________________
00000000000000000000000
राभिव्यङ्गयश्चारित्रमोहकर्मक्षयक्षयोपशमोपशमोपनीतः परिणामविशेष एवेति सिद्धेषु क्षायिकचारित्रं किं वाङ्मात्रनिवारणीयम् ; अत एव मरुदेवादीनां, बाह्याचारं विनापि निर्वाणहेतुचारित्रसत्ता संभविनी, क्वचिल्लिङ्ग विनापि लैङ्गिकदर्शनात्; धूमं विनाप्ययोगोलके वह्नयनुभवात् ; प्रशमसंवेगादिकं विना कृष्णश्रेणिकादीनामपि क्षायिकसम्यक्त्वाभ्युपगमाच्च; अथ षड्जीवनिकाय एव चारित्रस्य विषय इति तत्परिपालनक्रियैव चारित्रं, सम्यक्त्वस्य तु जीवाजी-10 वादिपदार्था एव विषय इति न सा क्रियेति चेन्न तत्त्वतश्चारित्रस्य शुद्धात्मविषयकत्वादत एव “निरभिस्संगं चित्त" मित्यादिना साम्यपरिणतिमेव तदाम्नासिषुयुक्तं चैतत् , षट्रजीवनिकायपालनप्रयत्नं विनापि मरुदेव्यादीनां माध्यस्थ्यमात्रेणापि तत्संभवात् । तदाऽपि क्रियाफलमिति क्रियैवेति चेत् नूनमेवं सिद्धचारित्रमपि क्रियाफलमिति क्रियैवोच्यता किं च वच्छिद्यते, युक्तं चैतत् ; भवस्थकेवलिनामपि क्रियाफलसद्भावमात्रादेव संयमोपदेशात्। किं ते भंते जत्ता ! सोमिला! जं मे तवणियमसंयमसज्झायझाणावस्सयमाइसु जोएसु जयणे" त्यत्र; एतेषु च यद्यपि भगवतो न किञ्चित्तदानीं |विशेषतः संभवति तथापि तत्फलसद्भावात्तदस्तीत्युक्तमिति मन्तव्यमितिव्याख्यानात्; अथ बाह्यक्रियाभिव्यङ्गचान्तरक्रियैव, चारित्रं सा च भवस्थकेवलिनां मरुदेव्यादीनां च संभवति, अत एव चानुपदोक्तस्थले विशेषत इत्युक्तिरिति चेत्, सेयं योगरूपा वा स्यादुपयोगरूपा वा ? नाद्यः मरुदेव्यादौ व्यभिचारात् , द्वितीये तु सिद्धं नः समीहितं, शुद्धोपयोगलक्षणस्य चारित्रस्य व्यवस्थापयिष्यमाणत्वात् इति दिग् । यत्पुनरुक्तमैहभविकत्वोपदेशादेव न सिद्धिगतौ
१ मरुदेव्या.
है000000000000000000000000
in Education in
For Private & Personal Use Only
Mainelibrary.org