Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
0000000000000000000
मोक्षे चारित्राभ्युपगमे यावज्जीवतावधिकप्रतिज्ञाभङ्गप्रसङ्ग इति, तत्र केयं प्रतिज्ञा? यावज्जीवं सामायिक करोमीति | काश्रुतसङ्कल्पो वा, निर्विशेषं तादृशं ज्ञानमेव वा, आद्ये केवलज्ञानेनैव श्रुतज्ञानरूपा सा प्रतिज्ञा भग्नेति किं भग्नभञ्जने-10
नान्त्येऽपि तद्भङ्गः किं तत्स्वरूपपरित्यागात् तद्गोचरकालातिक्रमाद्वा? नाद्यः ज्ञानरूपप्रतिज्ञायास्तदानीमभङ्गरत्वात्, न द्वितीयस्तद्वोचरस्य यावज्जीवतावधिकस्य कालस्य न्यूनतायामेव ह्यतिक्रमो नत्वधिकावधिपालनेऽपि । ननु देवादिभवानुबन्ध्यविरतिपयुक्तप्रतिज्ञाभङ्गभियैव निह्नवपरिकल्पितमपरिमियाएत्ति पाठं परित्यज्य जीवज्जीवाएति पाठमाददते| संप्रदायधुरीणाः, एवं च यावज्जीवमेवेति सावधारणप्रतिज्ञापर्यवसानात्कथं न मोक्षे चारित्राभ्युपगमे तद्भङ्ग इति, मैवं, यावज्जीवमिति प्रतिज्ञयैव साध्यसिद्धौ सावधारणप्रतिज्ञाया अनतिप्रयोजनत्वात् , तथैवाभिमतसमयनियमनात् , अतिरिक्तकालस्य तदुदासीनतयैव संयमासंयमानुवेधेऽपि तद्धानिवृद्धिकारित्वात् , अस्तु वा यावजीवमेवेति सावधारणैव प्रतिज्ञा तथापि तस्याः क्रियारूपचारित्रविषयत्वान्न कोऽपि दोषः, करोमीति सूत्रांशे हि भावश्रुतशब्दकरणस्याधिकारः। | " भावसुयसद्दकरणे अहिगारो एत्थ होइ नायबो” इति वचनात् यथाच श्रुतसङ्कल्पस्य प्रतिज्ञात्वमुन्नीयते तथा नोश्रुतकरणमाश्रित्य गुणकरणयुञ्जनकरणयोरप्यधिकारः । “नोसुयकरणे गुणझुंजणे य जहसंभव होई इति" वचनात् , एवं च भावपूर्वकक्रियाया एव मीलितवचनबलात्तद्विषयत्वमुन्नीयत इतिन किंचिदनुपपन्नं, भावपूर्वकक्रियायाः क्रियापूर्वकभावस्य वातद्विषयत्वमिति विनिगमनाविरहात् व्यस्तयोरेवोभयोस्तथात्वमस्तु इतिचेन्न, प्रधानत्वेन स्थूलत्वेन च क्रियाया एव तद्विषयत्वात्तत्र भावस्योपसर्जनतयैव प्रवेशात्, केवलस्य तु भावस्यातिसूक्ष्मत्वा( सूची )च्छुचिमुखे मुशलप्रवेश इव न तत्र
®®®0000000000000000
Jain Education a
nal
For Private & Personel Use Only
Www.jainelibrary.org

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240