SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 0000000000000000000 मोक्षे चारित्राभ्युपगमे यावज्जीवतावधिकप्रतिज्ञाभङ्गप्रसङ्ग इति, तत्र केयं प्रतिज्ञा? यावज्जीवं सामायिक करोमीति | काश्रुतसङ्कल्पो वा, निर्विशेषं तादृशं ज्ञानमेव वा, आद्ये केवलज्ञानेनैव श्रुतज्ञानरूपा सा प्रतिज्ञा भग्नेति किं भग्नभञ्जने-10 नान्त्येऽपि तद्भङ्गः किं तत्स्वरूपपरित्यागात् तद्गोचरकालातिक्रमाद्वा? नाद्यः ज्ञानरूपप्रतिज्ञायास्तदानीमभङ्गरत्वात्, न द्वितीयस्तद्वोचरस्य यावज्जीवतावधिकस्य कालस्य न्यूनतायामेव ह्यतिक्रमो नत्वधिकावधिपालनेऽपि । ननु देवादिभवानुबन्ध्यविरतिपयुक्तप्रतिज्ञाभङ्गभियैव निह्नवपरिकल्पितमपरिमियाएत्ति पाठं परित्यज्य जीवज्जीवाएति पाठमाददते| संप्रदायधुरीणाः, एवं च यावज्जीवमेवेति सावधारणप्रतिज्ञापर्यवसानात्कथं न मोक्षे चारित्राभ्युपगमे तद्भङ्ग इति, मैवं, यावज्जीवमिति प्रतिज्ञयैव साध्यसिद्धौ सावधारणप्रतिज्ञाया अनतिप्रयोजनत्वात् , तथैवाभिमतसमयनियमनात् , अतिरिक्तकालस्य तदुदासीनतयैव संयमासंयमानुवेधेऽपि तद्धानिवृद्धिकारित्वात् , अस्तु वा यावजीवमेवेति सावधारणैव प्रतिज्ञा तथापि तस्याः क्रियारूपचारित्रविषयत्वान्न कोऽपि दोषः, करोमीति सूत्रांशे हि भावश्रुतशब्दकरणस्याधिकारः। | " भावसुयसद्दकरणे अहिगारो एत्थ होइ नायबो” इति वचनात् यथाच श्रुतसङ्कल्पस्य प्रतिज्ञात्वमुन्नीयते तथा नोश्रुतकरणमाश्रित्य गुणकरणयुञ्जनकरणयोरप्यधिकारः । “नोसुयकरणे गुणझुंजणे य जहसंभव होई इति" वचनात् , एवं च भावपूर्वकक्रियाया एव मीलितवचनबलात्तद्विषयत्वमुन्नीयत इतिन किंचिदनुपपन्नं, भावपूर्वकक्रियायाः क्रियापूर्वकभावस्य वातद्विषयत्वमिति विनिगमनाविरहात् व्यस्तयोरेवोभयोस्तथात्वमस्तु इतिचेन्न, प्रधानत्वेन स्थूलत्वेन च क्रियाया एव तद्विषयत्वात्तत्र भावस्योपसर्जनतयैव प्रवेशात्, केवलस्य तु भावस्यातिसूक्ष्मत्वा( सूची )च्छुचिमुखे मुशलप्रवेश इव न तत्र ®®®0000000000000000 Jain Education a nal For Private & Personel Use Only Www.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy