Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 183
________________ S 000000000000000000000000 |पत्वेपि तस्य सम्यक्त्वस्येवोपयोगत्वेनाविवक्षणात्, वीर्यविशेषरूपत्वेऽप्यनन्तवीर्येषु सिद्धेषु तत्संभवात् , वस्तुतः सम्यक्वजातीयः परिणामविशेषश्चारित्रं नतु वीयविशेषरूपं, अन्यथा चारित्रमोहनीयप्रकृतयो वीर्यान्तरायप्रकृतित्वमासादयेयुः, नचैवं प्रयत्नरूपतां विना चारित्रस्य मोक्षजनकत्वं न स्यात्, अन्यथा तस्यापुरुषार्थत्वप्रसङ्गादिति वाच्यं, लब्धिवीर्यस्य करणवीर्यमात्रव्यापारकत्वेपि कर्मक्षपणस्य चारित्रव्यापारत्वात् , क्रियारूपचारित्रान्तर्भावितप्रयत्नमादायैव मोक्षस्य पुरुषार्थत्वात्, एवं च सिद्धे सिद्धानां चारित्रे तदचारित्रप्रतिपादकानि वचनान्येकदेशमादायैव विश्राम्यन्तीति लाकिमतिप्रसक्तानुप्रसक्त्या ॥ १५७ ॥ अथैतेषां स्वभावक्रियास्वरूपमाहतेसिंसबा किरिया सहावसिद्धा पणट्टकम्माणं । छण्हपि कारगाणं एगढे जं समावेसो ॥१५८॥ तेषां सर्वा क्रिया स्वभावसिद्धा प्रणष्टकर्मणाम् । षण्णामपि कारकाणामेकार्थे यत्समावेशः ॥ १५८ ॥ तेषां सिद्धानां सर्वापि क्रिया स्वभावसिद्धा परापेक्षाविरहात्, नन्वभेदे कथं कर्तृकर्मभावः ? इतिचेन्न, अभेदेपि षण्णां कारकाणामेकत्र समावेशाद्विवक्षावशात् कारकाणि भवन्तीति न्यायात्तथाहि-ज्ञानादन्योऽप्यात्मा ज्ञप्तिक्रियायां स्वतन्त्रः प्रयोक्तेति कर्ता, ज्ञप्तिक्रिया च तेन स्वतन्त्रण प्राप्यमाणत्वात् कर्म, न चालब्धस्य लाभः प्राप्तिरिति लब्धाया जाएव तस्याः कथं प्राप्तिरिति वाच्यम् , उत्तरोत्तरक्षणविशिष्टायास्तस्या अलब्धाया एव लाभात् , अविष्वग्भावस्यैव वा नैश्चयिकप्राप्तिरूपत्वादेवं येन ज्ञानस्वभावेनासौ ज्ञप्तिं जनयति स एव ज्ञानस्वभावः साधकतमत्वात् करणं, यदर्थमसौ ज्ञप्तिक्रियां जनयति तदस्यैव स्वरूपं सम्प्रदानं, यतश्च ज्ञेयाकारकरम्बितस्वरूपाद्विश्लेपे उत्तरस्वरूपादानं तदपादानं, RGEFFFFFFFFFROOGOR4 Jan Education For Private Personal use only sinelibrary.org

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240