________________
TAGir
अध्यात्म
परीक्षा वृ०
SCOOOOOOOOOOOOOO
ध्यादिसिद्धं तत्र भासते इति व्यवहारपद्धतिः, निश्चयस्त्वखण्डमेव वस्तु मन्यत इति कात्स्न्येन कृतकृत्यं सिद्धमेव स कृतकृत्यमाह नान्यम् ॥१२॥ अथ केवलिसिद्धयोः केवलज्ञानस्याविशिष्टत्वात् ज्ञानस्य कारस्न्येन शुद्धौ तदाश्रयस्यापि कात्स्न्येन शुद्धत्वे केवलिनः कात्स्न्येन कृतकृत्यत्वप्रसङ्ग इत्याशङ्कायामाहनाणस्स विसुद्धीए अप्पा एगन्तओ ण संसुद्धो । जम्हा नाणं अप्पा अप्पा नाणं व अण्णं वा॥१२४॥
. ज्ञानस्य विशुद्ध्यात्मैकान्ततो न संशुद्धः । यस्मादू ज्ञानमात्मात्मा ज्ञानं वाऽन्यद्वा ॥ १२४ ॥ ज्ञानस्यैकान्तशुद्धावात्मैकान्ततस्तदा शुद्ध्येद् यद्यात्मा ज्ञानमेव भवेत्, न चैवमस्ति, किन्तु ज्ञानमात्मैवात्मा तु ज्ञानद्वारा ज्ञानमन्यद्वारान्यदपीति सकलगुणसमुदायरूपस्यात्मनः सकलतच्छुद्धावेवैकान्ततः शुद्धिरात्मनः शुद्धौ तु ज्ञानादेः शुद्धिरावश्यकी तस्यैकान्ततस्तदभिन्नत्वात्, इदमत्रावधेयम्-यद् ज्ञानादिगुणानां परस्परं ज्ञानात्मनोश्चातभावरूपं भेदमाश्रित्याऽपृथग्भावरूपोऽभेदो यदा प्रतिपाद्यते तदात्मा ज्ञानमेवेति न प्रयोगः, यदा तु निखिलात्मगुणानां ज्ञानेन सहाभेदवृत्तिराश्रीयते तदा स्यादेव तथा प्रयोगः, परं ज्ञानस्यैव नैकान्ततः शुद्धत्वव्यवहार इति न तदाश्रयस्य तत्प्रसङ्गः॥१२४॥ नन्वेवमात्मन एकान्ततः संशुद्ध्यभावे केवलिनःपरमात्मत्वं न स्यादित्याशङ्कायामाहएवं परमप्पत्तं नाणाइदुवारगं मुणेअवं । सबह परमप्पत्तं सिद्धाणं चेव संसिद्धं ॥ १२५॥
एवं परमात्मत्वं ज्ञानादिद्वारकं मुणितव्यम् । सर्वथा परमात्मत्वं सिद्धानामेव संसिद्धम् ॥ १२५ ।। ज्ञानादयो हि ये गुणाः केवलिनां शुद्धास्तद्वारैव ते परमात्मानः, भाविनिभूतवदुपचारेण वा, सर्वथा वर्तमान
900000000000000000000000
JainEducation
For Private Personal Use Only
H
jainelibrary.org