________________
Jain Education In
3009996
| देवकृतः आत्मगतगुणोत्कर्षरूपस्यातिशयस्य तैरकरणाद्, नापि साहजिक उभयवाद्यनभ्युपगमादिति न किंचिदेतत् ॥१२१॥ अथैनमर्थमुपसंहरति
एवं कवलाहारो जुत्तीहिं समत्थिओ जिणवराणं । पुवायरिएहिं जहा तहेव लेसेण उवइट्ठो ॥ १२२ ॥ एवं कवलाहारो युक्तिभिः समार्थतो जिनवराणाम् । पूर्वाचार्यैर्यथा तथैव लेशेनोपदिष्टः ।। १२२ ।। स्पष्टा । एवं च केवलिनः कवलभोजित्वे समर्थिते तस्य पूर्वप्रस्तुतं कृतकृत्यत्वमक्षतमित्याह
| तेणं केवलनाणी कयकिच्चो चैव कवलभोईवि । नाणाईण गुणाणं पडिघायाभावओ सिद्धो ॥ १२३ ॥ तेन केवलज्ञानी कृतकृत्य एव कवलभोज्यपि । ज्ञानादीनां गुणानां प्रतिघाताभावतः सिद्धः || १२३ ॥ कवलभोजित्वेऽपि केवलिनां ज्ञानादिगुणाप्रतिघातात् कृतकृत्यत्वं निराबाधमेव कुतः ? के च ते ज्ञानादिगुणाः ? उच्यते, ज्ञानावरणक्षयात् केवलज्ञानं, दर्शनावरणक्षयात् केवलदर्शन, मोहक्षयात् क्षायिकसम्यक्त्वचारित्रे अन्तरायक्षयाद्दानादिलब्धिपञ्चकं चेति, यद्यपि निखिलकर्मक्षयजन्य निखिलगुणभाजनतया सिद्ध एव कात्स्म्र्त्स्न्येन कृतकृत्यस्तथापि कर्मचतुष्टयक्षयजन्यगुणभाजनतया केवली देशकृतकृत्यो वेदितव्यः, नचाविरतक्षायिकसम्यग्दृशोऽप्येवं कृतकृत्याः प्रसजेयुर्नि (रि) त्यविशेषापत्ति (ते) रितिशङ्कनीयं, तेषां देशेन कृतकृत्यत्वं, केवलिनां तु देशैः कृतकृत्यत्वमिति विशेषात् : अथैवं केवली कृतकृत्यो न त्वविरतसम्यग्दृष्टिरिति कथं व्यवहार इति चेत् केवलिनमपेक्ष्य कृतकृत्यत्वाभावविषयत्वात्, महत्यपि तडागे समुद्रो महान्न तडाग इति समुद्रमपेक्ष्य महत्त्वाभावव्यवहारवत्, तदवधिकत्वं च सन्नि
For Private & Personal Use Only
1000005
ainelibrary.org