SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ अध्यात्म० ॥६४॥ 00000000000000000000000004 नियममुल्लध्यापरमपि कथं कल्पनीयं, रसीभूताहारपुद्गलानामाहारपर्याप्स्यादिना नीरसीकरणमेव निर्हार इत्युक्तकल्प-10 नायां नोक्तनियमातिक्रम इति तु रिक्तं वचः, तस्य निर्हारपदावाच्यत्वात् , कवलाहारस्य निर्हारविशेषेण व्याप्तत्वाद्वेति पूरा किमुत्सूत्रोपहतकुतर्कनिरासप्रयासेन ॥१२०॥ अथ यो भगवतां भुक्त्यभावमतिशयमेव मन्यते तमुपहसितुमाहजो पुण भुत्तिअभावो केवलिणो अइसउत्ति जंपेइ । सो वायामित्तेणं साहेउ सुहं खपुप्फपि ॥ १२१ ॥ यः पुनर्भुक्त्यभावः केवलिनोऽतिशय इति जल्पति । स वाङ्मात्रेण साधयतु सुखं खपुष्पमपि ॥ १२१ ॥ यः खलु केवलिनां कुतो न भुक्तिरिति प्रश्ने भुक्त्यभावातिशयादित्युत्तरयति स खलु चक्षुषी निमील्य प्रश्नमेवो-10 त्तरयति, किञ्चास्य देवानांप्रियस्य निजवागलीलामात्रेणैवासिद्धसाधनकुतूहलकृतो गगनकुसुममप्यात्मलाभाय प्रष्टव्यं स्यात्, अथ भुक्त्यभावातिशयोपदेशकागमाद्भुक्त्यभावः साध्यत इति तात्पर्यमिति चेन्न; भुक्तिप्रतिपादकस्यैवागमस्य व्यवस्थितत्वादाहारनीहारविधेरदृश्यत्वस्यैवातिशयस्योपदेशादेनमुल्लध्य भुक्त्यभावातिशयोपदेशकशास्त्रप्रणयने महद्वैपरीत्यमिति कियन्तो वा दधिमाषभोजने कृष्णा विवेचनीयाः ? किञ्चायं न तीर्थकृतामतिशयः सामान्यकेवलि-II साधारण्याद्, नापि केवलिनामेव देवादिसाधारण्याद्, अत एवनघातिकर्मक्षयसमुत्थोऽयमतिशयोघातिकर्मक्षयं विनाऽपि ॥६४ ॥ का देवादीनां तत्श्रवणात्, अथ देवानां भुक्त्यभावो न मोहक्षयाधीनः किन्तु कारणान्तरवैकल्यप्रयुक्त इति मोहक्षय-16 जनितो भुक्त्यभावो भगवतामतिशय इति चेन्न, भुक्तेर्मोहजन्यत्वनिरासेन तदभावस्य तत्क्षयाजन्यत्वान्नापि BOGOOOGO=0000000000000005 Jain Education For Private & Personel Use Only jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy