________________
00000000000099990000000
द्रष्टणां तदुत्पत्तिस्तीर्थकृतामतिशयबलादेवाहारनीहारविधेरदृश्यत्वात्सामान्यकेवलिभिस्तु विविक्तदेशे तत्करणादुक्तं च "नं षष्ठो यतस्तस्मिन् क्रियमाणे तस्यैव जुगुप्सा संपद्येताऽन्येषां वा? न तावत्तस्यैव भगवतो निर्मोहत्वेन जुगुप्साया असंभवात्, अथान्येषां तत्किं मनुजामरेन्द्रतद्रमणीसहस्रसङ्घलायामनंशुके भगवत्यासीने सा तेषां न सञ्जायते, अथ भगवतः सातिशयत्वान्न तन्नाम्यं तेषां तद्धेतुस्तर्हि तत एव तन्नीहारस्य चर्मचक्षुषामदृश्यत्वान्न दोषः, सामान्यकेवलिभिस्तु विविक्तदेशे तत्करणादोषाभाव इति" यत्तु “तित्थयरातप्पिअरो हलधरचक्की य वासुदेवा य । मणुआण भोगभूमी आहारोणत्थिणीहारो"इति वचनात् तीर्थङ्करादीनां आहारकालेऽपि न नीहारजुगुप्सितमिति, तत्किमतिशयबलाजाठरानलोद्रेकाद्वानाद्यस्तादृशातिशयाश्रवणात्, साधारण्येनातिशयत्वायोगाद, अतिशयेनापि दृष्टकार्यकरणेऽदृष्टकारणोपजीवनाद्वितीयपक्षाश्रयणावश्यकत्वाच्च, न द्वितीयस्तादृशजाठरानलेन भस्मकवदाहारमात्रभस्मीकरणप्रसङ्गादथाहारपर्याप्ती रसीभूतमाहारं धातुरूपतया परिणमयति, खलरसीकृतं तु जाठरानलो भस्मीकरोतीति न दोष इति चेन्नाहारपर्याप्तिसहकृतजाठरानलस्य रसीभूताहारपरिणतिविशेष एव नियामकत्वादन्यथा तत्कालेऽपि जाठरानलोद्भूतस्पर्शस्य जागरूकत्वेनाहारभस्मीभावप्रसङ्गादाहारपर्याप्तिजन्यरसपरिणामस्य जाठरानलजन्याहारदाहप्रतिबन्धकत्वादिकल्पने गौरवादू, एतेन तप्तायोगोलके जल मिव तजाठरानलेऽशितमिति (मपि) भस्मीभवतीति पामरोपन्यस्तो दृष्टान्तः परास्तः। किञ्चैतादृशाप्रामाणिकातिशयकल्पने आहारं विनापि शरीरस्थितिप्रयोजक एवातिशयः कुतो न कल्प्यते, मोहे सत्याहारावश्यंभाव इत्येनं नियममुल्लध्य न तत्कल्प्यत इति चेत् कवलाहारे सति निर्हारावश्यंभाव इत्येनं
BOOG03903033333333333
Jain Education
For Private & Personel Use Only
M
ainelibrary.org