SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 0000000000000000000000 नामाऽविष्वग्भावस्यैव स्वभावार्थत्वाद्, एतेन स्फटिके श्यामिकेवात्मन्यज्ञानादिकमुपाधिजनितत्वान्न स्वभावः अपितु तत्रोज्वलतवात्मनि ज्ञानादिकमेव स्वभाव इति परास्तम् , दृष्टान्तवैषम्यात्, स्फटिके श्यामिकायाः स्वाश्रयसंयोगरूपपरंपरासंबन्धादुज्वलतायास्तु साक्षात्संबन्धात् , साक्षात्संबन्धेन तत्र श्यामिका भ्रमजननैवोपाधेश्चरितार्थत्वादत्र तु कर्मामजनितदोषगुणयोरविष्वग्भावलक्षणसंबन्धाविशेषादेवाशुद्धनिश्चयग्राह्यो धर्मो दोषः, शुद्धनिश्चयग्राह्यस्तु गुण इति शुद्धनिश्चयग्राह्यधर्मवत्तयैवात्मनो गुणस्वभावत्वमिति चेन्न, गुणस्वभावत्वसिद्धौ तथाग्राह्यत्वसिद्धिस्तत्सिद्धौ च तत्सिद्धिरित्यन्योन्याश्रयादिति। अत्रोच्यते, सम्यग्दर्शनादिकं तावन्नित्यमेव कल्प्यते, आवरणविलयाविलयाभ्यां तदाविर्भावतिरोभावयोरेवाभ्युपगमात्तस्य च तादात्म्येना(तादात्म्यमा)त्मत्वावच्छेदेनैवेति सिद्धमात्मनस्तत्स्वभावत्वमज्ञानादिकं त्वावरणो-16 पनीतंभास्वतः प्रकाशाभाववदपारमार्थिकमिति न तत्स्वभावत्वं तस्येति निश्चयः, व्यवहारस्तु सम्यग्दर्शनादिव्यक्तीनामिव | मिथ्यादर्शनादिव्यक्तीनामप्यात्मपरिणामत्वाविशेषेऽपि गुणानामसाधारणत्वेन तत्स्वभावत्वमात्मनोऽनुमन्यते, न खल्वौप्ण्यादीनामिव रूपादीनामपि तेजोगुणत्वाविशेषेऽपि तस्यौष्ण्यस्वभावत्वमिव रूपादिस्वभावत्वमपि व्यवहियते, स्वस्यैव |भाव इति व्युत्पत्त्यर्थस्य तन्नियामकत्वान्नच मिथ्यात्वदर्शनादीनामप्यसाधारणत्वं शङ्कनीयं, सिद्धेषु तदभावादू, नच सम्यग्दर्शनादेरप्यभव्याद्यवृत्तित्वेन नासाधारण्यं सम्यकदर्शनादिजनकशक्तेः प्रमाणबलेनात्मत्वपुरस्कारेणैव कल्पनाद, नच कर्मरूपैव तच्छक्तिस्तत्क्षयेणापि तदुत्पत्तेरित्यागृह्यम् ॥ १२५ ॥ अथास्य स्वभावसिद्धक्रियास्वरूपमाह OOOOOOOOOOOOOாரு १२ Jain Education trainians For Private & Personal Use Only a rjainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy