यलिङ्गसिद्धाः, गृहलिङ्गे सिद्धा गृहलि-16 ङ्गसिद्धा मरुदेवीप्रभृतयः, तथैकस्मिन् समये एकका एव सन्तः सिद्धा एकसिद्धाः, एकस्मिन्समयेऽनेके सिद्धा |अनेकसिद्धाः, तत्रैतेषु सिद्धभेदेषु स्त्रीलिङ्गसिद्धम् क्षपणको न क्षमते, यद्यपि गृहलिङ्गसिद्धादिकमपि न क्षमत एवासौ, तथापि प्रौढिवादोऽयम् ॥१५९॥ अथैतस्य मतं दूषयितुमुपन्यस्यति १ दिगम्बरः । 00000000000000000000000 JainEducationa l For Private Personal Use Only tainelibrary.org

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240