SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ अध्यात्मक परीक्षा वृ० ॥८६॥ POO POOFFERCOTEESOGO यदेव चानयोस्ताद्रप्यं स एव सम्बन्धः, यश्च गुणरूपतापन्नस्य भाजनं द्रव्यरूपः सिद्धः स एवास्याधार इति। नन्वन्यौवं समावेशादर्शनाददृष्टकल्पनमिदमितिचेत्तत्किं आत्मानमात्मना वेत्सी(त्ती)त्यादिप्रयोग(गा)विस्मृताः,तत्र विषयत्वरूपं कर्मत्वमाश्रयत्वरूपं कर्तत्वं च नोक्तमितिचेद्विवक्षाधीने कारके का वा भाक्ताभाक्तव्यवस्था ? प्रयोगबाहुल्याबाहुल्यानुसारिणीयमितिचेत्सेयं स्वेच्छानुसारेणैव प्रमाणमिति दिग् । एवं दर्शनादिक्रियाणामपि स्वभावसिद्धत्वमु-न्नेयं, नहि तेषां काचनविभावक्रियास्ति यस्यां स्वभावो न निविशेत, तदेवं सर्वात्मना स्वभावसिद्धक्रियारूपं परमाध्यात्म सिद्धेष्वेव व्यवस्थितमिति कृतं तत्प्ररूपणेन श्रोतृणां कर्णयोः पीयूषपानपारणम् ॥१५८॥अथ प्रसङ्गतस्तेषामेव सिद्धानां भेदान्निरूपयितुमाहते पुण पनरसभेया तित्थातित्थाइसिद्धभेएणं। तत्थ य थीणं सिद्धिं ण खमइ खवणो अभिनिवेसी१५९ ते पुनः पञ्चदशभेदास्तीर्थातीर्थादिसिद्धभेदेन । तत्र च स्त्रीणां सिद्धिं न क्षमते क्षपणोऽभिविनिवेशी ॥ १५९ ॥ ते पुनः सिद्धास्तीर्थातीर्थादिभेदेन पञ्चदशविधास्तथाच प्रज्ञापनासूत्रम् "अणंतरसिद्धअसंसारसमावन्नगजीवपण्णवणा पन्नरसविहा पणत्ता तंजहा तित्थसिद्धा, अतित्थसिद्धा, तित्थगरसिद्धा, अतित्थगरसिद्धा, सयंबुद्धसिद्धा, पत्तेयबुद्धसिद्धा, बुद्धबोहियसिद्धा, इत्थीलिंगसिद्धा, पुरिसलिंगसिद्धा, णपुंसगलिंगसिद्धा, सलिंगसिद्धा, अण्णलिंगसिद्धा, गिहिलिंगसिद्धा, एगसिद्धा, अणेगसिद्धत्ति" तत्र तीर्थे चतुर्वर्णश्रमणसङ्करूपे, प्रथमगणधररूपे वा, उत्पन्ने सति ये सिद्धास्ते तीर्थसिद्धाः, अतीर्थे तीर्थाभावे सिद्धा अतीर्थसिद्धाः, तदभावश्चानुत्पादोऽन्तरा व्यवच्छेदो वा, तत्र तीर्थानुत्पादे सिद्धा १ स्त्री. 000000000000000000000000 ॥८६॥ Jain Education ! For Private Personal Use Only
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy