________________
S
000000000000000000000000
|पत्वेपि तस्य सम्यक्त्वस्येवोपयोगत्वेनाविवक्षणात्, वीर्यविशेषरूपत्वेऽप्यनन्तवीर्येषु सिद्धेषु तत्संभवात् , वस्तुतः सम्यक्वजातीयः परिणामविशेषश्चारित्रं नतु वीयविशेषरूपं, अन्यथा चारित्रमोहनीयप्रकृतयो वीर्यान्तरायप्रकृतित्वमासादयेयुः, नचैवं प्रयत्नरूपतां विना चारित्रस्य मोक्षजनकत्वं न स्यात्, अन्यथा तस्यापुरुषार्थत्वप्रसङ्गादिति वाच्यं, लब्धिवीर्यस्य करणवीर्यमात्रव्यापारकत्वेपि कर्मक्षपणस्य चारित्रव्यापारत्वात् , क्रियारूपचारित्रान्तर्भावितप्रयत्नमादायैव मोक्षस्य पुरुषार्थत्वात्, एवं च सिद्धे सिद्धानां चारित्रे तदचारित्रप्रतिपादकानि वचनान्येकदेशमादायैव विश्राम्यन्तीति लाकिमतिप्रसक्तानुप्रसक्त्या ॥ १५७ ॥ अथैतेषां स्वभावक्रियास्वरूपमाहतेसिंसबा किरिया सहावसिद्धा पणट्टकम्माणं । छण्हपि कारगाणं एगढे जं समावेसो ॥१५८॥
तेषां सर्वा क्रिया स्वभावसिद्धा प्रणष्टकर्मणाम् । षण्णामपि कारकाणामेकार्थे यत्समावेशः ॥ १५८ ॥ तेषां सिद्धानां सर्वापि क्रिया स्वभावसिद्धा परापेक्षाविरहात्, नन्वभेदे कथं कर्तृकर्मभावः ? इतिचेन्न, अभेदेपि षण्णां कारकाणामेकत्र समावेशाद्विवक्षावशात् कारकाणि भवन्तीति न्यायात्तथाहि-ज्ञानादन्योऽप्यात्मा ज्ञप्तिक्रियायां
स्वतन्त्रः प्रयोक्तेति कर्ता, ज्ञप्तिक्रिया च तेन स्वतन्त्रण प्राप्यमाणत्वात् कर्म, न चालब्धस्य लाभः प्राप्तिरिति लब्धाया जाएव तस्याः कथं प्राप्तिरिति वाच्यम् , उत्तरोत्तरक्षणविशिष्टायास्तस्या अलब्धाया एव लाभात् , अविष्वग्भावस्यैव वा
नैश्चयिकप्राप्तिरूपत्वादेवं येन ज्ञानस्वभावेनासौ ज्ञप्तिं जनयति स एव ज्ञानस्वभावः साधकतमत्वात् करणं, यदर्थमसौ ज्ञप्तिक्रियां जनयति तदस्यैव स्वरूपं सम्प्रदानं, यतश्च ज्ञेयाकारकरम्बितस्वरूपाद्विश्लेपे उत्तरस्वरूपादानं तदपादानं,
RGEFFFFFFFFFROOGOR4
Jan Education
For Private
Personal use only
sinelibrary.org