SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अध्यात्म ० प्राप्तिकत्वम् इति प्राच्यदोषानुद्धाराट्, एतेन शक्तिर्धर्मविशेष एवेत्यपि परास्तम् तस्याः फलोन्नेयत्वादेवं व्यक्तिरपि ॐ दुर्वचेति, तथापि निश्चयनयप्रतीयमानं स्वरूपं शक्तिस्तच्च तन्निष्ठध्वंसाऽप्रतियोगित्वे सति तन्निष्ठात्यन्ताभावाप्रतियोगि, ॐ तेन नान्तरात्मनि भूतपूर्वबाह्यात्मशक्तिप्रसङ्गस्तत्सर्यायाणां तन्निष्ठध्वंसप्रतियोगित्वान्न चाभव्यात्मन्यन्तरात्मादिश ॥ ६६ ॥ Jain Education त्यभावप्रसङ्गोऽन्तरात्मपरमात्मपदप्रवृत्तिनिमित्तसम्यग्दर्शन केवलज्ञानादिधर्माणामावरणमात्रेण तत्रात्यन्ताभावाभावादवादिषं च "एत्थ णिरंजणभावे अंजणमवि बिंति ववहरणकुसला । एवं पुण घणपंती सहस्सरस्सिपि अंजिज्जत्ति ।” स्यादेतत्सम्यग्दर्शनादिमत्त्वं तावन्नान्तरात्मपदप्रवृत्तिनिमित्तं, परमात्मन्यपि सत्त्वात्, किन्तु क्षायोपशमिकसम्यग्दर्शॐ नादिमत्त्वं तद्, अत्यन्ताभावस्त्वभव्येऽप्यबाधित एव, तत्पर्यायाणां तस्य कदाचिदप्राप्तेरिति, मैवं, सरागसम्यग्दर्शनादेरेवान्तरात्मपदप्रवृत्तिनिमित्तत्वाद्, अन्यथा क्षायिकसम्यग्दृशस्तत्त्वाभावप्रसङ्गात्, तच्च तत्राप्यबाधितमेव, अथ तत्र सम्यग्दर्शनादिसत्त्व एव किं प्रमाणमितिचेदात्मनो गुणस्वभावत्वान्यथानुपपत्तिरेव तत्रैव किं मानमितिचेदत्राचष्ट ॐ स्पष्टमिदम् अष्टसहस्रीकारो " यन्मिथ्यादर्शनापकर्षकप्रकर्षकत्वेन तद्विरोधितया सिद्धस्य सम्यग्दर्शनादेव (देः) प्रकृॐ ष्यमाणत्वेन सिद्धेन परमप्रकर्षेण सिद्धमिध्यादर्शनात्यन्तनिवृत्तेरन्यथानुपपत्त्या संसारात्यन्तनिवृत्तिसिद्धेः कचित् सिद्धनिर्वृतावात्मनि सिद्धम् गुणस्वभावत्वमन्यत्राप्यात्मत्वान्यथानुपपत्त्या साध्यते ; दोषस्वभावत्वं तु विरोधाद्वाध्यत इति, तच्चिन्त्यम्, तिरोभावदशायामपि शक्त्या सत्त्वात् सातत्येन दोषवत्त्वरूपस्य दोषस्वभावत्वस्य परपर्यनुयुक्तॐ स्यानादिनिगोदसिद्धस्यात्मत्वान्यथानुपपत्त्याऽन्यत्राप्यनिवार्यत्वाद्, न खलु दोषगुणयोरविरोधे तदुभयस्वभावविरोधो For Private & Personal Use Only परीक्षा वृ० ॥ ६६ ॥ jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy