SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 33000000000000000000060 पकारितया द्रव्यचारित्रमेवाभ्यन्तरचारित्रं वनवलिप्तस्वपरिणाम एव उक्तं च “ मोहक्खोहविहूणो परिणामो अप्पणो धम्मो त्ति” तथा आया सामाइए आया सामइयस्स अहेत्ति सूत्रमपि आत्मपरिणामरूपमेव चारित्रमाह,नच योगाख्यः प्रशस्तमनोव्यापार एव चारित्रं, योगस्य बन्धहेतुत्वात् , चारित्रस्य चानाश्रवरूपत्वात् , एतेन " अथवा पञ्चसमितिगुप्तित्रयपवित्रितम् । चरित्रं सम्यक्चारित्रमित्याहुर्मुनिपुङ्गवाः॥१॥ इति व्याख्यातम् , अत्र हि चरित्रं यदि यतीनां चेष्टा तदा तस्या बन्धहेतुत्वात् , यदि पुनरुपयोगस्तदभिमतत्वादिति; अथ योगत्वेन रूपेण बन्धहेतुत्वेपि चारित्रत्वेनातथात्वात् तेन रूपेण निर्जराहेतुत्वमविरुद्धमिति न कोऽपि दोषः, बाह्यात्मत्वेन बन्धहेतोरप्यात्मनस्तथात्वदर्शनात् इति चेन्न, बाह्यात्मव्यावृत्तस्य शुद्धात्मन इव बन्धहेतुव्यावृत्तस्य चारित्रस्य स्वरूपता(तो)निष्कलङ्कत्वौचित्यात्, अपि च कषायहान्या चारित्रवृद्धिस्तद्वद्ध्या च तद्धानिरिति तत्प्रतिपक्षभूतः शुद्धोपयोग एव चारित्रम् नतु योगस्तस्य कषायाप्रतिपन्थित्वात् , तेषां विपरीतभावनानिवर्त्यत्वात् , तस्मात् कषायनिवर्त्यस्तन्निवर्त्तकश्चोपयोग एव चारित्रमिति व्यवतिष्ठते । ननु तथाप्यस्तु उपयोगमे(ए)व क्षायिक चारित्रं तथापि तस्य योगसापेक्षत्वेन योगनिरोधादेव तद्विलयसंभवात् सिद्धानां न तत्संभावना, न चोपयोगविलये नैरात्म्यापत्तिः, खण्डोपयोगविलयेप्यखण्डोपयोगाविलयात् इति चेन्न, क्षायिकत्वेन तस्य नाशायोगादन्यथा चारित्रमोहक्षयस्य निष्फलत्वप्रसङ्गात्, चारित्रस्य परमविशुद्धिरेव चारित्रमोहक्षयफलमितिचेत् तथापि क्षायिकस्य सतोऽविनाशित्वव्याप्तिरेव बलवती, न चापेक्षकनाशादपेक्ष्यनाशोऽपि, अन्यथा शरीरनाशात् ज्ञानादिनाशप्रसङ्गात् , किन्त्वसाधारणापेक्षकनाशादपेक्ष्यनाशः, न च योगश्चारित्रस्या १३ Jain Education Intel For Private & Personel Use Only a ainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy