SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ GROOOOOOOOOOOOOOOO तंमल्लग पवाहेहित्ति, एवामेव पक्खिप्पमाणेहिं अर्णतेहिं पोग्गलेहिं जाहे तं वंजणं पूरिअं होइ ताहे हुंतिकरेइ, नो चेवणं | जाणेइ के वेस सद्दाइ" इत्यादीति चेत्सत्यं, उक्तसूत्रे ग्रहणविधिनिषेधयोर्विज्ञानग्राह्यतामधिकृत्योपदेशो, न तु सं. बन्धमात्रमधिकृत्य, प्रथमसमयादारभ्यैव संबन्धसंभवादत एव " असंखजसमयपविठ्ठा पोग्गला गहणमागच्छन्ती" | त्यत्र चरमसमयप्रविष्टा एव विज्ञानजनकत्वेन ग्रहणमागच्छन्ति, तदन्ये त्विन्द्रियक्षयोपशमोपकारिण इति सर्वेषां सामान्येन ग्रहणमुक्तमिति मलयगिरिचरणाः॥ तथा च व्यञ्जनावग्रहोपकारिग्रहणाभावेपि रसनरससम्बन्धरूपं तदहणं | भगवतामप्यविरुद्धमेवेति किमनुपपन्नम् ! अथ रसनेन सह रसस्य बद्धस्पृष्टताख्यसंबन्धरूपं ग्रहणं तथाविधमेवेतिचेन्न, तथापि द्रव्यपूरणेऽपीन्द्रियापूरणात्तत्पूरणायाः क्षयोपशमोपनिबद्धवासनारूपत्वादुक्तं च भाष्यकृता “दबं माणं |पूरिअमिंदिअमापूरिअं तहा दोण्हं । अवरोप्परसंसग्गो, जया तया गेण्हइ तमत्थंति" अत्रापृरितं व्याप्तं भृतं वासि तमित्यर्थ इति व्याख्यातं, तथा चाहारग्रहणे न व्यञ्जनावग्रहप्रसङ्गस्तदानीं द्रव्यव्यञ्जनपूरणस्य निखिलव्यञ्जन|पूरणाविनाभाविवाभावात् । अथ बद्धस्पृष्टताख्यः संबन्धविशेषोपि क्षयोपशमहेतुक एवेति तं विना न तत्संभव इतिचेन्न, तस्य तद्धेतुकत्वे मानाभावाभावेऽपि न नो हानिर्द्धातुसाम्याद्यौपयिकसंबन्धमात्रस्यैव क्षुन्निवृत्त्याद्यौपयिकत्वादिति दिक् ॥११७ ॥ दूषणान्तरप्रसङ्गमुद्धरतिइरिआवहिआकिरिया कवलाहारेण जहणु केवलिणोगमणाइणाविण हवे साकिं तुह पाणिपिहिअत्ति ॥ इर्यापथिकीक्रिया कवलाहारेण यदि नु केवलिनः । गमनादिनापि न भवेत् सा किं त्वत्पाणिपिहितेति ॥ ११८ ॥ 000000000000000000000000 Jain Education For Private & Personal Use Only ainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy