SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ अध्यात्म० ॥ ७१ ॥ चारित्रसत्त्वमिति तदपि स्वाभिप्रायविजृम्भितम् उक्तोपपत्तिबलेन चारित्रस्यात्मगुणत्वे सिद्धे क्रियारूपतदविशेष एवैहभ| विकत्वोपदेशविश्रामात् भवपदस्य संसारवाचकत्वेन मोक्षगतौ तत्सत्त्वेप्यैह भविकत्त्वाविरोधात् । अथ गतिमार्गणायां ॐ सिद्धगतेरिव भवाधिकारेऽपि भवनमात्रार्थपुरस्कारेण मोक्षस्यापि ग्रहणं सांप्रदायिकमिति चेत्तथापीह भवे हितमैहभविकमित्यर्थाश्रयणे न कोऽपि दोषः, मोक्षगतौ चारित्रसत्त्वेऽपि तस्य मोक्षानुपकारित्वात् नन्वेवं ज्ञानदर्शने अपि पारभ| विके न स्यातामिति चेन्न परभवपदार्थे देवगत्यादौ तयोरुपकारित्वात, अथ क्रियारूपत्वे चारित्रस्य न देवभवाद्यनुयाॐ यित्वं तस्या मनुष्यशरीरमात्र संभविसंभवत्वात्, आत्मपरिणामरूपत्वे तु तस्य तथात्वप्रसङ्गः, ज्ञानादिवदात्ममात्रापेक्षिणस्तस्य देवभवानुगामित्वसंभवात् इति चेन्न, देवभवोत्पत्तिसमयोदित चारित्रमोहनीय कर्मणात्म परिणामरूपस्यापि चारि - त्रस्य विनाशात्, तेषां भवस्वाभाव्येनैवाविरतत्वाद् अन्यथा परेषामपि न प्रतीकारः शरीरिणां स्वकारणाधीन क्रियासंभवात् एतेन चारित्रं मोक्ष भवाननुयायि देवभवाननुयायित्वादित्याद्यनुमानपरम्परापि परास्ताऽप्रयोजकत्वात्, प्रतिबन्धकसत्त्वा6) सत्त्वाभ्यां परभवाननुयायित्वानुयायित्वसंभवात् । यद्यप्युक्तं मोक्षलक्षणस्य फलस्य लब्धत्वान्मोक्षे सिद्धानां चारित्रस्य वैफल्यमिति, तदपि न, कार्याजनकस्य हि कारणस्य वैफल्यं, नतु कार्य जनयित्वा तदुत्तरकालं निर्व्यापारतया च तिष्ठके मानस्यापि, अन्यथा घटजननोत्तरकालमेव दण्डादयो भज्येरन्निति मोक्षजननोत्तरकालमेव च केवलज्ञानादयो गुणा विफलाः प्रसज्येरन्, जनितकार्याणां कारणानामुत्तरकालेऽपि न वैफल्यमिति चेत्तदिदं ममैवाभिमतं कार्यजननोत्तरं तस्य स्थितिः किमधीनेति चेद्यदधीना ज्ञानादेः, स्वकारणाधीना तस्यानन्ता स्थितिरिति चेदस्यापि किं न तथा, यदप्युक्तं Jain Education Int H For Private & Personal Use Only ०००० परीक्षा वृ० ॥ ७१ ॥ lainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy