SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ॥ ७२ ॥ अध्यात्म० स्थूलप्रतिज्ञाप्रवेशः अत एव " अप्पा जाणइ अप्पा” इत्यागमेन तत्रात्ममात्रसाक्षिकत्वमुपदिष्टम्, नहि निश्चयो व्यवहारमनुरुणद्धि, अपितु व्यवहार एव व्यवहारं निश्चयं चेति वस्तुस्थितिः । अथ प्रतिज्ञायाः श्रुतसंकल्परूपत्वे केवलज्ञानात् कुतो न तद्भङ्ग इति चेन्न, प्रतिज्ञातभङ्गाभङ्गाभ्यामेव तद्भङ्गाभङ्गव्यवहारात् प्रतिज्ञायाः शब्दोच्चाररूपायास्तद्विकल्परूपाया वा तदानीमेव भङ्गात्, किंतर्हि ? प्रतिज्ञया प्रतिज्ञानमेव विजयतामितिचेन्न, प्रधाने संयमे प्रतिज्ञाया अप्यङ्गत्वात् ; अत एव तत्फलेनैवास्य फलवत्तेति; न च व्यङ्गं कर्म फलवदिति तस्यास्तत्रोपयोग इति, वस्तुतः प्रतिज्ञातभङ्गे शिष्टाचा| रविरोधेन शङ्काजनकतयैव वेषादिवत् प्रतिज्ञाप्युपयोगिनी, प्रतिज्ञातेऽप्रमादेन प्रवृत्तिजनकत्साहानुगुणतया चेति । यदप्युक्तम् अनुष्ठानरूपं चारित्रं शरीरं विना कथं सिद्धानामिति, तत्तथैव, नहि वयं तेषां क्रियारूपं चारित्रमभ्युपेमः किन्तु शुद्धोपयोगरूपं, नच तस्याप्युत्पत्ताविव स्थितावपि शरीरापेक्षा, केवलज्ञानादेरपि तथाभावप्रसङ्गात् नच ऋजुसूत्र|नयेन तस्य प्रतिसमयोत्पदिष्णुतया मोक्षे शरीरं विना तदुत्पत्तिरपि न स्यादिति वाच्यम्, तन्नये पूर्वपूर्वक्षणानामेवोत्तरोत्तरक्षणहेतुत्वात्, अन्यथा ज्ञानादावप्यप्रतीकारादितिदिग्; अथ माभूद्वाह्यक्रियारूपता चारित्रस्यास्तु वाभ्यन्तरक्रियारूपत्वम्, तथापि न सा सिद्धानां तद्धेतुयोगादेर्विलयादित्याशयं निरसितुमाह-अपि चेत्यादिना, क्रिया खलु योगाख्या शरीरनामकर्मोपनीततया भगवतामप्यौदयिकी, चारित्रं तु तेषां चारित्रमोहनीय कर्मक्षयोपनीततया क्षायिकमिति महाननयोर्भेदः । नहि यदेव क्षायिकं तदेवौदयिकमिति संभवति, एवं क्षायोपशमिकोपशमिकयोर्द्रष्टव्यम्, तेन 9 जायते क्रिया तावत्तात्त्विकं चारित्रलक्षणमनास्कन्दन्ती चारित्र व्यवहारं च जनयन्ती तटस्थतयैव भाविभूतचारित्रो Jain Education Inte For Private & Personal Use Only ॐ० 3000 AL परीक्षा वृ० ॥ ७२ ॥ Wainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy