SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ परीक्षावृ. शरीरे कृतचलोपकरणताया सदाभोगसहकृतयोगक्रियाया पाक्रियामपि भगवतः प्रायोगिक अध्यात्म कवलाहारेण केवलिनां प्रतिक्रमणयोग्यर्यापथप्रसङ्गो गमनादिक्रिययापि समानो बहुसामायिकत्वस्योभयत्राविशे- पात्तदाहुः"न पञ्चमो गमनादिनापीर्यापथप्रसङ्गादिति," अत एव बाधकाद्गमनादिक्रियामपि भगवतःप्रायोगिकीं न मन्यामहे इतिचेन्न, विशेषावमर्शबाधकानवतारादनाभोगसहकृतयोगक्रियाया एव तादृशेर्यापथिकीहेतुत्वात् ; सूक्ष्मायां तु तस्यां कार्मणशरीरे कृतचलोपकरणताया एव हेतुत्वात् ॥ णय परुवयारहाणी तेण सया जोग्गसमयणियएण। ण य वाहिसमुप्पत्ती हिअमिअआहारगहणाउ ११९ न च परोपकारहानिस्तेन सदा योग्यसमयनियतेन । न च व्याधिसमुत्पत्तिर्हितमिताहारग्रहणात् ॥ ११९ ॥ न खलु भगवतां भुक्तेरुचितसमयनियतत्वादन्यदा सर्वदा परोपकारावसरात्तदपायः, न वा हितमिताहारग्रहणात् परिणतौ शूलादिव्याधिसमुत्पत्तिः, उक्तंच “न तृतीयस्तृतीययाममुहूर्त्तमात्र एव भगवतां भुक्तः शेषमशेषकालमुपकारावसरान्न चतुर्थः परिज्ञाय हितमिताहाराभ्यवहारादिति" अथ यथा शूलादिव्याधिसमुत्पत्तिर्न भवति तथा भुञ्जीयेति परिज्ञाने रागप्रसङ्गोऽन्यादृशपरिज्ञानं तु तादृशाभ्यवहाराप्रयोजकमितिचेन्न, मोहोत्पाद्यमानज्ञानस्यैव रागाक्रान्तत्वादुचितप्रवृत्तिनिर्वाहकविषयावभासकस्य तस्यातादृशत्वात् ॥ 18 ण पुरीसाइदुगंछियमेसिं णिद्दड्डमोहबीआणं । अइसयओ ण परेसिं विवित्तदेसे विहाणा य ॥ १२०॥ न पुरीषादिजुगुप्सितमेषां निर्दग्धमोहबीजानाम् । अतिशयतो न परेषां, विविक्तदेशे विधानाञ्च ॥ १२०॥ न खलु कवलाहारेण केवलिनां पुरीषादिजुगुप्सितं संपद्यते, जुगुप्सामोहनीयतरोः समूलमुन्मूलितत्वान्न 30036000635600609500000 00000000000000000000 Jain Education in For Private & Personel Use Only COMainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy