________________
0000000000000000000
ग्राहिनयेन तु सिद्धाः, अत्रेयं व्यवस्था-आत्मानः खलु त्रिविधा बाह्यात्मान्तरात्मा परमात्मा चेति, तत्र बाह्यात्मात्मत्वेन गृह्यमाणः कायादिः, तदधिष्ठायकोऽन्तरात्मा, परमात्मा तु निःशेषकलकरहित, इति तदुक्तं योगशास्त्रे- “आत्मधिया समुपात्तः, कायादिः कीर्त्यतेऽत्र बहिरात्मा । कायादेः समधिष्ठा-यको भवत्यन्तरात्मा तु ॥१॥ चिद्रूपानन्दमयो, निःशेषोपाधिवर्जितः शुद्धः। अत्यक्षोऽनन्तगुणः, परमात्मा कीर्तितस्तद्ज्ञैः ॥२॥” इति युक्तं चैतदन्तरात्मनो ध्यातृत्वेन बाह्यात्मनः स्वान्तरात्मनि स्वभेदज्ञानेन मिथ्याज्ञाननिवृत्तिप्रयोजकतया ध्यानोपयोगित्वादन्ये तु मिथ्यादर्शनादिभावपरिणतो बाह्यात्मा, सम्यग्दर्शनादिपरिणतस्त्वन्तरात्मा, केवलज्ञानादिपरिणतस्तु परमात्मा, तत्राद्यगुणस्थानत्रये बाह्यात्मा, ततः परं क्षीणमोहगुणस्थानं यावदन्तरात्मा, ततः परं तु परमात्मेति, तथा व्यक्त्या बाह्यात्मा, शक्त्या परमान्तरात्मा च, व्यक्त्यान्तरात्मा तु शक्त्या परमात्मा अनुभूतपूर्वनयेन च बाह्यात्मा, व्यक्त्या परमात्मा, अनुभूतपूर्वनयेनैव बाह्यात्मान्तरात्मा चेति, तथा च संग्रहगाथे “वत्तीए बज्झप्पा, सत्तीए दोवि अंतरप्पा य; सत्ती|ए परमप्पा, बज्झप्पा भूअपुवेणं ॥१॥वत्तीए परमप्पा, दोवि पुण णएणभूअपुवेणं। मीसे खीणसजोगे, सीमन्धरा ते तओहुंति ॥ २॥त्ति ।” यद्यपि शक्तिरत्र न तिर्यक्सामान्यं, मिथ्यादृष्टेः सम्यग्दृष्टितुल्यत्वाभावात्; येन केनचिद्धर्मेण तुल्यत्वस्यातिप्रसङ्गत्वात्. नाप्यूर्द्धतासामान्य पूर्वापरपर्यायसाधारणद्रव्यस्यैव तथात्वेन यत्र बाह्यात्मन्यन्तरात्मादिपर्यायो न भूतो न वाभावी, तत्रान्तरात्मादिशक्त्यभावप्रसङ्गात् ; भूतपूर्वबाह्यात्मन्यन्तरात्मनि बाह्यात्मश|क्तिप्रसङ्गाच्च,न च प्राप्यभावानामप्राप्तभावस्यै(त्वावस्थै)वास्त्वत्र शक्तिरिति वाच्यं, प्राप्यत्वं हि वर्तमानप्रागभावप्रतियोगि
90000000000000000
Jain Education
anal
For Private & Personel Use Only
All-jainelibrary.org