Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 167
________________ 000000000000000000000000 तिनमेव, तन्नये कार्यकालसंबन्धस्यैव हेतुत्वात् , अन्यथा दूरकालव्यवहितानामपि येन केनचित्संबन्धेन हेतुत्वप्रसङ्गादितिदिग ॥ १४७ ॥ केषांचिन्मतमाह बिंति मुणीणं सहावसमवहिई हवे चरणं । तं लद्धसहावाणं सिद्धाणं सासयं जुत्तं ॥ १४८॥ - केचिदुवन्ति मुनीनां स्वभावसमवस्थितिर्भवति चरणम् । तल्लब्धस्वभावानां सिद्धानां शाश्वतं युक्तम् ॥ १४८ ॥ केचन सूरयः खल्विदं सङ्गिरन्ते, यन्न तावच्छुद्धोपयोगरूपं चारित्रं सिद्धान्ताभिहितदोषमुद्गरजर्जरितत्वान्नापि योगस्थैर्यरूपमयोगानां तदभावात् , नापि योगोपलक्षितवीर्यस्थैर्यमेव, क्रियारूपतया तदनवभासात् स्वसंवेदनेन स्वतन्त्रतयैव ग्रहणात्, किन्तु स्वभावसमवस्थानमेव तत्स च स्वभावो निष्कषायतादशायां माध्यस्थ्यपरिणतिरूपः कषायकणोपजीवनेपि विरत्यादिरूपः स्वानुभवसिद्ध एव; तत्र च प्रत्येकं कषायाणां योगदुष्प्रणिधानादेश्च विरोधित्वम् , सर्वसावधव्यापारपरिणामाभिव्यङ्गयः स्वतन्त्र एवासावनुगतः स्वभावः, तत्र च तेषां २ प्रतिबन्धकत्वमागमादिबलादुन्नेयम् , स चायं स्वभावो यथाक्रम विशुद्ध्यमानो मोहक्षयेणोपनीयमानो यथाख्यातचारित्रमित्याख्यायते, स एव च शैलेश्यामत्यन्तं विशुद्ध्यमानो मोक्षलक्षणफलभागू भवति, नच मोक्षदशायामपि तत्पच्यवः, स्वभावप्रच्यवे स्वभाववतोपि प्रच्यवप्रसङ्गात् , श्यामत्वस्वभावपरित्यागेपि स्वभाववत आपाकनिहितस्य घटस्याभावादर्शनान्नायं नियम इति चेन्नासाधारणस्वभावपरित्यागे स्वभाव(वि)निमज्जनस्यावश्यकत्वात् , न हि घटत्वस्वभावपरित्यागे घटोऽनुभूयते, | चारित्रं च जीवस्यासाधारणः स्वभावः गुणत्वाद् ज्ञानादिवत् ; तथाच लब्धस्वभावानां सिद्धानां स्वभावसमवस्थान 30000000000000000000 Jain Education For Private & Personel Use Only yjainelibrary.org

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240