Book Title: Prem Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
Catalog link: https://jainqq.org/explore/008640/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra प्रेम-गीता. www.kobatirth.org रचयिता- श्रीमद् बुद्धिसागरसूरीश्वरजी. For Private And Personal Use Only DMCR Acharya Shri Kailassagarsuri Gyanmandir अ. ज्ञा. प्र. मंडल, Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandit श्रीमद्-बुद्धिसागरसूरीश्वरजी-ग्रन्थमालाग्रन्थाङ्क ११० ॐ अर्हम् शास्त्रविशारदजैनाचार्ययोगनिष्ठाऽऽध्यात्मज्ञानदिवाकर श्रीमद-बुद्धिसागरसूरीश्वरविरक्रिया: प्रेमगीता. संशोधयिता प्रसिद्धवक्ताजैनाचार्यश्रीमद्-अजितसागरसूमि प्रकाशकं चाऽध्यात्मज्ञानप्रसारकमण्डलम् ह. वकीलमोहनलालहीमचंद-पादरा. (गुजरात) वि. १९८४ बुद्धि सं. ४ भाषनगर-आनंद प्रीन्टींग प्रेसमां शा गुलाबचंद लल्लुभाइए छाप्यु. मूल्यं रु. ०-६-० Meccccccccccasasrecccccccccorporapan HARDHAMARINDIHINumbinikhilibhibiti प्रतयः ५०० on For Private And Personal use only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रेमगीतामाहात्म्यम्— प्रेमगीता विधातव्या, बुद्धिसाध्या मनीषिभिः । एषैव मोक्षदा पुंसां, किमन्यैः शास्त्रविस्तरैः ॥ १ ॥ एकस्याः प्रेमगीतायाः, पाठेन दुरितक्षयः । शास्त्रान्तरप्रयासेन, सृतं बुद्धिमतां नृणाम् ।। २ ।। प्रेमगीतामृगेन्द्रोयं, यावन्नायाति सन्मुखम् । तावद्गर्जन्ति शास्त्राणि, कुञ्जरोपमितानि वै ॥ ३ ॥ प्रेमगीताऽऽत्मतत्त्वस्य, सारभूताऽस्ति भूतले । hi संसृतिपाथोधौ, तारिणीयं मनीषिणाम् ॥ ४ ॥ प्रेमगीताप्रचारोऽयं, सूरीशेन प्रवर्त्तितः । परंपरागतो भावी, महोपकृतिकारकः ॥ ५ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बुद्धि सं. ४ पादरा. ता. २०-८-२८ www.kobatirth.org } निवेदन. - ( सद्गत गुरुवर्य श्रीमद् बुद्धिसागरसूरीश्वरजी महाराजना अप्रगट साहित्य पैकीनो आ ग्रन्थ - प्रेमगीता (मूळ संस्कृत ) छे. आ ग्रन्थनो विषय गहन होवाथी तेनुं भाषान्तर अथवा अनुवाद थवानी जरूर छे. पण तेम करतां वधारे वखत लागे तेम होवाथी गुरुश्रीना पट्टधर शिष्य प्रसिद्धवक्ता श्रीमद्- अजितसागरसूरीश्वरजीनी प्रेरणानुसार हाल मूल रूपेज प्रसिद्ध करवानुं उचित धार्युं छे. आ ग्रन्थनुं गुजराती भाषामां, समश्लोक भाषान्तर सारा विद्वान् पासे करावी प्रसिद्ध करवा मण्डलने उमेद छे. या ग्रन्थनो विषय अति गम्भीर होवाथी कर्ताना आशय तथा सापेक्षता लक्षमां राखी वांचवा विनंती छे. आ ग्रन्थ साथे जोडवा सद्गत गुरुश्रीनुं संस्कृत टुंक जीवन तथा ग्रन्थनी प्रस्तावना लेखी आपना माटे श्रीमान् श्रजितसागरसूरीश्वरजी महाराजनो अंतःकरणपूर्वक आभार मानवामां आवे छे. ३ सं १९८४ द्वितीयश्रावणसुदि ९ सोमवार श्रीअध्यात्मज्ञानप्रसारक मंडल . Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रस्तावना. -9=0 Acharya Shri Kailassagarsuri Gyanmandir प्रणम्य श्रीमहावीरं गुरुं च बुद्धिसागरम् । सूरीन्द्रं प्रेमगीतायाः, किश्चित्प्रास्ताविकं ब्रुवे ॥ १ ॥ इह खलु प्रविदितसिद्धान्ताऽऽगमतच्चानां त्रिगतमोहानां मोचमार्गोन्मुखवृत्तीनां परानपि तदेकलक्ष्यं दर्शयतां परहितसमुद्यतानां महात्मनां प्रवृत्तयोऽक्षयफलसाधका भवन्तीति विदितमेव सहृदयहृदयानाम् । पुरा गृहस्थधर्मसेविनोऽपि ज्ञानाश्मिकस्थितिमाचरन्तः स्वस्वाऽभीष्ट कार्योद्यता स्त्यागाश्रममनुकुर्वन्तः संसारमसारं बोधयन्तः सत्प्रवृतिं चक्रुः, आधुनिकास्तु मोहपाशेनिपतिता ऐहिक सुखाऽनुषङ्गिका लोभग्रहग्रस्ता आत्मदृष्टिपराङ्मुखाः केवलं दुःखमयं जीवनं प्रायो निर्वहन्ति, तत्कारणन्त्वज्ञानमेव विलोक्यते, अज्ञानोपहतदृष्टयोहिताहितं न पश्यन्ति, विवेकविकलानां सद्बुद्धिः कुतः सम्भवति । निर्बुद्धीनां शुभोदयः सर्वथा नैव सम्भाव्यते । अतोऽज्ञानता दूरतः परिहर्त्तव्या, यतोऽशुभकर्मणामुदयेन भवाऽटवीं परिभ्रमतोमानवानज्ञानमेव विषयेषु योजयति, कुकर्मवारिधौ निमज्जयति, दुरन्तं संसारवासं वर्धयति, कुविकल्पजालं समुत्पादयति, स्वजनेषु विरोधं प्रकटयति, दुष्कर्मनिर्माणे च तदेव हेतु:, श्रज्ञो जनो वैषयिकसुखनिमग्नोनिजात्मानमधः पातयति. जीवन्नपि स पशुप्रायो निगद्यते, तथाच - आहारनिद्राभयमैथुनं च समानमेतत्पशुभिर्नराणाम् । ज्ञानं हि तेषामधिको विशेषो - ज्ञानेन For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. ः पशुभिः समानाः ॥ १ ॥ अतो विवेकबुद्धिं पुरस्कृत्य स्वहितनिरतैर्मोक्षसाधने धर्मकर्मणि सदोद्यमो विधेयः, यद्यपि मोक्षस्याऽसंख्या योगाः शास्त्रकारैः सम्यक्प्रतिपादिताः, तेषु प्रेम्णोऽपि समावेशो भवति, श्रीशङ्कराचार्यः केवलाऽद्वैतरूपेण, वल्लभाचार्यः शुद्धाऽद्वैतरूपेण, रामानुजाचार्यो विशिष्टाऽद्वैतरूपेण, मध्वाचार्यो द्वैताऽद्वैतरूपेण, परब्रह्मप्रेमाणमेव प्रत्यपादयन्। तथैव श्रीबुद्धदेवेनाऽपि प्रेमव्याख्याऽक्रीयत, "तृतीयसोपानस्थितेनाऽपुनर्जन्मना देहिना विषयोपभोगाऽऽसक्तिः सर्वथा हेया, क्रोधद्वेषसमुद्भूतोपाधिविषयकरागश्च त्यक्तव्यः, नैतावता येषु प्राणिषु शृङ्खलारूपोविशुद्धरूपः सर्वगतः सर्वजीवात्मसु महान् प्रेमा हातव्यः, अत्र प्रेमशब्दोरागपर्यायः,” “मित्तिमे सव्व भूसु " सर्वप्राणिषु मम मैत्री वर्तते, इत्यर्हदुक्त्यनुसारेणाऽर्हदुपासकाः प्रत्यहं वदन्ति मन्वते च, करुणा, प्रमोद, माध्यस्थ्यं, मैत्री, इतिचतुर्विधभावनान्तर्भूता मैत्री, चतुर्विधाऽपि भावना प्रेमाणं प्रतिपादयति, योगविशारद श्री मदानन्दघन न्यायविशारद श्रीमद्यशोविजय महोपाध्याय श्रीमच्चिदानन्द श्रीमद्देवचन्द्रप्रमुखैः प्रेममयानिगीतानि गीतानि तद्रूपमेवाद्भुतं प्रेमतत्त्वमस्ति तस्मिन्प्रेम्ण्येव श्रेयो भावनारसः समन्तात्प्रसरति, मैत्रीप्रमोद भावनासंभृतं तदेवाद्भुतं जीवनं प्रशस्यते, परब्रह्ममयं प्रेम विशुद्धाऽऽत्मज्योतिः प्रकाशते, इदृशी प्रेमवृत्तिरात्मनः उच्चदशाऽभिधीयते, अनयैवजीवः श्रेणिगतो भवति, साचाष्टमगुणस्थाने लभ्यते, उपशमश्रेणि गतोदेही निजायुषः चये निपत्यैकादशगुणस्थानात्, चतुर्थगुणस्थानमागत्य तत्रैव मृत्वा वैमानिकेषूत्पद्यते, विच्छिन्नध्यानश्रेण्याः पुनः सन्धानकरणे प्रेमभावना श्रतीवोपयुज्यते, अर्थात् सप्तमगुणस्थानतः प्रेममयी भावनोत्पद्यते, ध्यानश्रेण्याः प्रारंभस्तत्रैव भवति, शुक्लध्यानस्यान्तिमश्रेण्यां प्रेमभावनाया निवृत्तिर्भवति. आत्मरमणता किं वाऽऽत्मस्वरूपरमयतैव प्रेमाभिधीयते, ५ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तर्हि स तु द्वादशगुणस्थानपर्यन्तं तिष्ठति, केवलज्ञानस्यप्रादुर्भावे मनोऽपि लीयते, ततस्तत्र परहितकांच्चाप्रेमकरुणाप्रभृतयोभावा विनश्यन्ति, तथैव चतुर्थगुणस्थानकात् विशुद्धप्रेम प्राप्यते, आत्मविशुद्धप्रेमा त्वपेक्षया त्रयोदशगुणस्थानेऽपि संभवेत् । प्रेमा द्विविधः शुद्धोऽशुद्धश्च तत्र शुद्धोमोचाऽभिलाषुकैः सर्वोपकारक्षम: मैत्र्यादिगुणवर्धकः सर्वदा सेव्यः, अशुद्धश्च विषयभोगजीवनोधर्मकर्मनिहन्ता दुर्गतिदायकः सर्वदाहेयः तथा च शुभभावना शुद्ध- प्रेमता निरयप्रदा । शुभभावः सदा शुद्ध प्रेमास्ति मोक्षदायकः ॥ १ ॥ शुद्धप्रेमा ततः कार्यः, सर्वत्र सर्वदेहिषु । नहि प्रेम्णा समं लोके, विद्यते जिनभाषितम् ॥ २ ॥ प्रशस्तथाऽप्रशस्तश्च, प्रेमास्ति द्विविधो जने । संघादिधर्मरक्षायां प्रशस्तप्रेम कीर्त्यते ॥ ३ ॥ स्वर्गापवर्गदा नृणां, प्रशस्तप्रेमभावना । अप्रशस्ता तु सा स्वार्थ सिद्धिकामादिहेतुका ॥ ४॥ अप्रशस्तः सदा त्याज्यः, प्रशस्तो ग्राह्य एव च । प्रेमाऽऽद्योऽशुद्धि दोनित्य-मन्तिमस्तु विशुद्धिः || ५ || विशुद्धप्रेमिणो सर्वे, जीवाः स्वात्मसमाः स्थिताः । अशुद्ध प्रेमिणोजीवान् पश्यन्ति भेदबुद्धिः ॥ ६ ॥ प्रेमाऽस्ति जीवनाधारः, प्रेमसार्थो हि भूतले । सत्यव्यवहार एवासौ, प्रेमास्ति वर्त्मरक्षकः ॥ ७ ॥ सैव कष्टाऽब्धिसेतु, हृदयाऽऽरामवारिजम् । धर्मः सनातनः प्रेम, प्रेमास्ति सत्यपूजनम् ॥ ८ ॥ कर्मप्रेमतो नान्यत्, त्रिषु लोकेषु विद्यते । परमानन्दता प्रेम्णि, तस्मातृष्णा निवर्तते ॥ ९ ॥ स्वेच्छापूर्तिः स एवाऽस्ति, हृद्याशाहेतुकः स च । निःसीमाऽनन्तता प्रेम्णि, सर्वतो व्यापकोऽस्त्यसौ ॥ १० ॥ अनुमातुं न तच्छक्यं केनाऽपि चितिमण्डले । दम्पत्योः स्थिरतामेति, सङ्घीभूय स सर्वतः ।। ११ ।। For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobauhog Acharya Shri Kailassagersuri Gyanmandir marwanawwan- KHANARomanrainamainancianworoinnar वंशजेषु सदा प्रेमा, दृश्यते विस्तृतिं गतः । विभज्यते न यत्प्रेम, भ्रातृपुत्रादिभिः कदा ॥१२॥ अनुरागविधाने हि, प्रेमी श्राम्यति नो जनः । क्षणतः प्रेम निर्माति, कुटी दीव्यनिकेतनम् ॥ १३ ॥ प्रेमतुल्यंबलंनान्य-त्सर्वसिद्धिविधायकम् । मनःशुद्धिविधानेन, प्रेमवासो भवेध्रुवम् ॥ १४॥ रोचते न मनुष्येभ्यः, शुद्धिहीनं निकेतनम् । दिव्यवैभवसम्पन्न-मपि शुद्धिः प्रशस्यते ॥ १५ ॥ आन्तरिकतमोत्रातः, प्रेमतः क्षीयते क्षणात् । कूटत्ववादलौषश्च, प्रेमवातेन शीर्यते ॥ १६ ॥ प्रेमभावो यदा विश्वे, विश्वस्मिन् विस्तृति व्रजेत् । विगताशामलः प्रेमी, तदा याति परं पदम् ॥ १७ ॥ तेनैव सकला सृष्टिः, सद्यः प्रेममयी भवेत् । द्वैतभावमयी दृष्टि-मनुजानां विनश्यति ॥ १८॥ चक्षुषा दृश्यते नैव, प्रेमरम्यत्वमङ्गिभिः । अद्भुता शक्तिरस्याऽस्ति, मनोभेदः प्रलीयते ॥ १९ ॥ क्रयविक्रयतो नैव, लभ्यते प्रेम कर्हिचित् । सुलभः प्रेमसद्भावो-देहिनां प्रेमतः खलु ॥२०॥ प्रेमतो महतां मानः, पूज्यानां भक्तिरन्वहम् । इष्टदेवशुमध्यानं, मनःसौहार्दमाप्यते ॥ २१ ॥ देशभक्तिरुचिः प्रेम्णो-द्विषदन्यायनिवृतिः। अन्येऽपि शुभयोगाश्च, भवन्ति प्रेमभावतः ॥ २२ ॥ प्रेममार्गोऽतिरम्योऽस्ति, तदन्यो दुरतिक्रमः । भयङ्कराणि विघ्नानि, वर्तन्ते यस्य सन्निधौ ॥ २३ ॥ स्वार्थदस्युः स्थितस्तत्र, विरहःपृथुवेदना । अस्थिरत्वं च तत्रैव, लोकलज्जापि देहिनाम् ॥२४॥ सुलभं कथनं प्रेम्ण-स्तत्प्रवृत्तिस्तु दुष्करा । मनश्चञ्चलताग्रस्त, प्रेमवृत्तिपराङ्मुखम् ॥२५॥ कष्टेन प्रेमसद्भावः, सज्जनानां समुद्भवेत् । प्रेमता जायते प्रायः, समबुद्धिविधायिनाम् ॥ २६ ॥ For Private And Personal use only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir mammam schennainganamnnamnnarvawwwwhhahasranamance विशुद्धप्रेम क तिष्ठतीति ग्रन्थकर्ता स्वयमाहयत्रात्मा दृश्यते शुद्धः, सच्चिदानन्दलक्षणः । आसक्तिर्यत्र नैवाऽस्ति, शुद्धप्रेमाऽस्ति तत्र हि ॥ २॥ सर्वजातीयदेहेषु, जीवा देवाः स्वभावतः। तत्सार्द्धमात्मवत् प्रेम, पूर्णानन्दप्रकाशकम् ॥३॥ जिनेन्द्राः सर्वजीवाः स्यु-स्तत्रात्मैक्येन वर्चनम् । परप्रेम विबोद्धव्यं, शुद्धब्रह्मरसात्मकम् ॥४॥ विना प्रेम्णा दोषग्रस्ते कलियुगे धर्मसिद्धिर्नजायतेकलौ प्रेममयो धर्मः, सर्वत्र मुक्तिदायकः। रागेण संयमो बोध्य-चारित्रिणामपि ध्रुवम् ॥५॥ प्रेम्णा धर्मस्य संवृद्धिः, प्रेम्णैव देवपूजनम् । प्रेम्णैव सद्गुरोः पूजा, प्रेम्णा विश्वं रसात्मकम् ॥६॥ जगच्छ्रन्यं विना प्रेम्णा, नीरसं बहिरन्तरम् । लोकानां सर्वदा प्रेम, स्वान्तरवाह्यजीवनम् ॥७॥ बाह्यनैमित्तिको रागो-वैषयिको विनश्वरः । आत्मज्ञानविहीनानां, भवत्येव जडात्मनाम् ॥८॥ येन सर्वात्मभिः साकमैक्यमनुभूयेत, तद्महाब्रह्मरसाऽनुभवदायकं प्रेमैव विद्यते, । विशुद्धप्रेमतो देहसबस्थितानां सर्वजातीयजीवानां दर्शनमात्मवत्सदैव भवेत् , विशुद्धप्रेमभावतः सर्वदोषाः क्षयं यान्ति, सर्वव्यापकप्रेमतो निन्दादिदोषा न समुद्भवन्ति, प्रशस्यं प्रेम मनीषिणां श्रेयसे मोक्षाय च भवति । अप्रशस्येन रागेण भवाटव्यां दुःखपरम्परा प्रादुर्भवति, अतः सर्वदुःखविनाशाय शुद्धप्रेम प्रकटीकुरु, प्रेमतः पुंसां सर्वकर्तव्यसामर्थ्य प्रादुर्भवति. यज्ञस्वरूपेण विशुद्धप्रेम प्रतिपादितं सूरीन्द्रेण For Private And Personal use only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir · सर्वयज्ञस्वरूपोऽस्ति, प्रेमयज्ञः सतां मतः । प्रेमयज्ञ निमग्नाना - मन्ययज्ञो न विद्यते ॥ ३३२ ॥ ३३३-३३४-३३५-श्लोकैर्ज्ञातव्यो विशेषश्च । तथैव प्रेम्णः सप्तैत्र भूमिकाः प्रतिपादिताः, तावाधिकारपरत्वेन गुर्वाज्ञातः सेव्याः तत्स्वरूपं मूलग्रन्थोक्तैः ३४३ - ४०६ - श्लोकैर्ज्ञातव्यम् ॥ ज्ञानमपि विशुद्ध प्रेम्णैव संपद्यते, सम्यक्त्वं च तस्मादेव प्राप्यते, सम्यक्त्वाच्चारित्रं चारिवादनन्तसुखमयो मोक्षः किमपि धर्मकार्य विना प्रेम्णा मानवाः साधयितुं न शक्नुवन्ति, यतः - प्रेमाधीनं जगत्सर्व, क्रियमाणे प्रवर्त्तते । प्रेमिणां मानसं शुद्धं, पूज्यन्ते प्रेमिणः सदा ॥ १ ॥ अनन्तेष्वात्मिकगुणेषु विशुद्धप्रेमगुणो मुख्यतां वहति, अन्यगुणेष्वनुरागः प्रेमतः संजायते, गुणेष्वासक्तिरपि प्रेमैव निगद्यते, स च प्रेमा-रागिणि योजितः सोऽपि, रागतां वर्धयेत्खलु । ततः संसारतावृद्धि जयते दुःखदायिनी ॥ १ ॥ वीतरागे कृतः प्रेमा, भवपाथोधितारकः । श्रपुनर्जन्मदाताऽसौ प्रशस्तः परिकीर्त्तितः ॥ २ ॥ श्रनन्तसुखात्मके विशुद्धात्मनि प्रशस्तप्रेमकरणेन प्रशस्त प्रेम्णो विनाशः, तस्मात्सर्वजीवेषु प्रेमवता भाव्यम् । अन्यथा दुरन्तदुःखमयादपारसंसाराजीवानामनुद्धतिरेव तथैव ग्रन्थकर्ताऽपि निवेदितम् । सर्वजीवोपरि प्रेमा, यस्य जातो न वस्तुतः । तस्योद्धारो भवेन्नैव विना प्रेम न पात्रता ॥ १०८ ॥ तथैवाऽहिंसाधर्मोऽपि प्रेम्णैव सिद्ध्यति, 'अहिंसा प्रेमयोगेण, भवत्येव न संशयः । गुणाधार महाप्रेम, सर्वस्वार्पणकारकम् । १०६ ॥ प्रेमविनामू अनन्तसंसारवेदनामनुभवन्ति - " संसारियां विना प्रेम, भवेदुःखं पदेपदे । सर्वसंबन्धशून्यत्वं, शून्यत्वं चा For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassage sur Gyanmandir त्मनस्तथा ॥१११॥ शुद्धप्रेमैव जैनधर्मस्तत्स्वरूपं च सूरीश्वरेण विशदीकृतम् । “शुद्धप्रेमप्रभुः साक्षा-दन्तर्यामी प्रवर्त्तते । भक्तानां हृदिसंवेद्यो-जैनधर्मः स उच्यते ॥ ४३१ ॥ बाह्यानां ममता यावत् , तावद् वीरे न रागता । यावन्मृत्युभयं चित्ते, तावत्सत्प्रेम नोप्रभौ ॥ ४३२ ॥ अतो मृत्युभयं विजित्य श्रीवीरप्रभौ प्रेमकतानता विधेया. यत:-कलौ सरागधर्मोऽस्ति, त्यागिनां गृहिणां तथा । न्याय्यरागादिधर्मेण, भक्तानां मुक्तिमार्गता ॥ ४३४ ॥ वीतरागो भवेन्नैव, कलौ कोऽपि स्वभावतः। अतो देवादिसेवायो, शुभरागादयः स्मृताः ॥ ४३५॥ सत्यप्रेमिणां संसारवर्द्धका ये भावास्तेऽप्यपेक्षया मोक्षदायिनो भवन्ति (ज्ञानिना भोगा अपि निर्जराहेतुः ) भवस्य हेतवो ये ये, ते ते मोक्षस्य हेतवः । भवन्त्यपेक्षया सत्य-प्रेमयुक्तमनीषिणाम् ॥४५॥ शुद्धपरमात्मध्यानेन शुद्धात्मप्रेमलीनस्य देहिनः समाधिः सततं सिद्ध्यति, सामान्यतोमोहजनकं यत्प्रेम तत्तुदशमगुणस्थानाऽवधि संभवति. असिन्ग्रन्थे प्रेमशब्देन प्रायो विशुद्धप्रेमा (आत्मरमणतारूपः ) ग्रन्थका निर्दिष्टः, श्रीमदाचार्यवर्येण विद्वन्मान्येन शास्त्रविशारदयोगनिष्ठाऽऽध्यात्मज्ञानदिवाकरेण श्रीमद् बुद्धिसागरसूरीश्वरेण विरचिता ग्रन्थमाला (१०८) विश्वविकाशमातनोति, तथैवेयं प्रेमगीता तद्विरचिता जगजीवोपकारकारिणी बुद्धिमतां करकमलस्थिता विलासमेष्यति, अन्यान्यपि जैनगीता, गुरुगीता, कृष्णगीता, अध्यात्मगीतादिप्रवचनानि, एषां सूरीश्वराणां मुखकमलात् प्रवर्तितानि भव्यात्मनां मनांसि रञ्जयन्ति, अस्याः प्रेमगीताया गौरवन्तु-अध्यात्मरसरसिकाः स्वयं वाचनेन विज्ञास्यन्ति, श्रीमदाचार्यवर्यविरचिताग्रन्थमालाप्रसारयितु स्वेनैव संस्थापितमध्यात्मज्ञानप्रसारकमण्डलं गुरुमच्या-अध्यात्मज्ञान For Private And Personal use only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org रसिकानामतीवोपकारं कुरुते, अतस्तन्मण्डलं धन्यवादमर्हति अस्य ग्रन्थविशोधने दसदृष्टिरनेकग्रन्थरचयिता प्रसिद्धवक्ता श्रीमदाचार्य - अजित सागरसूरीश्वरः, विशोधकस्याऽचरनियोजकानां चात्र मुद्रणे यत्र वाऽपिस्खलना दृष्टिपथं पतति चेद्विशोध्य वाचनीयं सूचयितव्यं च धीधनैः, यतः - गच्छतः स्खलना क्वाऽपि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र, समादधति सञ्जनाः ॥ १ ॥ इति प्रार्थयतेप्रसिद्धवक्ताश्रीमद्-अजितसागरसूरीश्वरचरणसरोजरोलम्बायमानः मु० माणसा ( महीकांठा ) वीर सं. २४५४ वि. सं. १९८४ बुद्धि. सं. ४ श्रावण शुक्लद्वितीयायां मृगुवासरे ११. For Private And Personal Use Only हेमेन्द्रसागरः Acharya Shri Kailassagarsuri Gyanmandir ॐ शान्तिः ३ Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir शुद्धिपत्रकम्. marwanamannaam . AAAAnnnnnnnn. शुद्धिः सत्प्रेमैव शाम्यन्ति देहाध्यास अशुद्धिः सचमैव शाम्यति देहाध्यासस द्रश्यते भूमिका क्रिश्चित जनैर्द्रश्यो सजायः पन्न्यापदं, दृश्यते भूमिकाः किश्चित् जनैदृश्यो सजाप:पन्न्यासपदं जीवनचरित्रे For Private And Personal use only Page #14 -------------------------------------------------------------------------- ________________ www.kobairthorg Acharya Shri Kailassagarsuri Gyanmandit Shri Mahavir Jain Aradhana Kendra mannummameramananew शास्त्रविशारदजैनाचार्यसद्गुरुश्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः अथग्रन्थकर्तुःसंक्षिप्तजीवनवृत्तान्तम् ॥ पवित्रीकृतभूमीना, श्रीमतामर्हतां मुदा । नत्वा श्रेणिं प्रवक्ष्येहं, चरित्रं स्वगुरोः शुभम् ॥ १ ॥ समस्ति जम्बूद्वीपेऽस्मिन् , भरतक्षेत्रमूर्जितम् । धनधान्यादिसंपद्भि-महारत्ननिधानकम् ॥२॥ तत्र देशशिरोरत्नं, नानातीर्थपवित्रितः । राजते गुर्जरो देशो-धर्माचाविभूषितः ॥३॥ विद्यापुराऽ (विजापुर)भिधं विद्या मन्दिरेण विभूषितम् । प्राजते पत्तनं भूरि-समृद्धेम्यगणैः श्रितम् ॥४॥ विरेजुर्यत्र दिव्यानि, मन्दिराण्यर्हतां पुरे । गगनांगणचुम्बीनि, यशांसीव महात्मनाम् ॥ ५॥ अस्ति कूर्मान्वयस्तत्र, कृषिकर्मविशारदः । दयादिगुणराशीना-मालयो धर्मभावनः ॥६॥ शिवदासः शिवश्रीमाक्, सुधीर्धर्मपरायणः । तत्राजनिष्ट भूयिष्ठ-जनवातप्रियङ्करः ॥७॥ भार्या तस्याऽभवच्छुद्ध-चारित्राऽम्बाभिधानका | सती मतल्लिका भव्या, रुचिराननपङ्कजा ॥८॥ नभोगुणाङ्कवसुधा (१९३०) मिते वैक्रमवत्सरे । माघकृष्णचतुर्दश्यां निशीथे भानुवासरे ॥९॥ तयोभक्तिमतो,हे, जज्ञे सूनुरिवांशुमान् । यदीयतेजसारिष्टं, दिदीपे दीप्तिमत्तरम् ॥१०॥ युम्मम् ॥ [१] AnaminannnnnnnnnnnnnninAnanasoninnar For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth or Acharya Shri Kailassagar Gyanmandi [२] पितृभ्यां मोदमानाभ्यां, बेचरेत्यभिधाऽकृत । तस्याऽर्मकस्य सद्बुद्धे-निधानस्येव भाविनः ॥ ११ ॥ शशाङ्ककलया सार्द्ध, ववृधे प्रतिवासरम् । कुमारः सुधया सिञ्चन् , कौटुम्बिकविलोचने ॥ १२ ॥ कौमारभावमापनः, कलाचार्यसमीपगः । निजबुद्धिप्रभावेण, क्रमशः शास्त्रमादधत ॥१३॥ विद्याविनयसंपन्न, धर्मबुद्धिं विलोक्य तम् । मुमुदे मानसे स्वीये, कलाचार्यो विशेषतः ॥१४॥ छात्रेवन्येषु बहुषु, सोऽपि तस्मिन्मनीषिणि । सफलं स्वश्रमं मेने, पात्रदत्तं हि सत्फलम् ॥ १५ ॥ अथ श्रेष्ठिवरस्तस्मि-नगरे द्वादशव्रती । मंच्छाराममहेभ्यस्य, नथ्थुनामा सुतोऽभवत् ॥ १६ ॥ आजन्मशुद्धचरितः, स्वकर्मनिरतोऽनिशम् । मुनिशुश्रूषणे दक्षो-धर्मकार्यधुरन्धरः ॥१७॥ तीर्थेषु दत्तलचोयो-धर्मतत्चविदांचरः। सर्वत्र ख्यातसत्कीर्तिः, परोपकृतिमान् बभौ ॥ १८॥ युग्मम् ॥ एकदा श्रेष्ठिना तेन, विद्याशालामुपागतः । शिवदाससुतो दृष्टो-जैनधर्मरुचिं दधत ॥१६॥ जैनधर्मोन्नतिकर्ता, बालोऽयमिति बुद्धिमान् । अबालो सुधिया ज्ञात्वा, गृहं निन्ये निजं स तु ॥ २० ॥ स्थित्वा तत्रैव तत्वानि, जैनानि ज्ञातवान्सुधीः । गुरूणां संनिधानेन, द्विचरः शुद्धमानसः ॥ २१ ॥ मेशांनाख्यपुरे वर्षे, विद्याधिगमहेतवे । जग्मिवान्स ततो विद्वान् , प्राज्ञः कः स्वगृहे वसेत् ॥ २२ ॥ श्रीयशोविजयाभिख्य-पाठशालामधिश्रयन् , स्वल्पकालेन सद्भन्थान् , पपाठ बुद्धिमत्तरः ॥ २३ ॥ तत्रैव पाठको भूत्वा, महेम्यैः प्रार्थितः स्वयम् । विनेयान् शिक्षयामास, जैनतत्त्वानि तत्त्वतः ॥२४॥ १ करिष्यति. २ महेशाणा. For Private And Personal use only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. तद । गमन्मुनिश्रेष्ठो - विवस्वानिव तेजसा । शिष्यवृन्दसमायुक्तो - गुरुः श्रीरवि सागरः ॥ २५ ॥ गुरूणामागमं श्रुत्वा, सङ्घीभूय समुत्सुकः । पुरं प्रावेशयत्संघः पताकाभिरलङ्कृतम् ॥ २६ ॥ उपाश्रयं समागत्य, गुरुणा देशनाक्षणम् । विज्ञाय विदधे धर्म देशना पापनाशिनी ॥ २७ ॥ भन्या ! भवे मानवजन्म दुर्लभं विज्ञाय धर्म जिनपुङ्गवोदितम् । विधत्त येनाशु दयाविकस्वरं, स्वर्गापवर्गस्य निदानमुत्तमम् ॥ २८ ॥ पुनः स धर्मो द्विविधः प्ररूपितो- जिनोत्तमैः श्राद्धमुनीन्द्रभेदतः । आद्यस्तयोर्देशविरत्यभिख्यया, तथान्तिमः सर्वतएव कीर्त्तितः ।। २९ ।। निमज्जतां संसृतिवारिधौ महा- मोहग्रहव्याप्तजले तरण्डकम् । चारित्रधर्म शिवसौदीपकं गृह्णीत सद्यः सुखसंपदालयम् ॥ ३० ॥ दयाविशालः खलु जैनधर्मः, सर्वेषु धर्मेषु दया प्रधाना । दयाविहीनः स तु निष्फलोऽस्ति, तस्माद्विधेया सुतरां दया सा ॥ ३१ ॥ Acharya Shri Kailassagarsuri Gyanmandir निशम्यैतां सुधासिक्तां गिरं सद्गुरुखोदिताम् । केचिच्छ्राद्धव्रतं केचित्सम्यक्त्वं जगृहुर्मुदा ॥ ३२ ॥ भव्यात्मा द्विचरः पीत्वा, सद्गुरोर्वचनाऽमृतम् । आसन्नसिद्धिको जज्ञे, चारित्रग्रहणोत्सुकः ॥ ३३ ॥ श्रयमेव गुरुर्मेऽस्तु संसारोदधितारकः । इत्यभिग्रहमाधाय स ययौ स्वनिकेतनम् ॥ ३४ ॥ १ सूर्यः [8] For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir ततो विद्यापुरं प्रागाव, भ्रात्रनुज्ञाकृते सुधीः । क्षीणकर्मगतिः पश्चा-दाययौ तत्र पत्तने ॥ ३५ ॥ तावदायुः समाप्तिं स्वां, विज्ञाय रविसागरः । पद्मासनस्थितः श्रीमान् , समाधिस्थजितेन्द्रियः ॥ ३६ ॥ चमयित्वा जीवराशि, कृतनिर्यामणक्रियः । गच्छभारं समादिश्य, स्वशिष्यं सुखसागरम् ॥३७॥ स्मृतपश्चनमस्कारो-जगाम स्वर्गिणां पदम् । गुरुभक्तिरतेनाग्नि-संस्कारश्चन्दनैः कृतः ॥३८॥ संघन मिलितेनैव,-मष्टाहिकमहोत्सवाः । व्यधीयन्त जिनेन्द्राणां, मन्दिरेषु महर्द्धिकाः ॥ ३९ ॥ कलापकम् ।। क्रियायोगचणः शान्तः, सद्गुरुः सुखसागरः। विहारं कृतवाँस्तस्मा-त्तिष्ठत्येकत्र नो मुनिः॥४०॥ धरित्री पावयन् पाद-क्रमणैमुनिपुङ्गवः । प्रह्लादेनपुरं प्राप, ध्वजतोरणराजितम् ॥४१॥ गुरौ दिव्यालयं प्राप्ते, विरहार्दितमानसः । द्विचरोप तदास्थानं. नामन्यत मनःप्रियम् ॥ ४२ ॥ सुखाब्धि श्रीगुरुं श्रुत्वा, प्रह्लादनपुरस्थितम् । स्वयं तत्रागमत्सद्य-चारित्रग्रहणेच्छया ॥४३॥ गुरूणां सबिधौ तिष्ठन् , विज्ञातमुनिशिक्षकः। निजेच्छां दर्शयामास, स भवोच्छेदकारिणीम् ॥ ४४ ॥ द्वीपेन्द्रियनिधिक्षोणि ( १९५७ ) प्रमिते वैक्रमेऽन्दके । मार्गशीर्ष सितेपचे, पक्ष्यां चन्द्रजवासरे ॥ ४५ ॥ गुरुणा गुरुमोदेन, संपेन विहितोत्सवम् । दीक्षितः स विशुद्धात्मा, शासनोन्नतिहेतवे ।। ४६ ॥ युग्मम् ॥ बुद्धिपाथोधिरस्तीति, बुद्धिसागरसंज्ञया । आजुहाव गुरुः संघ-साधिकं तं महामुनिम् ॥४७॥ तीर्थयात्रां वितन्वानः, शिष्यवृन्दसमन्वितः । गुरुः पवित्रयन्पृथ्वी, जबाम सूर्यपचनम् ॥४८॥ १ कुशलः, २ पालणपुरं. ३ बुध. ४ सुरत. wimanan-noundancernsunanimoonomenon------winnarnirmwarwwwwwwwwwwwwremiummonomen For Private And Personal use only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobauhog Acharya Shri Kailassagersuri Gyanmandir manoamiamine तत्रत्यजैनसंघेन, महोत्सवपुरःसरम् । गुरूणां कारितं भूरि-मोदात्पुरप्रवेशनम् ॥ ४९ ॥ पण्डितैः सह संपर्क, कुर्वन् श्रीबुद्धिसागरः । बृहस्पतीयतेस्माशु, सद्बुमा मुनिवनमः ॥५०॥ तदानीं मोहनमुनि-मुनिवर्यः स्वशिष्ययुक् । आसीत्तत्र जनवात-धर्मबुख्या निषेवितः ॥५१॥ तेषां महात्मनां योगः, संजातो मोदवर्धकः। अनुरागः शुभो जज्ञे, तस्मिन्सिद्धान्तवेदिनि ॥५२॥ अन्यदा मोहनमुनि-ाख्यानसमये स्वयम् । भृण्वत्सु संघलोकेषु, मुदाऽऽचख्यावितिस्फुटम् ॥ ५३॥ भाव्ययं विबुधख्यातः, शासनस्य प्रभावकः । माननीयो मुनीनां वै, सर्वेषां बुद्धिसागरः ॥५४॥ भव्यान्प्रबोधयन्भूरीन्, ततोऽगादाजपत्तनम् । तत्रत्यजैनसंघेन, प्रार्थितो मुनिपुङ्गवः ॥ ५५ ॥ शासनोबतिमातन्व-श्चातुर्मास्यमकल्पयत् । ग्रन्थसन्ततिमातेने, स्वपरोपकृति स्मरन् ॥६॥ अध्यात्मतत्त्वविद्विज्ञो-योगविद्याविशारदः । काव्यकेलिरतप्रज्ञो-मुनिवर्यो व्यराजत ॥५७।। पुनः सूर्यपुरे चातुर्मासी स्थित्वा मुनीश्वरः । संघाग्रहण भव्यानां, मनोभीष्टमपूरयत् ॥ ५० ॥ जीवनादि महेभ्यानां, पूरिता कल्पना शुभा । समाधियोगतत्त्वानि, विस्तार्य तेन योगिना ॥ ५ ॥ तन्मुनीन्द्रप्रभावज्ञो-भव्यसंघनिमन्त्रितः । मुम्बापुरी यपो भव्या-भोजमुकल्लयन्मुनिः ।। ६० तत्रत्यजनतामोदं, वर्द्धयन् मुनिपुङ्गवः । स्वशिष्यपरिवारेण, संजुष्टचरणाम्बुजः ॥६१॥ विदुषां संशयान् छिन्दन , बोधयन् धर्मकाविणः नास्तिकाँश्च निराकुर्वन् , धर्ममार्ग प्रदीपयन् ॥१२॥ १ अमदावान. २ बुद्धिसागरः ३ धर्मचन्द्रात्मनजीवणचन्द्र. and. comcapos For Private And Personal use only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir चातुर्मासी शुभामेका, व्यनैषीत्करुणामयीम् । धनाध्यक्षमहेम्यानां, मनस्तोषविधायिनीम् ॥ ६३ ॥ भव्योवीं स ततः सिञ्चन् , सद्बोधामृतधारया । ससाद पुरं पाद्रा-ख्यातं शिष्यसमन्वितः ॥ ६४ ॥ स्वेन संस्थापितं तस्मि-अध्यात्मज्ञानमण्डलम् । ज्ञानेन विशदीकृत्य, दीपयामास योगिराद् ॥ ६५ ।। मोहनादिमहेभ्यानां, तत्त्वजिज्ञासुचेतसाम् । अभीष्टं पूरयामास, योऽध्यात्मज्ञानभास्वरः ॥६६॥ योगीन्द्रः स विदांश्रेष्ठः, ततोऽगावटपत्तनम् । भक्तिभारनताङ्गेन, सङ्घन विहितोत्सवम् ॥ ६७॥ अमात्यप्रमुखाः सर्वे, विद्वांसः श्रुतकीर्तयः । विधाय दर्शनं येषां, परमं मोदमासदन ॥६॥ गुजरेन्द्रमहीपेन, तद्वयाख्यानपिपासुना । प्रार्थितो यो मुनिर्भव्य-राजसब व्यभूषयत् ॥६६ ॥ व्याख्यानं नैतिकं दत्तं, गुरुणा तत्त्वसंभृतम् । निशम्य मस्तकं कोऽपि,नाऽधुनोदिति नो तदा ॥ ७० ॥ क्रमेण विहरस्तस्मा मुनीन्द्रः स समागमत् । संपदा निलयं जैनैः, पेथापुरपुरं श्रितम् ॥७१। कतिचिद्वासराँस्तत्र भन्याम्भोजदिवाकरः । स्थित्वा यो धर्मबोधेन, तारयामास देहिनः ।। ७२ ॥ तत्रत्यजैनसंघेन, संघीभूय सुमन्त्रितम् । आचार्यपदयोग्योऽयं, गीतार्थमुनिसत्तमः ॥७३॥ विद्याविशारदानाच, नानापत्तनवासिनाम् । विदुषामागतां श्रुत्वा, संमति हि तथाविधाम् ॥ ७४ ॥ निश्चयामासिवान् संघः, प्रमोदमेदुराशयः । सूरिपदं प्रदातव्यं, योग्यायास्मै चतुर्विधः ॥७५ ॥ नभोद्दीपनिधिक्षोणी-मिते (१९७०) वैक्रमवत्सरे । मार्गशीर्षसिते पचे, पूर्णिमाश निवासरे ॥७६ ॥ १ ज्ञान प्रसारक-२ हेमचंद्रात्मज मोहनलाल. ३ सयाजीराव गायकवाड. For Private And Personal use only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir बलिष्ठयोगसंपने, सुमुहूर्ने विजित्त्वरे । सूरिपदाभिषेकोऽभूत् ,-मुनिराजस्य योगिनः ॥७७ ॥ जयघोषं वितन्वानाः, शासनोन्नतिशंसकाः । विबुधा नागराः संघा-दूरदेशनिवासिनः ॥७८॥ तदानीं स्तुतिमातेनु-स्तद्गुण रञ्जिताशयाः । शासनं दीपयामास, सूरिवर्यः स बुद्धिमान् ।। ७९ ॥ अथेलर्षिरसक्षोणि-मिते (१९७२) वैक्रमहायने । सानन्दपत्तनेऽवात्सी-चातुर्मासी मुनीश्वरः ॥२०॥ पन्यासवीरविजयः, शिष्यवृन्दसमन्वितः । जैनतवसुधासारै-चोभिर्बोधयञ्जनान् ॥१॥ अन्येऽपि मुनयस्तस्थु-र्योगोद्वहनहेतवे । श्रीमन्नजितपाथोधि-प्रमुखास्तदनुज्ञया ॥२॥ श्रीमत्सागरसंघस्य, गुरुत्साहेन कारिता । तेन श्रमणपूज्येन, उपधानतपः क्रिया ॥३॥ अक्षिद्वीपाङ्कभूमीयुग (१९७२) बरेवैक्रमे शुभे । मार्गशीर्षमिते पक्षे, पञ्चम्यां शनिवासरे ॥४॥ पन्न्यापदमायच्छ-दजिताब्धितपस्विने । यथोक्तविधिना प्रातः, श्रीलाभविजयाय च ॥५॥ तस्मिन्नेवक्षणे मूरि-र्योगीन्द्रो बुद्धिसागरः । सर्वगच्छेषु माध्यस्थ्यं, विभ्रद्धर्मभृतां वरः ॥८६॥ संघाग्रहेण योग्याय, वीरविजयसाघवे । प्राचार्यपदवी प्रादात् , सिद्धान्तागमवेदिने ॥८॥ गोधावीपत्तनेऽथ श्री-जैनसंघप्रमोदतः । सूरीश्वरेण तेन श्री-गौतमस्वामिनः प्रभोः ॥८॥ प्रतिष्ठाऽक्रियत श्रेयः-संपत्तिप्रथनोत्कटा । तदञ्जनशलाका च, जिनबिम्बैः सहाद्भुतैः ॥८९॥ ततः पवित्रयन्भूमि, क्रमात्सूरीश्वरः सुधीः । शिष्यवृन्दसमायुक्तः, प्राप्तिपत्तनमाययौ ॥ ९ ॥ १ प्रांतिज. For Private And Personal use only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [4] ॥ ९४ ॥ रिपदस्य योग्योऽयं, पन्न्यासपदवीधरः । अजितोदधिरस्तीति, गीतार्थगुणसंभृतः ॥ ९१ ॥ विदित्वा सूरिया तस्मै, निजशिष्याय धीमते । व्योमसिद्धिनिधिमा (१६८०) युक्, वत्सरे बैक्रमे शुभे ॥९२॥ माघशुक्लदशम्यां च गौ सूरिपदं ददे । प्रवर्तकपदं चैव मुनिश्री - ऋद्धिसिन्धवे ॥ ९३ ॥ विशेषकम् ॥ ततोऽगात्सूरिवर्यः स - विद्यापुरमनन्यधीः । उपदेशसुधावृष्ट्या, भव्यावनीम सीषिचत् गुरूपदेशतः संघ, स्तत्रत्यो धृतसंमदः । विहितज्ञानसद्भक्ति-निर्ममे ज्ञानमन्दिरम् ॥ ९५ ॥ निजायुः शेषकं ज्ञात्वा, सूरीशः स विदांवरः । ग्रन्थाँश्विकिर्षितान् पूर्वी - चकार क्रमशः समान् ॥ ९६ ॥ विहरन्मधुपुर्या स जगाम सूरिपुङ्गवः । महेम्यान योजयामास धर्मकर्मणि बोधयन् ॥ ९७ ॥ जैन चैत्योद्धति कृत्वा, प्रतिष्ठोत्सव पूर्वकम् । घण्टाकर्णमहावीर, -स्थापनां कृतवान् सुधीः ।। ९८ ।। आसन्नमरणं ज्ञात्वा, तत्रैव तस्थिवान् पुरि । ज्ञानध्यानसमाधिस्थः कियन्तं कालमत्यगात् ॥ ९९ ॥ विद्यापुरं पुनः प्राप्य, श्रीसंघाग्रहतः स्वयम् । सूरीशोऽनशनं भेजे, श्रेयः श्रेणीसमीहया ॥ १०० ॥ भूसिद्व्यङ्कघरायुक्ते (१६८१) वैक्रमाब्दे शुभे शुंचौ । कृष्णपचे तृतीयायां, प्रभाते भौमवासरे ॥ समाधिना श्रियं भेजे, कृतनिर्यामणाक्रियः । स्वर्गियां जैनसिद्धान्तं प्रदातुमिव सच्चरम् ॥ देशान्तरीयलोकानां, संहतिस्तत्र संगता | श्रुत्वा निर्यामयांसूरे-गुरुभक्तिसमाहृता ॥ चन्दनागुरुकाष्ठानां, रचिता महती चिता । सूरीशदेहसंस्कारो विहितः संघसज्जनैः ॥ १ महुडी. २ ज्येष्ठे. १०१ ॥ For Private And Personal Use Only १०२ ॥ १०३ ॥ १०४ ॥ Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir amanamannamannmaniawww स्वर्गलोकं गते सूरौ, निष्प्रभेव वसुन्धरा । संघलोकाश्च संजाता-वेदनाव्यथिताशयाः ॥१०५॥ दानानि विविधान्यासन् , दानवीरकृतानि च । दुःस्थिता दुःखसंत्यागं, विधाय मेनिरे सुखम् ॥ १०६ ॥ जिनचत्येषु सर्वत्र, विहिताष्टाह्निकोत्सवाः । महेभ्या गुरुसद्भक्त्या, धर्मकर्मरता बभुः ॥ १०७॥ समाधिमन्दिर तत्र, भव्यं संस्कारभूतले । कारयामास सकलः, संघः सद्गुरुसेवया ॥ १०८ ॥ मृत्तिः प्रतिष्ठिता तत्र, स्वर्गिणां चित्तहारिणी । महामहोत्सवं कृत्वा, संघकल्याणहेतवे ॥१०९॥ सूरीश्वरकृता ग्रन्था-अष्टोत्तरशताधिकाः । विलसन्ति सुभव्यानां, चिचेषु नितरां शुभाः ॥ ११० ॥ बुद्ध्यब्धिसूरिवर्यस्य, चरित्रं भूरिविस्तरम् । संक्षेपादिदमाचख्ये, सारभूतं तथाऽपि वै ॥ १११ ॥ भव्याम्भोजैकभानोः प्रथितगुणचयं चित्रमेतच्चरित्रं, सूरीन्दोवुद्धिसिन्धोश्चरणकजरतोऽध्यात्मविद्यासु लीनः । श्रीमानाचार्यवर्योऽजितसरिदधिपो निर्ममे भक्तिनमः, अध्यात्मज्ञानभूतिर्षिकसति विमला यत्प्रभावाजनेषु ॥ ११२ ॥ १ गुरुमूतिः २ सागरः. For Private And Personal use only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [१०] श्रीमहावीरजिनचैत्यवन्दनम् . ॐ श्रीमहावीर ! वर्धमान जिनेश्वर ! शान्ति तुष्टिं महा पुष्टिं कुरु स्वेष्टं दुतं प्रभो ! सर्वदेवाधिदेवाय नमो वीराय तायिने । ग्रहभूतमहामारी, द्रुतं नाशय नाशय सर्वत्र कुरु मे रच, सर्वोपद्रवनाशतः । जयं च विजयं सिद्धिं कुरु शीघ्रं कृपानिधे ? त्वन्नाम स्मरणादेव ! फलतु मे वांछितं सदा । दूरीभवन्तु पापानि, मोहं नाशय वेगतः ॐ ह्री महावीर - मंत्रजापेन सर्वदा बुद्धिसागरशकीनां प्रादुर्भावो भवेद् ध्रुवम् For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ 11811 ॥ ५ ॥ Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॐ श्रई श्री महावीरायनमः श्रीमद् बुद्धिसागरसूरीश्वर विरचिताश्रीप्रेमगीता प्रारभ्यते ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रणम्य श्रीमहावीर, लोकानां हितकाम्यया । शुद्धप्रेमस्वरूपं यत्, किञ्चिद् वच्मि विवेकतः ॥ १॥ यत्रात्मा दृश्यते शुद्धः, सच्चिदानन्दलक्षणः । आसक्ति यंत्र नैवाऽस्ति, शुद्धप्रेमाऽस्ति तत्र हि । २ । सर्वजातीयदेहेषु, जीवा देवाः स्वभावतः । तत्सार्द्धमात्मवत प्रेम, पूर्णानन्दप्रकाशकम् ॥३॥ जिनेन्द्राः सर्वजीवाःस्यु - स्तत्रात्मैक्येन वर्त्तनम् । परप्रेम विबोद्धव्यं, शुद्ध ब्रह्मरसात्मकम् ॥४॥ कलौ प्रेममयो धर्मः, सर्वत्र मुक्तिदायकः । रागेण संयमो बोध्य-श्चारित्रिणामपि ध्रुवम् ॥ ५ ॥ प्रेम्णा धर्मस्य संवृद्धिः, प्रेम्णैव देवपूजनम् । प्रेम्णैव सद्गुरोः पूजा, प्रेम्णा विश्वं रसात्मकम् ॥६॥ जगच्छून्यं विना प्रेम्णा, नीरसं बहिरन्तरम् । लोकानां सर्वदा प्रेम, स्वान्तरबाह्यजीवनम् ॥७॥ बाह्यनैमित्तिकोरागो-वैषयिको विनश्वरः । श्रात्मज्ञानविहीनानां, भवत्येव जडात्मनाम् ||८|| [ १ ] For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २ ] ऐक्यं सर्वात्मभिः सार्द्ध-मनुभूयेत वस्तुतः । तत्प्रेमैव महाब्रह्म - रसाऽनुभवदायकम् ॥ ६ ॥ सर्वजातीयजीवानां, देहमन्दिरवासिनाम् । आत्मवद्दर्शनं नित्यं, विशुद्धप्रेमतो भवेत् ॥१०॥ सर्वदोषा लयं यान्ति, शुद्धप्रेमप्रभावतः । यत्र यत्र भवेत् प्रेम, तत्र तत्र न दुष्टता ॥११॥ सर्वव्यापकरागेण, निन्दादिदोषसंक्षयः । प्रशस्यप्रेम पुण्याय, मोक्षाय च मनीषिणाम् ॥१२॥ प्रशस्येन रागेण, भवे दुःखपरंपरा । सर्वदुःखविनाशाय शुद्धप्रेम कुरुष्व भोः ? ॥१३॥ प्रेम्णा गुणाः प्रजायन्ते, सत्प्रेमैव महातपः । सत्प्रेमैव महायोगो - मैत्र्यादिभावमूलकम् ॥ १४॥ शुद्धप्रेमैव सीताऽस्ति, स्वात्मारामः सनातनः । आत्मा कृष्णो हरि वीरो - राधाप्रेमैव भाखती ॥१५॥ पृथ्वीरूपाऽस्ति सत्प्रीति-धर्मयोनिर्हिशाश्वती । नभोरूपः सदात्माऽस्ति, ज्ञानलिङ्गः सनातनः॥ शुद्धात्मैव महादेवः, सत्प्रीतिः पार्वती शुभा । जीवानां देहरूपेषु, मंदिरेषु विराजते ॥ १७॥ स्वाऽर्पणं प्रेमयोगेन मुक्तिः सात्त्विकरागतः । शुद्धप्रेमविहीना ये, निर्जीवा नीरसा जनाः | १८ | प्रेमरूपाऽस्ति सद्भक्ति-रात्मवद् विश्वदर्शिका । पिण्डब्रह्माण्डयोरैक्यं, जायते नैव संशयः॥१६॥ श्रात्ममनःशरीरेषु, प्रेमाविर्भावता भवेत् । मानन्दोल्लासरोमाञ्चो-द्रवस्तेन प्रजायते ॥ २० ॥ For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir प्रेममूलं सुदाम्पत्यं, मित्रत्वं धर्मभावना । सम्बन्धाश्वविबोद्धव्याः, सम्यक्त्वर्धमेहतवः ॥ २१ ॥ दयादिधर्मभावानां मूलं प्रेमाऽस्ति भूतले । देवगुर्वादिषु प्रेम, जायते भव्यदेहिनाम् ॥२२॥ शुद्धप्रेम तथा ज्ञानं, सर्वदोषनिवर्त्तकम् । ज्ञानं शुष्कायते प्रेम्णा, विना सर्वत्र सर्वदा ॥ २३ ॥ कृत्रिमं प्रेम संतज्य, सत्यप्रेम भजख भोः? सात्त्विकं प्रेम लब्ध्वा त्वं, यास्यसि शाश्वतीं गतिम२४ अगम्यः प्रेमधर्मोऽस्ति, केचिज्जानन्ति योगिनः। जानतामपि लोकानां, कश्चित्तं याति वस्तुतः २५ शुद्धानन्दो न यत्रास्ति, तत्र प्रेमविकारता । विशुद्धप्रेम यत्राऽस्ति, तत्रानन्दः स्फुटो भवेत् ॥ २६ ॥ विशुद्धप्रेमतानस्य, प्राकट्यं प्रेमयोगिनाम् । हृत्सु संजायते रूप - वित्तादिमोहमन्तरा ॥२७॥ परस्परं हि लोकाना-मैक्यं भवति रागतः । आत्मपरात्मनोरैक्यं, भवेत्प्रेम्णा सुयोगिनाम् ॥ २८ ॥ सत्यप्रेम्णा भवेच्छ्रद्धा, सामर्थ्यं जायते हृदि । सर्वयोगेषु सत्प्रीतिः, श्रयते सर्वसद्गुणान् ॥२६॥ सत्यप्रेमिजनानां स्यात्, स्वार्पणं तु परस्परम्। मत्तद्भेदो न संबन्धे, सोऽहं सोऽहं परस्परम् ॥३०॥ त्वमेवाहमहं त्वं च, त्वन्मद्भावो न विद्यते । शुद्धप्रीत्या पराणांतु, निर्विकल्परसोदधिः ॥ ३१ ॥ निर्विकल्पमहाप्रेम-रसानुभवयोगतः । साक्षाच्छुद्धात्मसंवेदात्, प्राप्तव्यं नावशिष्यते ॥ ३२॥ [३] For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir K AJALA [.] शुद्धप्रेमरसास्वादे, कृते निर्भयताऽऽत्मनि । जायतेऽनुभवःसाक्षा-देवते प्रेमयोगिभिः॥३३॥ लोकसंज्ञामपाकृत्य, शास्त्रसंज्ञां तथा पराम् । शुद्धप्रेमणि संखीनः, प्रेमवानाजते सदा ॥३४॥ सत्यप्रेमिजने कृत्वा, नामरूपसमर्पणम् । उन्मनीभावमारुह्य, प्रेमी शुद्धात्मतांश्रयेत् ॥३५॥ निर्विकल्पं परब्रह्म, शुद्धप्रीत्याऽनुभूयते।अशुद्धाःप्रेमसंबन्धा-यत्र यान्ति लयं ध्रुवम् ॥३६॥ शुद्धसिद्धात्मदेवस्य, प्रत्यक्षं दर्शनं भवेत्। निर्विकल्पमहाप्रेम-योगेन प्रेमयोगिनाम् ॥३७॥ सत्यप्रेमणि संप्राप्ते, शङ्का नास्ति परस्परम् । देहवित्तादिसंमोहो-यत्र तिष्ठति नो कदा॥३८॥ सत्यप्रेम विना लग्नं, जायते न परस्परम् । कायलग्नमहत्ता तु, यत्र किञ्चिन्न विद्यते ॥३६॥ प्रेम्णस्तु मौनभावोऽस्ति,हृद् द्वारेण प्रकाशतेोदिव्यप्रीत्या प्रतिज्ञाया-अभावोऽस्ति निसर्गतः४० सत्यप्रीत्याञ्चयात्राऽस्ति,भेदायाःसन्ति नो हृदि। आज्ञांबिनाभवेत् कृत्यं, द्वेषाद्यायान्तिनष्टताम् शाम्यति नैव वैरेण, वैरंप्रत्युत वर्द्धते।प्रेम्णैव वैरनाशोऽस्ति,सर्वथा प्रत्ययः सताम्॥ ४२ ॥ शुद्धप्रेमिमहावीर-देवेनाऽहिः प्रबोधितः । करा अपि क्षमा यान्ति, शुद्धप्रेमप्रभावतः ॥४३॥ दुष्टवैरिजने येतु, कुर्वन्ति प्रेमभावनाम् । प्रान्ते संत्यज्य वैरं ते, भवन्ति प्रेमबन्धवः ॥४॥ For Private And Personal use only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairthorg Acharya Shri Kailassages sur Gyanmandit प्रेमशक्तिसमा शक्ति-रपरा न जगन्नये । प्रेमाकर्षणयोगेन, स्वकीयं जायते जगत् ॥४५॥ राजसं तामसं प्रेम, सात्त्विकं च निबोधत।सात्त्विकं हृदि संधृत्य, पूर्णानन्दं भजस्व भोः?॥४६॥ प्रतिदानस्य संकल्पो-जायते न कदाचन । उच्चनीचादयोभेदा-लयं यान्ति समत्त्वतः ॥४७॥ प्रतिज्ञापालनं पूर्ण, प्रेम्णैवजायते सताम् । निरवधिमहाप्रेम, पूर्णब्रह्म सदुच्यते ॥ ४८ ॥ पर्णप्रेम परब्रह्म, पूर्णज्योतिर्मयः स्वयम्। निर्विकल्पात्मनावेद्यो-विरागेण निजात्मनि॥६॥ अज्ञानिना न संवेद्यः, संवेद्यः प्रेमयोगिना । शुद्धप्रेममयं ब्रह्म, स्वेनानुभूयतेस्वयम् ॥५०॥ परब्रह्म परंज्योति-महावीरोजिनेश्वरः। स्वयमात्मा वपुःस्थोऽयं,शुद्धप्रेम्णा प्रकाशते॥५१॥ भाकर्षकं महाप्रेम, सर्वग्रहप्रवर्तकम् । लयसर्गकरं प्रेम स्वयं स्वेनानुभूयते ॥ ५२॥ शुद्धात्मा श्रीमहाब्रह्म, प्रेम्णैव व्यज्यतेप्रभुः। ब्रह्मविष्णुमहेशानां, पूर्णप्रेमनियामकः ॥५३॥ व्यापक सूक्ष्मरूपेण,प्रेमैव स्वान्तरप्रभुः। अविश्वासोन यत्राऽस्ति, निश्चय प्रेमत स्वयम्॥५४॥ धूर्तानां प्रेमचेष्टासु, सत्यप्रेम न विद्यते।नास्तिकैर्मूढलोकैश्च,सत्यप्रेमी न वञ्च्यते ॥५५॥ प्रेम परीक्ष्यते प्रेम-योगिना परया विदा। परायां भासते सत्यं, सत्यप्रेम्णैव सद्धृदि ॥५६॥ For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir सेवाभक्ति भवेत् प्रेम्णा, वैयावृत्यं तथा शुभम्। प्रवृत्तीनां महामन्त्री, निवृत्तीनां तथा ध्रुवम् ॥ धर्मप्रचारकं प्रेम, सर्वजातीयजीवनम्। जीवेत् प्रेम विनानैव,जैनधर्मः सनातनः ॥ ५ ॥ धर्मरुच्यादिपर्यायाः, प्रेम्णोवाच्या विवेकतः।व्यभिचारादिलाम्पव्यं, काममोहोद्भवं खलु ।५९|| देहवित्तादिके स्वार्थे, सत्यप्रेम न संवसेत्। विद्यारूपादिके शुद्ध-प्रेमवासोन संभवेत् ॥३०॥ दुष्टकामो न यत्राऽस्ति, तत्र प्रेमप्रकाशता । धर्म्यप्रेम जगद्धर्म-स्थापकं सर्वशक्तितः ॥६॥ दोषाः सन्ति न सत्प्रीत्यां, नैवास्ति कामवासना।कामादयस्तुमोहेन, पुंवेदात्संभवन्ति यत्॥ पुवेदादिकमोहस्य, नाशोऽस्ति प्रेमशक्तितः।मनोवाकाययोगाना, पावित्र्यं प्रेमयोगतः ॥३॥ गुणानां दर्शनं यस्मा-दुर्गुणानां न कर्हिचित्।सद्गुणानांप्रचारोऽस्ति,तस्मात् प्रेम भजस्व भोः? प्रेम्णा शारीरमारोग्यं,शोकभीत्यादिसंक्षयः। प्रेम्णा प्रभुकृपासिद्धिः, सद्गुरूणां तथा भवेत्॥ प्रेम्णा क्लेशविनाशोऽस्ति, मनःसाम्यं भवेत् सताम् । सत्यप्रेम न यत्राऽस्ति, तत्रशुष्कं मनः खलु ज्ञानिनांप्रेम संबन्धः, प्राणान्तेऽपिनभिद्यते।देहवित्तादिनाशेऽपि, सत्यप्रेम न नश्यति ॥६॥ पूर्णदुर्भाग्यसंप्राप्तौ, मृत्युकालेऽपिसज्जनाः। सत्यप्रेम न मुञ्चन्ति, धूर्तकोटिप्रलोभनैः ॥८॥ For Private And Personal use only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir omen M www.newsairinIRATRAILanAAII मनोवाकायसंमेलः, सत्यप्रेम्णा परस्परम् । सर्वत्र सत्यलोकानां, जायते नैव संशयः ॥६६॥ | मनोवाकाययोगाना-मैक्यं नृणां परस्परम् । दिव्यस्वर्गस्य संप्राप्तिः, प्रेम्णाऽत्र भवति स्वयम् पारिणामिकभावस्तु, शुद्धप्रेमेव देहिनाम् । चारित्रमान्तरं ज्ञेयं, प्रेमैव रसनायकैः ॥७१॥ आनन्दं परमप्रेम, रागद्वेषविवर्जितम् । पूर्णरसं तु सत्प्रेम, प्राप्याऽन्यन्नावशिष्यते ॥७२॥ दृष्ट्वा परस्परं नृणां, यत्सुखं जायते हृदि । प्रेमैव तत्तु संबोध्यं, निरपेक्षं सदा भवम् ॥७३॥ शुद्धप्रेमरसः स्वात्मा, यं प्राप्य प्रेमयोगिनः। आनन्दाऽद्वैतभावेन, तिष्ठन्ति निर्भयाः सदा॥७४॥ उत्तिष्ठत जनाः? प्रेम्णा, सर्वत्र प्रेमभावनाम्। भावयन्तु विवेकेन, सर्वमङ्गलदायिकाम् ॥७॥ शुद्धात्मैव महाप्रेम, ज्ञायते येन योगिना । तेन प्राप्तं जगत्सर्व, विश्वब्रह्मविलोकिना ॥७६॥ पूर्णप्रेममयं ब्रह्म, जानन्ति सव्यपेक्षया। योगिन आत्मभावेन, साकारं च निरञ्जनम् ॥७॥ प्रेमरूपं जगत्सर्व, पश्यन्तु प्रेमयोगिनः। नाऽप्रियं विद्यते किञ्चि-च्छुद्धप्रेमात्मयोगिनाम् ७८ सर्व प्रियं सतां हृत्सु, नाऽप्रियाः केऽपि देहिनः। प्रेमामिपक्कलोकानां,दशेयं जायते स्वतः।।७।। मनोवाकाययोगेषु, प्रेमावि वयोगतः। प्रभुरूपं जगत्सर्वं, दृश्यतेऽनुभवः स्वयम् ॥ ८० ॥ [७] For Private And Personal use only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir [<] देहभावे बिलीनेहि, प्रेमाविर्भावता भवेत् । साक्षात्कारं प्रभोरूपं, सर्वत्र दृश्यते तदा ॥ ८१ ॥ स्वाभाविकं भवेत्प्रेम, मोहस्तु कृत्रिमो भवेत् । आत्माकर्षकरूपेण, प्रेमाविर्भावता भवेत् ॥ ८२ ॥ काममैथुनरूपेण, काममोहोदयो भवेत् । आत्मस्वैक्य स्वरूपेण, प्रेम सर्वत्र राजते ॥ ८३ ॥ प्रेमाधीना हि देवाःस्यु- महाधीनास्तु राचसाः। मोहाधीनास्तुबाह्याः स्यु-रान्तराः प्रेमयोगिनः। स्थूलं सूक्ष्मं भवेत्प्रेम, स्वार्थिकं पारमार्थिकम् । दैशिकं व्यापकं बोध्यं मूर्त मूर्तमपेक्षया ॥ ८५ ॥ शुद्ध प्रेमानुभावेन, स्वात्मवत् सर्वदेहिनाम् । भवेत् सेवा स्वभावेन, तत्र किञ्चिन्न भेदता ॥८६॥ शुद्धप्रेमणि संजाते, समः सर्वत्र जायते । श्रात्माऽभिन्नं भवेत्तत्र, प्राकट्यं परमात्मनः ॥८७॥ प्रेम नैव दासत्वं, प्रभुत्वं नैव देहिनाम् । ऐक्यं समं प्रियं सर्व, भासते निर्विकल्पकम् ॥८८॥ रागद्वेषविकल्पास्तु, नामरूपादि संश्रिताः । अज्ञानेन समुत्पन्नाः, प्रेम्णा यान्ति लयं रयात् ॥ ८९ ॥ सर्वपदार्थसौन्दर्य, पश्यन्ति प्रेमतोजनाः । सर्वसौन्दर्यसौन्दर्य, प्रेम्णः सर्वत्र राजते ॥ ६० ॥ ॐकारः सर्ववर्णेषु, प्रेमरूपोऽस्ति सर्वथा । ह्रीं श्रीं क्लीं मन्त्रवर्णास्ते, प्रेमव्यञ्जकशक्तयः ॥११॥ प्रियं यत्तत्प्रभो रूपं, सर्वत्र सर्वथा सदा । अप्रियं यत्तुमूढानां तत् प्रियं प्रेमिणां हृदि ॥ ६२ ॥ For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobauhoto Acharya Shri Kailassagersuri Gyanmandir ..........wwwmummonwearAAwar प्रेम्णा प्रियं जगत्सर्व, पश्यन्तु प्रेमयोगिनः। रागाऽभावाद्विरागत्वं, तदा संजायते सताम् ॥६॥ भवन्तु प्रेमिणो लोका-भवन्तु नैव मोहिनः। शुद्ध प्रेमाऽमृतं पीत्वा, जीवन्तु विश्वजीवना।६४] परात्मैव भवेच्छुद्ध-प्रेम विश्वस्य जीवकः। प्रभुप्रेम विदित्वैवं, भवन्तु विश्वजीवनाः ॥१५॥ आत्मैव परमात्माऽस्ति, प्रेमयोगी प्रभुर्महान् । देहस्थोऽपि न यो देही, तं सर्वत्र विलोकय ॥६६॥ यस्मिन्सति प्रियं सर्व-मप्रियं यदभावतः। पश्यन्तु तं प्रियं लोका-आत्मानं प्रेमरूपकं ॥१७॥ आत्मनो नवधा भक्तिं, प्रेमरूपां सनातनीम् । कुर्वन्तु प्रेमिणो बाह्या-मान्तरां सर्वशक्तितः॥६८ आत्मानं पुरुषं विद्धि, प्रकृति तु स्त्रियं शुभाम् । प्रकृतिःप्रीतिरूपेण, विश्वात्मन्येव संवसेत्॥६६) सर्वजीवेषु सौन्दर्य-माकर्षकं विराजते । तत्तु प्रेमैव संबोध्य भवन्तु प्रेमिणो जनाः॥ १०॥ | सर्वत्र विलसद्यत्तु, सौन्दर्य प्रेमजीवनम्।व्यक्तं कुर्वन्तु भोलोकाः? आत्मज्ञानेन तद्धदि। १०१ भाव एव महाप्रेम, रुचिरेव न संशयः। गुणस्थानाऽधिरोहेषु, प्रेमैव प्रगतिप्रदः ॥ १०२ ॥ शुद्धभावो भवेत्सद्यः, शुद्धप्रेमैकभावतः । आत्मरमणरूपेण, शुद्धप्रेमैव बोधत ॥ १०३ ॥ लसत्यनेकरूपेण, आनन्दः सर्वदेहिषु । हर्षोल्लासादिरूपेण, सर्वत्र ब्रह्ममूर्तिमत् ॥ १०४ ॥ [९] ene For Private And Personal use only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१०] मोहमान विकारेषु, प्रेम किञ्चिन् न विद्यते । श्रात्मप्रेमोज्ज्वलं मन्त्रं, केचिज्जानन्ति पंडिताः १०५ विकासयन्तु सत्प्रेम, सर्वत्र सर्वदेहिषु । अमृता येन जायन्ते, लोका आत्मस्वभावतः ॥१०६॥ अन्तरात्मा भवेत्प्रेमी, पश्चाद्यातिपरात्मताम् । ज्ञानिषु तारतम्येन, शुद्धप्रेमसमुद्भवः ॥१०७ ।। सर्वजीवोपरिप्रेमा, यस्य जातो न वस्तुतः । तस्योद्धारो भवेन्नैव, विना प्रेम न पात्रता ॥ १०८ ॥ अहिंसा प्रेमयोगेण, भवत्येव न संशयः । गुणाधारमहाप्रेम, सर्वस्वार्पणकारकम् ॥ १०६ ॥ येषु प्रेम भवेत् सत्यं, स्वकीयांस्तान्निबोधत । मौनभावेन कर्तव्यं, भवत्येव न संशयः ॥ ११० ॥ संसारिणां विनाप्रेम, भवेद्दुःखं पदे पदे । सर्वसम्बन्धशून्यत्वं, शून्यत्वंचात्मनस्तथा ॥ १११ ॥ सत्यप्रेमविना जीवा - बुडन्ति मोहसागरे । शुद्ध प्रेमाऽर्हतांसेवा, कर्तव्याऽतोविवेकतः ||११२॥ मनोवाक्काययोगाना–मर्पणं प्रेमदेहिनाम् । परस्परं भवत्येव, सर्वत्र सर्वथा सदा ॥ ११३ ॥ एकान्तं नैवखेषु, प्रतिज्ञासु न वर्त्तते । ज्ञानी जानाति हृत्प्रेम, प्रेमी प्रेम परीचते ॥११४॥ हावभावेषु नैकान्तं, नैकान्तं मिष्टभाषणे । प्रेम नैसर्गिकं नृणा - मगम्यं वर्त्तते स्वयम् ॥११५॥ एकान्तेन न विद्वत्सु, सत्यप्रेमोद्भवो भवेत् । पूर्वभवस्य संस्कारा - लोकेषु तस्य संभवः ॥ ११६ ॥ For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi सर्वदेवेश्वरोवीरो-विनाप्रेम न रज्यति। अतः सत्प्रेम निष्कामं, प्रकाशयन्तु मानवाः ॥११७॥ ॐअहं प्रेमरूपाय, नमो वीराय तायिने। प्रभुप्राप्तिःकलौ प्रेम्णा, सत्यं तथ्यं वदाम्यहम् ॥११॥ वार्ता कुर्वन्ति चित्तानि, मौनेन यत्र जल्पनम्। नम्रीभूताः सदात्मानो-भवन्ति प्रेमशक्तितः॥११९/ कामभोगादिचेष्टासु, प्रेमशब्दोपयोगिता।कृता मूढजनैर्मोहा-द्धा हा?? तैलुण्टितंजगत्॥१२० कामोदयो भवेन्मोहात् , पुवेदादिप्रचारकः। पुंस्कामादिवियोगे तु, भवेत्प्रेमोदयो हृदि ॥१२१॥ प्रेमैवपरमं तेजः, सर्वत्रव्यापकं परम् । तल्लीनः सर्ववृत्तीनां, जेता भवति सर्वथा ।। १२२ ॥ शुद्धात्मा प्रेमशब्देन, वाच्य आनन्द रूपकः।प्रेमशब्दस्य वाच्यत्वं, ज्ञातव्यं नैव मैथुने॥१२३॥ मैथुनं न सदा प्रेयःक्षणिक कामवृत्तिजम्। आत्मरूपं भवेन्नित्यं, प्रेम सम्मेलनंपरम्॥ १२४॥ मन्मयस्तन्मयोभावो-मत्त दविनिर्गतः। अलौकिकं भवेत्प्रेम, वाचातीतं समाधिजम्।१२५॥ अहंस्वं वृत्तिभावाना-माविर्भावो न जायते। परप्रेम भवेत्तत्र, पूर्णानदस्य भोगतः ॥ १२६ ॥ पूर्णानन्देन पूर्णत्वं, प्रेमाऽवधूतयोगिनः । प्रेमाऽवधूतचेष्टासु, निर्दोषत्वं स्वभावतः ॥१२७॥ आकर्षकंमहाप्रेम्णि, पूर्णवीर्यमलौकिकम् । संवेद्यं प्रेमिभिः पूर्ण, यत्र तत्र यदा तदा ॥१२८॥ [११] For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१२] प्रेमिणां चक्षुषिज्योति - रलौकिकं प्रकाशते । दिव्यतेजोमयं सर्वं, सात्त्विकप्रेमयोगिनाम् १२६ प्रेमावस्थासु सर्वासु, निर्विकल्पा परास्मृता । मध्यमासविकल्पाऽस्ति, जघन्यादोषमिश्रिता १३० मुक्तिरसंख्ययोगेन भाविता सर्व दर्शिभिः । शुद्धप्रेममयैर्योगैः, शीघ्रं सर्वत्र देहिनाम् ॥ १३१ ॥ शुद्धप्रेम्णैव सम्यक्त्व - प्राप्तिपूर्वकमोक्षता । प्रेमपूर्वकचारित्रं, तत्पूर्वा मोक्षलाभता ॥ १३२ ॥ सर्व योगोपरिप्रेम, योगस्य मुख्यता कलौ । यं प्राप्य देहिनः सर्वे, जायन्ते सरसा जनाः ॥ १३३ ॥ प्रेमाविर्भावयोगेन, दुर्गुणानां चयो भवेत् । अतः प्रेमरसं पीत्वा, भवन्तु सुखिनो जनाः ॥ १३४ ॥ आत्मन्येव वसेत्प्रेम, स्वात्मरूपं प्रचक्षते । जडेषु प्रेमनास्त्येव, जानन्ति प्रेम योगिनः ॥ १३५ ॥ प्रकृतेर्यत्र सौन्दर्य, तत्र प्रेमविलासता । ज्ञानिनां ज्ञानतोवेद्या, मूढानां तत्र भोगता ॥ १३६ ॥ देहाद जीवसम्बन्धा-तत्र प्रेमसमुद्भवः । मृतदेहेषु न प्रेम, तत्रात्मनां वियोगतः ॥ १३७॥ आत्मज्ञानेन सौन्दर्य, जडेषु चेतनेषु च । तत्राऽद्वैतस्वरूपेण, प्रेम संजायते स्वतः ॥ १३८ ॥ आत्माद्वैतस्वरूपस्य, सापेचातो विवेकिनाम् । जडात्मैक्य स्वरूपेण, प्रेम सर्वत्र राजते ॥१३६॥ सत्प्रेमैव महाब्रह्म, सर्व जीवेषु वर्त्तनात् । हिरण्यगर्भदेवेशः, प्रेमात्मसंघशक्तितः ॥ १४० ॥ For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रेमात्मनां महासंघ- रूपोऽस्ति भगवान्स्वयम् । तदिच्छातो जगत्सर्वं वर्त्तते कर्मचक्रवत् ॥ १४९॥ विश्वप्रेमस्वरेणैव, विश्वचक्रं प्रवर्त्तते । शुद्धप्रेमस्वरेणैव रसः सर्वत्र देहिषु ॥ १४२ ॥ माता पिताप्रेम, प्रभुः प्रेम जगद्गुरुः । मित्रप्रेम कुटुम्बं च पुत्रः प्रेम वधूस्तथा ॥१४३॥ सर्वत्र रुचिताप्रेम्णा, सर्वजीवेषु जानताम् । प्रेमरूपं जगत्सर्वं जातं तस्य न शून्यता ॥ १४४ ॥ प्रेमाऽभावान्न शिष्यत्वं, गुरुत्वं च कदाचन । प्रेमाऽभावात्प्रभोर्भक्ति-जयते नैव देहिनाम् ॥१४५॥ यत्र प्रेम भवेत्तत्र, श्रद्धासं जायते सताम् । प्रेमाऽभावात्सुकार्याणां प्रवृत्तिर्नैव संभवेत् ॥ १४६ ॥ प्रेमाभावाद्भवेद्भेदो - यत्र तत्र स्वभावतः । प्रेम्णा नित्यात्मसंबन्धे, प्राणान्तेनैव भेदता । १४७ । यस्य प्रेममयी वाचा, पूर्णप्रेममयं मनः । पूर्णप्रेममयो देह - स्तस्यात्मा स्वर्गदेवराट् ॥ १४८ ॥ जातिं प्रेमभावस्य कुर्वन्तु सर्व देहिषु । स्वर्गरूपो हि संसारो-जायते येन सत्त्वरम् ॥ ९४६ ॥ मिष्टान्मिष्टतरं प्रेम, यत्रतत्राऽस्ति देहिनाम् । अलौकिकं भवेत्सर्वं, प्रेमिणां सर्व कर्मसु ॥ १५०॥ प्रेम्णो ज्ञानरसोऽस्त्येव, ज्ञानात्पूर्ण रसोदयः । अतो ज्ञानरस प्राप्तिः कर्त्तव्या प्रेमदेहिभिः ॥ १५१ ॥ ज्ञानतः सर्वसौन्दर्य, भासते सर्व वस्तुषु । ज्ञानरूपं हि सौन्दर्य - मात्मनि प्रेमरूपकम् ॥ १५२॥ [१३] For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir [१५] परस्परोपकाराय, सत्प्रेमेव प्रियंकरम् । प्राकव्यं तस्य कर्तव्यं, सर्वकर्त्तव्यकर्मसु ॥ १५३ ॥ सत्प्रेमणि वरं मृत्युः, प्रेमाऽभावेन जीवनम् । अमृतत्वं परं प्रेम, आत्मज्ञानेन लभ्यते॥१५॥ सर्वजीवैः सहप्रेम, मैत्रीभावाय जायते। ततः समत्त्वसंलाभात्, समाधिर्जायते सताम् ॥१५५॥ यत्रात्मैव परात्माऽस्ति, वेद्यतेऽनुभवः स्वतः। शुद्धप्रेम्णः समाधिस्तु,जायते नाऽत्रसंशयः॥१५६॥ पूर्वसंस्कारजं प्रेम, गुप्तं नैव कदा भवेत् । दृष्ट्वा परस्परं शीघ्र, प्रेमी प्रेम्णोपलक्ष्यते ॥१५७॥ मनोवाकायवित्तादि, तुच्छं नासामलादिवत्। स्वतन्त्रं सर्वदोत्कृष्टं,शुद्धप्रेम सदास्तुमः॥१५८॥ शुद्धप्रेमणि निर्दोष, विश्वं सर्वं खभावतः। वस्तुतस्तु स्वभावेन, ज्ञायते प्रेमयोगिभिः॥१५९॥ सर्वत्र प्रेमिभिर्दोषा-दृष्टव्या न परस्परम् । एकएव प्रभुर्वीरो विज्ञाय सर्वदेहिनाम् ॥१६०॥ कामादिवासनाजेता, प्रेमपात्रं भवेजनः। नीतिप्रेमप्रभावेण, मर्यादा प्रेमतां श्रयेत् ॥ १६१ ॥ परिपक्वमहाप्रेम्णो-व्यापकप्रेमजायते । व्यापकप्रेमलाभेन, भवेत्प्रेमी रसेश्वरः ॥ १६२ ॥ वैराग्यस्याऽपि वैराग्य-मास्तिकस्य विचारणा। प्रेमैव व्यापकं ब्रह्म स्तुवे पूर्णरसेश्वरम् ॥१६३॥ एकेन्द्रियादि जीवेषु, व्यापकाय नमोनमः। सर्वजातीय जीवेभ्यो नमः प्रेमविलासतः ॥१६॥ For Private And Personal use only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वजीवाः परात्मानः, सत्तया प्रेमरूपिणः । अतस्तेषां नमस्कारो - भवत्वेव मुदा सदा ॥ १६५ ॥ नमोऽस्तु सर्वजीवेभ्यः, प्रेम्णा सर्वत्र सर्वदा । आत्मैक्यं निर्विकल्पं य-तद्भूयाज्जैनशासनम् ॥ प्रेमपूर्वकचारित्र - धर्मास्तित्वं कलौ गतम् । अतः प्रेम्णैव चारित्रं, प्राप्यते सर्व साधुभिः ॥ १६७ ॥ विचारादधिकं प्रेम, यस्याचारे प्रवर्त्तते । तस्य प्रेमात्मनः शुद्धि - जयते कृपयागुरोः ॥ १६८ ॥ गुरोः कृपां विना नास्ति, हृदि प्रेमोद्भवः कदा | अतः स्त्रीपुरुषैः सेवा, कर्त्तव्या सद्गुरोः सदा ॥ १६६ ॥ गुरोः कृपाशिषा प्रेम-प्राप्तिर्भवति देहिनाम् । दर्शन ज्ञानचारित्र -- प्राप्त्या मोक्षो भवेत्ततः । १७०॥ शुद्ध प्रेमैवसद्धर्मः, सर्वत्र व्यापकः सदा । प्रत्यक्षो ज्ञानिभिर्वेद्या - महानभेद अन्तरः ॥ १७१ ॥ सर्वधर्मालयं यान्ति, सत्यप्रेमणि वस्तुतः। तत्प्राकट्यं प्रकर्तव्यं, जैनैः प्रेमाऽनुयायिभिः ॥ १७२॥ ॥ ब्रह्मप्रेमप्रतिकानि, सेव्यानिप्रेममार्गिभिः । प्रेममयं च सद्रूपं, प्रतिकं शर्मकारणम् ॥ १७३ ॥ शुद्ध प्रेम महाभक्तै- गतार्थ प्रेमिसद्गुरोः । श्राज्ञा सदैवमन्तव्या, सर्वस्वार्पणयोगतः ॥ १७४ ॥ सत्प्रमैव महाभक्ति-व्यपकदेवसद्गुरोः । कर्तव्या प्रेमिभिर्लोकैः, सद्गुरुक्तप्रबोधतः ॥ १७५ ।। सत्यं नैसर्गिकं प्रेम, सत्यप्रेमिसमागमे । गुप्तं नैव भवेत्कुत्र, प्रत्यक्षं वेद्यते जनैः ॥ १७६ ॥ [१५] For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir [ १६ ] प्रकृतिपारगन्तॄणां योगिनां प्रेमवेदनम् । शुद्धब्रह्मतयासाचा - द्भवत्येव न संशयः॥ १७७ ॥ प्रकृतिप्रीतिमातृत्वं, यस्यात्मनि प्रकाशते । कामभोगादिसंकल्प - नाशस्तस्य प्रजायते ॥ १७८ ॥ सर्वत्र व्यापक प्रेम, नैवाऽन्यत्र परिभ्रम | आत्मन्येवपरप्रेम - प्रकाशो जायते सताम् ॥ १७९ ॥ सर्वतीर्थमयं प्रेम, विद्यते सर्वदेहिषु । भक्त्या सर्वत्र जीवानां, प्रेमब्रह्म प्रकाशते ॥ १८० ॥ वीरस्य प्रेमनामैव, संबोध्य भक्तिभाजनैः । महावीरार्हतः पूजा, कर्त्तव्या सर्वकर्मभिः ॥ १८९ ॥ दयावात्सल्यरूपाणि, प्रेम्णः सर्वत्रबोधत । सर्वत्र सर्वलोकेषु, प्रेम चिन्तामणीयते ॥ १८२ ॥ शाब्दिका तार्किकाः शुष्काः शुद्धप्रेमविना हहा ? । शुद्धप्रेमविना ब्रह्म, कस्यनैव प्रकाशते । १ ८३ ॥ शुद्धप्रेमविना बुद्धि-नरसा खेददायिनी । ज्ञात्वैवं हृद्यसत्प्रेम, सेव्यं भक्तैः स्वभावतः ॥ १८४॥ शुद्धप्रेमप्रभावेण चित्तैकाग्र्यं भवेद्रुतम् । ध्येयस्य स्थैर्यभावाय, शुद्ध प्रेमैव कारणम् ॥१८५॥ प्रेम मेघायते विश्वे, प्रेम सूर्यायते स्वयम् । प्रेम चंद्रायते सम्यग् प्रेमसर्वायते सदा ॥ १८६ ॥ सर्वमिष्टपदार्थेभ्यः प्रेमणिमिष्टताऽधिका । इष्टत्वं चैवमिष्टत्वं, सत्यप्रेमिषु सर्वदा ॥ ९८७ ॥ विश्वं सर्वं नमत्येव, पुरः प्रेम्णः स्वभावतः । सर्वत्र प्रेमसाम्राज्यं, पूर्णानन्दं प्रवर्त्तते ॥ १८८ ॥ 1 For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir मनःप्रेममयं कृत्वा, वाचं प्रेममयीं तथा । देहं प्रेममयं कृत्वा, प्रेमिन् ? सर्वत्र संचर ॥१८६॥ मृत्वा पुनर्महाप्रेम्णा, जीवन्तः प्रेमयोगिनः । जीवन्मुक्तिः सदेहेऽपि प्रेम्णाऽनुभूयते स्वयम् ॥ अत्रैव परमब्रह्म-साक्षात्कारोऽनुभूयते । शुद्धप्रेमिजनैः सद्यः, कृपां प्राप्य प्रभोर्भुवम् ॥१९१॥ गुरुरेव प्रभुः साचा-च्छ्रद्धायां यस्य विद्यते । शुद्धप्रेमोद्भवस्तस्य जायते नात्र संशयः ॥ १६२॥ सत्यप्रेमबलेनैव, सर्वत्र सर्वदेहिनाम् । परस्परं मनः पूर्ण-भेदाऽभावेन वर्त्तते ॥ १६३ ॥ सत्यप्रेम न यत्राऽस्ति, तत्र शङ्का प्रवर्त्तते । संशयात्मा भवेन्नष्ट- आत्मनः सर्वशक्तितः ॥१६४॥ प्रेमधर्मेण विश्वैक्यं, साध्यते नात्र संशयः । नान्योपायाः प्रवर्त्तन्ते, बाह्यभेद विनाशकाः । १६५ सर्वदेशीयलोकेषु, शुद्धप्रेमप्रवर्त्तनात् । सर्वदेशेन विश्वैक्यं, जायते विश्वशान्तिदम् ॥१६६॥ नित्यात्मनि कुरु प्रेम, भव्यविश्वासभावतः । आत्मैव सर्वथा सेव्यः, स एव सर्वतो महान् ॥ १६७॥ आत्मनि प्रेमयोगेन मुक्तिं प्राप्ता जना भुवि । अतः सर्वात्मसु प्रेम, कुरुध्वं प्रेमयोगिनः १ । १६८ । प्रेमैव जैनधर्मोऽस्ति, सद्धर्मरुच्यपेक्षया । प्रेमैव सद्गुरुं देवं भजन्तु सर्वशक्तितः ॥ १६६ ॥ प्रेमार्पणं प्रेम हवि, - रात्माग्नौ प्रेमिणा हुतम् । आत्मैष तेन लब्धव्यः, प्रेमधर्मसमाधितः ॥ २००॥ [ १७ ] For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir [१८] मागच्छन्तु जनाः सर्वे, शुद्धप्रेमणि वेगतः। चिरं विहृत्य सत्प्रेम्णि, भवामःसुखिनः सदा ॥२०॥ साई संमील्यगच्छेम, स्वादेमैक्यस्वरूपतः। प्रेमगानानि गायेम, महावीरप्रभोर्मुदा ॥२०२।। बहिरन्तर्महावीरं, पश्येम प्रेमभावतः । ब्रजेम श्रीमहावीरं, बाह्याभ्यासवियोगतः ॥२०३॥ महावीरस्य वृत्तान्तं, ध्येयं गेयं सुरागतः। सर्वतीर्थङ्करा गेया-स्तद्भक्ताश्च गुणाकराः॥२०४॥ पूजादिषु जिनेन्द्राणां, साधूनां दर्शने तथा। रोमाञ्चाश्रुमहाहर्षो-जायते प्रेमिदेहिनाम्॥२०५॥ तर्कवादविवादास्तु, त्यजन्ति प्रेमयोगिनः। महावीरप्रभौ लीना-भवन्तिपूर्णभावतः ॥२०॥ भेदाऽभावेन भक्तेषु, रक्ताः प्रेमप्रकाशनम्। कुर्वन्ति सद्गतिं यान्ति,प्रेमिणामीदृशी गतिः ॥ कामदुष्टविकाराणां, वासनानां च सर्वथा। होमं कुरु विवेकेन प्रेमाग्नौ भव्यमानव ? ॥२०८॥ सर्वैकान्तिकधर्मेषु, दर्शनेषु च भेदता । सविकल्पं मनो यत्र, तत्रानन्दो न विद्यते ॥२०९॥ शुद्धप्रेममये धर्मे, धर्मभेदोन विद्यते। दर्शनानां विकल्पोऽपि, तत्र किञ्चिन्न जायते ॥१०॥ शुद्धप्रेममये धर्मे, महावीरस्य शासने। सर्वदर्शनधर्माणां, समावेशो भवेत्सदा ॥ २११ ॥ शलभानां यथा वहौ,पातः स्वाभाविको भवेत्। प्रेमज्योतिषि भक्तामां, मनःपातस्तथा भवेत् For Private And Personal use only Page #42 -------------------------------------------------------------------------- ________________ www.kobairthorg Acharya Shri Kailassagersuri Gyanmandat Shri Mahavir Jain Aradhana Kendra ॐ ह्री श्री क्ली महावीर! शुद्ध प्रेम प्रकाशक? प्राकट्यं प्रेमधर्मस्य, मद्धृदि कुरु सत्वरम्॥२३॥ ॐ ह्री सद्गुरुदेवाय, नमोऽहं सत्यवादिने । मत्त्वत्तद्भेदनाशेन, द्रुतं प्रेमोद्भवं कुरु ॥ २१४ ॥ षट् चक्रेषु महामन्त्र-जापेन देवदर्शनम्। पूर्वजन्मादिबोधश्च, जायते प्रेमधारिणाम् ॥२१५॥ बालहत्यादिकं पापं, नश्यति मन्त्र जापतः। प्रेमयोग्यं महामन्त्र-मित्येवं हृदि धारय॥२१६॥ षट्चक्राधिपदेवाय, शुद्धप्रेमस्वरूपिणे। महाज्योतिःस्वरूपाय,नमःप्रेम्णेऽस्तु सर्वदा॥२१७॥ इत्येवं मन्त्रजापेन, प्रेम्णः सिद्धिर्भवेद्धृदि। सद्गुरोर्गमयोगेन, चात्मज्ञानिमनीषिणाम् ॥२१८॥ सद्गुरुप्रेमिभक्ताय, कामभोग विरागिणे। प्रेमगीता शुभा देया, प्रेमगीतार्थयोगिभिः । २१९॥ नास्तिकाय नदेया सा,श्रद्धाहीनाय नोकदा। नचदेया विधर्मिभ्यः, प्रेमगीता सनातना।२२०॥ दत्तायां प्रेमगीताया-मयोग्याय पदे पदे। बालहत्यादिदोषाः स्यु-तृणां नैव संशयः॥२२१॥ कृत्वा शिष्यश्च सद्भक्तं, सद्गुरुभिः प्रतिज्ञया। प्रेमधर्मः प्रदातव्यः, सर्वधर्मस्वरूपकः ॥२२२॥ श्रद्धायुक्ताजनाः सर्वे, प्रेमधर्माधिकारिणः।मातृगुर्वादि सद्भक्ता-नीतिमार्गाऽनुयायिनः ।२२३ महावीरस्य भक्तानां, प्रेमधर्मप्रवर्त्तनम् । भविष्यति कलौ हृद्यं, सर्वसंसारतारकम् ॥२२४॥ ___ [१९] For Private And Personal use only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagers Gyanmandi [२०] गुरुपरंपरा प्रेम-धर्मः कलौ चलिष्यति।शीघ्रं कर्मादिमार्गेभ्यो-मुक्तिदः सर्वदेहिनाम् ॥२२५॥ सद्गुरोः प्रेमिभक्तानां, प्रेमगीताप्रवाचनम्। श्रवणं च फलेच्छीघ्रं, यथानुक्रमशिक्षणात् ।।२२६॥ | भव्यौत्सुक्यं भवेदिव्यं, सत्प्रोमणां परस्परम्। अत्यसह्यवियोगोऽस्ति, मूर्च्छना चोन्मनीदशा॥ परस्परेषु चित्ताना,-मान्तरत्राटको भवेत्। बाह्यश्वदर्शनोत्कंठ-प्रोमणां बाह्यचक्षुषाम् ॥२२८॥ नेत्राचरोदनं दिव्यं, विशुद्धप्रेमिणां खलु । महावीरप्रभौ त्यागः, सकाममनसो भवेत् ॥२२६॥ महावीर जिनेंद्रस्य, दर्शनायाऽऽतुरंमनः । कोटिवर्षसमंतस्य, क्षणोऽपि जायते हृदि ॥२३०॥ अन्यन्नेच्छति तच्चित्तं, महावीरप्रभुं विना। स्वप्नेऽपि दर्शनं कृत्वा, परमानन्दभाग्भवेत् ।।२३१॥ देहादीनां विनाशोऽपि, भक्तानां तृणवद्भवेत्। अग्निःशीतायते तेषां, शुद्धप्रेमप्रवाहतः॥२३२॥ बुद्धितोऽपिस्वभावेन, प्रेमिणां हृदयं महत् । चञ्चला क्षणिका बुद्धिः, स्थिर हृत्प्रेमभाजनम् २३३) सर्वविश्वस्व रूपश्री महावीरस्य भक्तराट्। तन्मयो भवति प्रेम्णा, जीवन्मुक्तोऽभिधीयते २३४ मुक्ति रत्रैवभक्तानां, सदेहेप्यनुभूयते। अत्र नैवास्ति नाऽमुत्र, ज्ञातव्यं शुद्धधर्मिभिः ॥२३५॥ सद्गुरोराज्ञयाप्रेमि-भक्तानां वर्त्तनं शुभम् । गुरोराज्ञैवसद्धर्मः, प्रेमिणांमतिरीदृशी ॥२३६॥ For Private And Personal use only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagers Gyomandat warraiwwwwwwwsreeronrwwwnwinnar प्रेमेव जीवनं दीव्यं, स्वर्गश्च स्वर्गिणामिदम् । व्यापक सूक्ष्मरूपेण, प्रेमाऽस्तिसर्वदेहिषु।२३७॥ उन्मनीभावमापन्नाः, संसारोत्पथवर्तिनः।मुक्तये सन्तु सद्भक्ताः,शुद्धात्मप्रेमजीवनाः ॥२३८॥ प्रेमाविर्भावकृत्याय, शुद्धात्मप्रेमयोगिनाम् । कर्त्तव्या सङ्गतिः सर्व-स्वार्पणेन तदार्थभिः।२३६॥ स्वार्पणेन सदा सेव्यः,शुद्धात्मप्रेमिसद्गुरुः सद्गुरुशिष्ययोरैक्यं, प्रेमैव ज्योतिरात्मनामा२४०। यस्याये कामदेवस्य, बलं नश्यति तत्क्षणम् ।आविर्भवतु तत्प्रेम, येन स्यात् प्रभुदर्शनम्॥२४१।। शुद्धप्रेम महाज्योतिः, परब्रह्मैव केवलम् । तेजस्सु तन्महातेज-एकं विश्वस्य शासकम् ।।२४२॥ कायनाशोऽस्ति सत्प्रेम्णा, पूर्णसत्यंवदाम्यहम्। काम्येभ्यो दूरवासेन, नास्ति कामस्य संक्षयः॥ ब्रह्म पश्यतिसत्प्रेम, कामस्तु देहरूपताम्।सत्प्रेम्णा वर्त्तते शान्तिः, कामात्तु दुःखराशयः२४४ आत्मसु प्रेमसाम्राज्य, देहे कामस्य च स्फुटम्। आत्मप्रेम्णारसानन्दः, कामेन दुःखकोटयः२४५ कामात्मा तु पशु यः, प्रेमात्मा तु पशोः पतिः। पशुपतिर्महादेवः, केवलज्ञानलिङ्गवान् ॥२४६॥ कामरागसमं दुःखं, नैवभूतं भविष्यति । चिन्तनाद्धरते चित्तं, कामभोगस्य का कथा ॥२४७॥ कामभोगस्य चिन्तातः, कामिनां दुःखकोटयः ।देहादीनां च नाशोऽस्ति, मनुष्याणां परस्परम्॥ [२१] For Private And Personal use only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandat [२२] काम एव महामृत्युः, सत्प्रेमवास्ति जीवनम् ।मेरुसर्षपयोस्तुल्य-मन्तरं प्रेमकामयोः ॥२४॥ सर्वान्तर्यामि सत्प्रेम, प्रभुरेवहदि स्थितम्। परब्रह्म परं पूज्यं, क्षायिक सच्चिदात्मकम् ॥२५०॥ शुद्धनिश्चयसत्प्रेम, शुद्धात्मैव न भेदता। वीतरागो रसेन्द्रं तं, याति निश्चयबुद्धितः ॥२५१॥ ब्रह्मविष्णुमहेशाद्याः, कर्मप्रकृतिसंश्रिताः।शुद्धात्मदिव्यसत्प्रेम, वाञ्छन्ति पूर्णभावतः॥२५२॥ शुद्धप्रेममयं पूर्ण, कर्मातीतं रसं परम्। प्रकृतेः पारगन्तारो-यान्ति शुद्धात्मभावतः ॥२५३॥ प्रेमिणां चक्षुषि प्रेमी, तथा निद्रा न चक्षुषि। जाग्रद्धृत्कर्णयोः प्रेम, तेषां सर्वमलौकिकम् २५४॥ ध्येयरूपप्रभुप्रेमी, सोऽहं सोऽहं भजेद्धृदि। श्वासोच्छ्रासैः सदा हंसो-जप्यते तेजसां निधिः२५५ प्रेमिणां प्रमिभिर्दत्तं, प्रियं भवति सर्वथा।प्रेमिणां जन्मवासादि, प्रियं भवति स्वात्मवद् ॥२५६ ।। अग्नेरपिमहानिर्यद्-जलादपिमहाजलम् । पृथ्व्या अपि महापृथ्वी, वायुयोर्महानपि ॥२५७ आकाशतो महाकाशं, प्रमिषु प्रेम बोधत। यस्य सत्ताप्रभावेण, सर्व विश्वं प्रवर्तते ॥२५८॥ मैत्रीप्रमोदमाध्यस्थ्य-कारुण्यभावनाःशुभाः।प्रमिणां प्रेमसिद्धास्ता-वर्त्तन्ते विश्वशांतिदाः॥ प्रमिणमन्तरानैव,स्थीयते प्रमिणा कदा। प्रेमिणमन्तरानैव, जीव्यते प्रेमिणा कदा ॥२६॥ A AAAAR SanAmAR MARRRRRIA For Private And Personal use only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavian Aradhana Kendra www.kobatrth.org Acharya Shri Kalassage sur Gyanmandir A A AAAAAAAAAAAAAAmouniorror प्रमिणां विरहो नैवं, सह्यते प्रेमिभिःकदा। यत्र प्रेम भवेत् तत्र, प्रमिणामात्मजीवनम् ॥२६॥ प्रेमाद्वैतं भवेत्सर्व, प्रमिणां संगमे सदा। प्रेमाद्वैतमयेजीवे, द्वैतं नास्तीति सम्मतम् ॥२६२।। प्रेमाद्वैतं विना सर्व, द्वैताद्वैतं च कल्पितम्। ब्रह्माद्वैतमपि प्रेमा-द्वैताद्भिन्नं न भासते ॥२६॥ विशिष्टाद्वैत ब्रह्मापि, शुद्धाद्वैतं तथा स्वयम्।प्रेमाद्वैते लयं यान्ति, साक्षात् स्वेनानुभूयते ।२६४॥ आविर्भावस्तिरोभाव-प्रेमैव जैनशासनम् । अद्वैतं केवलब्रह्म, प्रेमाद्वैतमनादितः ॥२६५॥ दिव्यं नैसर्गिकं प्रेम-साम्राज्यं सर्वतो महत्। यद्विना चक्रवर्त्याद्या-दुःखिनः सन्ति भूतले ॥ बाह्यसाम्राज्यमात्रेण, सुखं नास्ति मनीषिणाम्। आन्तरप्रेमसाम्राज्या-दानंदः प्रेमदेहिनाम् ।। किं लक्ष्म्या किं च राज्येन,किं भवेद् बाह्यविद्यया।शुद्धात्मप्रेमसाम्राज्यं, बिनासर्वं हि निष्फलम। शुद्धप्रेम न यत्राऽस्ति, तत्र वासेन किं फलम्। शुद्धप्रेम विना सर्व, श्मशानं दृश्यमात्रकम् ।१६६|| शुद्धप्रेम विना धर्म-शास्त्रं शस्त्रायते भुवि । शुद्धप्रेममयो धर्मो-जैनधर्मः स उच्यते ॥२७॥ शुद्धप्रेमैव वैराग्य-रंगो यस्य भवेद्धृदि। तस्य सत्यं भवेत्सर्व, मनोवाकायमात्रजम् ॥२७॥ किमाहारविहारेण, किं क्रीडाभिः परस्परम् ? पुरुषाणां त्रियां सत्य-प्रेम यत्र न हार्दिकम् ।२७२। [२३] For Private And Personal use only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassage sur Gyanmandir किं कलाभिः कथाभिः किं, यौवनेन च किं फलम् ! किं फलं भोगसामग्र्या ? शुद्धप्रेमोद्भवं विना ।। वधूभिश्च वरैः किं स्यात् ? हर्म्यवासेन किं फलम् ? सत्यप्रेम न यत्राऽस्ति,श्मशानं तत्र चिन्तया सर्वकर्तव्यकार्याणां, प्रवृत्तेः प्रेमशुद्धता । नीतिमार्गप्रवृत्तेश्च, शुद्धप्रेमोद्भवो भवेत् ॥ २७५ ॥ । पुण्यपापादितत्त्वानां, मन्तारः प्रेमदेहिनः। आत्माभिमुखभावेन, परात्मानो भवन्ति ते॥२७६॥ महावीरस्य भक्ताः स्यु-र्मार्गानुसारिदेहिनः । आत्मान आन्तरास्तेस्युः,सम्यक्त्वप्रेमजीवनाः सदेहा अपि निर्देहा-आत्मानः सन्ति सत्तया ।अज्ञानमोहनाशेन, भवन्ति परमेश्वराः ॥२७८॥ व्यभिचारादि दुष्कर्म, भवेत् कामातिरेकतः। शुद्धप्रेमणितद्धः, कदापि नैव वर्तते॥ २७६ ॥ कुत्र कामोदयो मुख्यः, कदा मोहोऽविवेकतः। कुत्र सत्प्रेमयोगस्य, मुख्यता वर्तते कदा ॥२८॥ जिनेंद्रागमसद्बोधात्, सत्यप्रेम प्रजायते। मनुष्यत्वं भवेत्प्रेम्णा, पशुत्वमन्यथा स्मृतम् ।२८१|| परोपकार बुद्धित्वं, साहाय्यं च परस्परम् । जायते सत्यरागेण, विश्वसेवाविचारणा ॥ २८२ ॥ प्रेमादितमनुष्याणा-मास्यनेत्रप्रसन्नता । वाग्माधुर्यं च सत्कारो-जायते हि परस्परम् ॥२८॥ प्रेमिणां संकट प्राप्ती, प्राणार्पणं परस्परम् । कीर्तीहा न भवेन्नृणा-मात्मारामनिवासिनाम् २८४|| For Private And Personal use only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir हृ दोन भवेन्नृणां,मृत्यु प्राप्तावपि स्फुटम् ।प्रमिणामीहशीरीतिः, सुखे दुःखे च सर्वदा।२८५॥ मालंबनं स्वभावेन, प्रेमिणांहि परस्परम्। जायते सत्यमाधुर्य, प्रेमरूपं च हृद्गतम् ॥२८६।। तीर्थं प्रेममयं चित्तं, तीर्थ प्रेममयं वचः। तीर्थ प्रेममयोदेह-आत्मातीर्थ सनातनम् ॥२८७॥ मूर्तिपूजाप्रचारस्य, मूलं सत्प्रेम बोधत।जडेष्वपि प्रभुःसाक्षात्-कारस्तस्माद्भवेद्धवम् ॥२८८ शुद्धप्रेमातिवेगेन, मूर्ती देवस्य दर्शनम्। जायते प्रेमिभक्तानां,श्रूयते सत्यदेशना ॥२८६ ।। सत्यप्रेमाश्रये देहे,मानसेचात्मदेहिनाम्। व्यक्तप्रेमोद्भवोनित्यो-जायते नैव संशयः ॥२९०॥ कृतकोव्यपराधास्तु, मनुष्य द्वेषमोहतः। सत्यप्रेमणि संजाते, उपशाम्यति वेगतः॥ २६१ ॥ यस्योपरिभवेत्पूर्ण-सत्यप्रेमस्वभावतः। तदर्थं नामरूपादि-स्वार्पणं जायतेरयात् ॥ २९२ ॥ शुद्धप्रेम विना मूर्ती, शास्त्रस्य ज्ञानमात्रतः। नीरसशुष्कता योगा-दिष्ट देवो न दृश्यते॥२९॥ सदेहेषु भवेत्प्रेम, तत्राश्चर्य न जायते। ज्ञानिनां मूर्तिषु प्रेम, जायते तत्र चित्रता ॥ २६४ ॥ निर्दोष बालवद्वत्तं, प्रेमिणः सरलाशयात् । आर्द्रतामयसर्वांगं, तस्य पूर्ण विराजते ॥२६५॥ प्रेमप्रकृतितस्तुल्यं, धर्म्यलग्नं विवेकिनाम् । कल्पते स्त्रीपुरुषाणां, समाचारविचारिणाम् २९६ [२५] For Private And Personal use only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir | २६ ] राजसानां समं लग्नं, राजसं परिकीर्त्तितम् । तामसानां समं लग्नं, तामसं परिकीर्त्तितम् ॥ २६७॥ सात्विकेन समं लग्नं, सात्विकस्य सुरवातये । गुणकर्मानुसारेण, वर्णानां लग्नमिष्यते ॥ २६८॥ लग्नं समानवर्णानां, वयः साम्यादितः स्मृतम् । देहलग्नं च दंपत्यो-रध्यात्मं प्रेमयोगतः ॥ २९९ ॥ माहारेण विचारेण, राजसादिक साम्यतः । लग्नमाध्यात्मिकं बाह्यं, दंपत्योः सर्वशक्तये ॥ ३००॥ लग्नं प्रेमविना नैव, घटते नरयोषिताम् । भूमिकां पञ्चमींयावद्, दंपत्यो लेग्नमिष्यते ॥ ३०१ ॥ रोगदोषाद्यभावेन, पक्ववीर्यादितस्तथा । प्रेमादिगुणयोगेन, लग्नं हि नरयोषिताम् ॥ ३०२ ॥ धर्मदेशप्रगत्यर्थ-मित्थं लग्नं समानकम् । कल्पते नरनारीणां, धर्मप्रेमविधायकम् ॥३०३॥ दुष्टविक्रयलग्नेन, पुरुषाणां च योषिताम् । धर्मसंघ बलादीनां नाशः स्यान्नैव संशयः॥३०४॥ लग्नमावश्यकं ज्ञेयं प्रजोत्पत्यादिहेतुभिः । अन्यथा देहलग्नंतु, कल्पते नैव देहिनाम् ॥ ३०५ ॥ कल्पते प्रेमिलोकाना -मात्मलग्नं परस्परम् । देहभोगो न तत्रास्ति, सद्गुणानां प्रचारता ॥ ३०६ ॥ आत्मप्रेमैवलग्नाय, कल्पते नरयोषिताम् । आत्मलग्नंतु सर्वेषां कल्पते प्रेमदेहिनाम् ॥३०७॥ देवलग्नं गुरोर्लग्नं, शुद्धप्रेम्णा प्रकल्पते । भक्तानां नरनारीणां मुक्तये धर्मभावतः ॥३०८॥ For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir communner-rrrrrrrrrrrrr-~ ~ समाख्यं शुद्धचारित्रं, धर्मलग्नं मनीषिणाम् ।मोक्षार्थं जायते नूनं, शुद्धप्रेम निवासिनाम् ॥३०९। ॐ ह्री श्री क्ली परप्रेम, प्रियेषु मम वर्धताम् ।वैरिणामुपरिप्रेम, वर्धा मम शक्तितः ॥३१०॥ वर्धतां मम मित्रेषु, शत्रुषु प्रेम वेगतः । सर्व देशेषु खंडेषु, शुद्धप्रेम प्रवर्धताम् ॥ ३११ ॥ शुद्धप्रेम्णा पराशान्ति-भूयात् सर्वत्र सात्विकी। द्रष्येष्वपि परप्रेम, वर्धतां मम भावतः॥३१२॥ परप्रेममयं विश्व, भूयात् संकल्पशक्तितः । प्रादुर्भवतु सत्प्रेम, मयि सर्वेषु सर्वथा ॥ ३१३ ॥ शुद्धप्रेमसमावेग-दृढसंकल्पभावनाः। जनोपरि प्रकुर्वन्तः, कुर्वन्ति प्रमिणो जनान् ॥३१४।। नृणांशीर्षोपरिप्रेम-मंत्रजापक योगिनः।वशीकुर्वन्ति सत्प्रेम्णा, सर्वलोकान् विवेकतः॥३१५॥ मदीयप्रेमदायेन, मद्रूपाः सन्तुदेहिनः। दूरं यातु महावैरो-मत्तश्च सर्वविश्वतः ॥ ३१६ ॥ शुद्धप्रेम विना जीवः, पशुरेव न संशयः। शुद्धप्रेमात्मनां नृणां, देवत्वं परिकथ्यते॥३१७॥ प्रेम्णा सर्वात्मनामेको-विश्वात्मा परमेश्वरः।आत्माऽद्वैतस्वरूपेण, कथ्यते नययुक्तितः ॥३१॥ सत्यद्वैतमपिव्यक्त-मात्माऽद्वैतेलयं व्रजेत्। ज्ञानेज्ञेयस्य भास्यत्व मात्माद्वैत मनादिकम् ।३१६॥ सोऽहनेवभवेत् साऽह-मद्वैतप्रेम्णि संस्थिते। जन्ममृत्युर्जरानैव, निर्विकल्पक योगिनाम्।३२०॥ [२५] -~-newwwwwwwwwwn wwwmnind For Private And Personal use only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [34] साऽहसाऽह भवत् साऽह, भवत् तत्त्वमासे स्वयम्। त्वमेवाऽहं विकल्पेन, विकल्पप्रेम जायते॥ व्यक्ताव्यक्तं भवेत्प्रेम, व्यक्ताव्यक्तात्म भावतः । शुद्धप्रेमात्म चारित्रं, सत्यभक्तस्य लभ्यते ॥ प्रेमीप्रेमैव जानाति यत्र तत्र यदा तदा । साचि परस्परं चित्तं, प्रेमिणां जायते स्वतः ॥ ३२३ ॥ शुद्धोपयोगप्रेमैव कर्त्तव्यो भक्तयोगिभिः । आत्मशुद्धोपयोगस्तु शुद्ध प्रेमैव बोधत ॥ ३२४॥ शुद्धप्रेमाग्निपकानां मालिन्यं नैव जायते । निपातो न भवेत्तेषां, यादृक् तादृक् प्रवृत्तितः॥ ३२५॥ शुद्ध प्रेमैव संबोध्यं, स्वात्मलालन जीवनम् । भक्तसंगेन संप्राप्यं, पूर्णानन्द स्वरूपकम् ॥ ३२६॥ शुद्धप्रेम न संप्राप्यं, देहाध्याससमृतिं विना । नामरूपादिमोहस्य, नाशेन लभ्यते जनैः । ३२७ | संत्यक्तसर्वसंकल्पो - देहाध्यासविवर्जितः । सर्वकर्माणि कुर्वन्सन्, प्रेमात्मा नैव लिप्यते ॥ यदाकर्मस्वनासक्त-इन्द्रियार्थेषु सर्वथा । श्रहं ममत्व संत्यागी, शुद्धप्रेमी तदोच्यते ॥ ३२६ ॥ कर्त्तव्येष्वधिकारोऽस्ति, प्रेमात्मनां स्वभावतः । अप्रेमात्मा न निर्लेपो-भवत्येव प्रभोर्मतः । ३३० प्रेमतः सर्वकर्त्तव्य - सामर्थ्यं जायते हृदि । अनन्तवीर्यसद्रूपं, प्रेमकर्मकरं मतम् ॥ ३३१ ॥ सर्वयज्ञस्वरूपोऽस्ति, प्रेमयज्ञः सतांमतः । प्रेमयज्ञे निमग्नाना - मन्ययज्ञो न विद्यते ॥ ३३२ ॥ For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kaliassagarsuri Gyanmandir शुद्धप्रेम महायज्ञे, ज्ञानाग्निदीपिते शुभे । नामरूपादिमोहस्य, होमः कार्यो मनीषिभिः ॥३३३॥ स्वार्थकीर्त्यादि होमेन, शुद्धप्रेमी भवेजनः। सर्वकर्माणि कर्तुंस-ईश्वरो भवति स्वयम्॥३३४॥ शुद्धप्रेममये यज्ञे, भस्मीभूत मनीषिणाम्। दिव्यतेजोमयाश्चित्रा-आत्मानः स्युर्गुणैःशुभाः॥ शुद्धप्रेमणि संस्नातः, स्नातको योगिभिर्मतः। स्वतंत्रः सर्वथा कर्तु-मकर्तुं विश्वरूपवान्।३३६ सदाचारविचारेषु, प्रवृत्तोऽपि स्वभावतः। निर्लेपः स्नातकःप्रेमी, तेन कर्म न बध्यते ॥३३७॥ करोति किं न सत्प्रेमी, व्यक्त प्रेम प्रभावतः।जननी भूमि सत्प्रीत्या, निर्वीयो वीर्यवान् भवेत्॥ गुरुप्रेमी स बोद्धव्यः, कोटिविघ्नैर्न भिद्यते। अन्तश्चक्षुर्भवेत्तस्य, गुरुश्रद्धा न जीवितुः ॥३३६॥ एक एव गुरोः प्रेमी, सर्वज्ञो जायते भुवि । स्ववानुगतः सर्वो-जायते व्यक्त शक्तिमान् ॥ सप्तैव भूमिका बोध्याः, प्रेम्णोऽनुक्रमभावतः।गुर्वाज्ञातोजनैर्धार्याः, स्वाधिकार विशेषतः॥३४॥ आद्यायां भेदरूपेण, स्वार्थ दोषेण मिश्रितम्। काम्यं च भवति प्रेम, सदोष द्वेष संगकृत् ॥३४॥ नामरूपादिषुव्यक्त-काम्यबुद्धिर्भवेत् खलु । जैनधर्मोपरि प्रेम, यमादौ प्रेमता भवेत्॥३४३॥ फलाशापूर्वकं यत्र, प्रेमिणां प्रेम जायते। द्विष्टेषु वैरबुद्धिश्च, रागस्य क्रयविक्रयम् ॥३४४॥ [२९] For Private And Personal use only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir [३०] कामस्य मुख्यता यत्र, युद्धंच दुष्टवैरिषु । देहेन्द्रियादि भोगानां, सौख्यं प्रकृतिधर्मतः ॥३४५॥ हिंसालीकादिदोषाणां, प्रवृत्तिर्मुख्य भावतः। यमादीनाम भावेन,देव गुर्वादि पूजनम् ॥३४६॥ स्वार्थार्थ सर्व कर्माणि, कर्त्तव्यानि सुखाप्तये । अज्ञानमोह दोषायै-जीवनं यत्र देहिनाम्॥३४७॥ द्वितीयायां फलाशाया-मुख्यता कामभोगता।साधूनां संगतेरिच्छा, योगः किंचित्प्रजायते॥ देहप्राणादितो भिन्न-आत्माऽस्ति देहसंस्थितः। इत्येवं ज्ञायते किंचित् , तत्त्वानां गुरु संनिधौ ॥ स्वार्थार्थं सर्व कार्याणां, प्रवृत्तिभेंदबुद्धितः। पतिपत्न्यादि सम्बन्धाः, कामरागादिपूर्वकाः।३५०।। लौकिकाचार नीतीनां, सुखायपालनं भवेत् । दया दाक्षिण्यसञ्चारः किञ्चित्किञ्चित्प्रजायते ॥ आत्मज्ञानाद्यभावेन, देहादीनां प्ररक्षणम्। बाह्य देहेन संबन्धो-नच रागेण रागिणाम् ॥३५२॥ तृतीयायां भवेदन्त-श्चित्तरागप्रसन्नता । प्रेमिणां गौणभावेन, संबन्धःप्रेमिदेहिषु ॥३५३॥ मुख्यभावेन देहस्य, भोग सौख्य प्रवृत्तयः। आत्मनो जडवस्तूनां,सुखे मिश्र प्रवृत्तयः॥३५॥ प्रकृतीनां बलेनैव, यत्र बाह्य प्रवृत्तयः । देवादिषु भवेत्प्रेम, गौणभावेन रागिणाम् ॥३५५॥ मिश्रबुद्धिर्भवेद् यत्र, ब्रह्मज्ञानं न जायते। तथापि जैन शास्त्राणां, स्वाध्यायादि प्रवृत्तयः॥३५६॥ For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarri Gyanmandir swamanna लग्नादि सर्व संबन्धा-भवन्ति स्वार्थ मिश्रिताः। नो पारमार्थिकी बुद्धि-रेकैव तत्र विद्यते ॥३५७॥ चतुर्थ्यां भेद बोधेन, प्राकट्यमात्मनः स्फुटम्।जायते सत्य रागस्य, मुख्यता प्रेम योगिनाम् ॥ महावीरोपरिप्रेम, जायते सद्गुरौ तथा । जैनधर्मोपरिप्रेम, जायते तत्त्वबोधतः ॥ ३५६ ॥ धर्म्ययुद्धादि कार्याणां, स्वाधिकारप्रवृत्तयः । देवगुर्वादिसंपूजा, सत्यप्रेमप्रवाहतः ॥३६०॥ जैनेन्द्रश्रीमहावीर-धर्मचिह्नस्य धारणम्। मिथ्यात्वकुप्रवृत्तिनां, वारणं प्रेमभावतः ॥३६१॥ देहात्मनो वेभेदो-ज्ञानेन तत्र निश्चयः। आत्मज्ञानी भवेत्प्रेमी, देहादिभोग्यपिस्वतः॥३६२॥ अल्पदोष महालाभ-पूर्वकमात्मबुद्धितः। सर्व कर्त्तव्य कार्याणां, कर्ता भवति निश्चयी ॥३६३॥ इच्छायोगस्य मुख्यत्वं, शास्त्रयोगस्य मुख्यता।आन्तराः सर्वसम्बन्धा-मुख्यभावेन रागिणाम् ॥ पंचम्यां वर्तते प्रेमी, श्रुतचारित्रदेशतः । प्रवृत्तिधर्मसंसेवी, निवृत्तिर्गौणभावतः ॥३६५ ॥ वैरिणां प्रतिकर्मवं, जायते प्रेमधर्मिणाम् । सर्वधर्मस्य रक्षार्थ, शुद्धप्रेमोपजायते ॥३६६।। देहेन्द्रियादिभोगानां, सौख्यस्य गौणता भवेत्।मैत्र्यादि भावनाः सर्वा-जायन्ते यत्र बोधतः॥ जैनसंघस्य वात्सल्यं, सत्यप्रेम्णा विधीयते।साधूनां श्रावकाणांच, वैयावृत्त्यं स्वभावतः॥३६८॥ [३१] - For Private And Personal use only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३२] देहिनां सर्वदोषाणां दर्शनं च प्रकाशनम् । प्राणान्ते विद्यते नैव, गुणानां वर्णनं तथा ॥ ३६६ ॥ प्रारब्धकर्म भोक्तृत्वं यमादीनां प्रपालनम् । खार्पणं जैनधर्माय देवाय गुरवे तथा ॥३७०॥ जैनधर्मस्य स्वीकारः, स्वात्मभोगेन पालनम् । जैनधर्म प्रचाराय कलौप्राणादि दानता ॥ ३७१ ॥ प्रशस्याचारनीत्यादि - पालनं शास्त्रयुक्तितः । देवगुर्वादिसंसेवा, वर्णधर्मादिपालनम् ॥३७२॥ नामरूपादि संमोहो-धर्म्य कामोदयस्तथा । देहात्माध्यासताकिञ्चित्, कषायाणां समुद्भवः ३७३ सत्यप्रेमोदयो यत्र, प्रेमिणांहि परस्परम् । भवेद् बुद्धिःस्थिरा शुद्धा, परात्माभिमुखा जनाः ३७४॥ व्यावहारिक संबन्धे, शुद्धप्रेम प्रजायते । काम्या भवन्ति निष्काम्याः, पदार्था यत्र वस्तुतः। ३७५|| प्रेमास्ति निन्दके नैव, न तथा दोषदर्शिषु । निर्दयेषु नवै प्रेम, तथा प्रेमविरोधिषु ॥ ३७६ ॥ गुरुशिष्यादि संबंधाः, सत्यप्रेममयाः शुभाः । पितृपुत्रादि संबंधाः, परस्परोपकारकाः ॥ ३७७॥ त्यागिनां गृहिणां धर्माः, सत्यप्रेममयाः सदा । सदाचारः स्वभावेन, दयादान प्रवृत्तयः ॥ ३७८ ॥ आत्मवत्सर्वजीवेषु, सत्यप्रेमोद्भवो भवेत्। आत्मा विश्वमयः प्रेम्णा, भाति यत्र स्वभावतः ३७६ सोऽहं सोऽहं भवेत् साऽहं, प्रेमिणां च परस्परम् । सर्वभोगेषु निर्लेपः, सत्प्रेमी सर्वकर्मकृत् ॥३८० ॥ For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठयां पूर्ण भवेत् प्रेम, निर्दोषं च मनः सदा । शुद्धात्मबोधरूपं हि, शुद्धप्रेमैव गीयते ॥ ३८९ ॥ प्रेमरूपं जगत् सर्व, शुद्धप्रेम्णा प्रभासते । यत्र वैरी न वैरं न, प्रेमिषु नैव भेदता ॥ ३८२ ॥ दोषा यत्र न भासन्ते, शुद्ध प्रेम प्रवाहतः । श्रहिंसादिगुणा यत्र, पूर्ण रूपाः स्वभावतः॥ ३८३॥ यत्रात्मा परमात्माऽस्ति, शक्तिव्यक्तिमयोमहान् । निरञ्जनं निराकार - मात्मतत्त्वं प्रभासते ३८४ आत्मदृष्टिर्भवेन्मुख्या, व्यापकप्रेमयोगिनाम्। धारणाध्यानलीनानामुन्मनीभावमुख्यता । ३८५॥ नैव तथा नारी जातिर्नैव च पौद्गली । श्ररूपोऽस्ति स्वयंशुद्धः, देहस्थोऽपि न देहवान् । ३८६ कर्मबन्धो भवेन्नैव, कृतेषु सर्वकर्मसु । भवेमुक्तौ समाबुद्धिः, समप्रेमस्वभावतः॥ ३८७ ॥ अन्तर्बहिर्महावीरः, शुद्धप्रेम्णैव दृश्यते । महावीरमयं विश्वं यत्र तत्र प्रदृश्यते ॥ ३८८ ॥ आत्मैव श्रीमहावीर - आत्मना परिवेद्यते । शुद्धात्ममग्नतायोगा- दानन्दोहृदि जायते ॥ ३८९ ॥ आत्मन श्रन्तरक्रीडा, बुद्ध्यादिवृत्तिभिः सह । यत्रानुभूयते प्रेम्णा, तत्रदुःखस्य नाम किम् ॥ दोषत्वं नैव कुत्रापि द्रश्यतेऽत्र स्वभावतः । दोषत्वं च गुणत्वं च - आपोक्षिकं न वस्तुतः ॥ ३६१ ॥ गुरुशिष्यादिभेदस्तु किञ्चिन्नैवात्र विद्यते । शुद्धप्रेमपरब्रह्म, सर्वत्रैक्यं प्रकाशते ॥ ३९२ ॥ [ ३३ ] For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir [३४] एक एव महावीरो-जिनेन्द्रः परमेश्वरः। महाभक्तस्य हृद्येव भाति विश्वमयः प्रभुः॥३९३॥ शुद्धप्रेम्णा महावीरः, शुद्धात्मैव स्वयंभवेत् । अप्रमत्तः सदाजाग्रत् ज्योतिषांद्युतिभास्करः॥ आचाराणां विचाराणां, नैयत्यं नैव वर्त्तते। सर्व कर्तुमकर्तुं यः, समर्थो जिनरागवान् ॥३९५॥ निर्गतः शास्त्रसंज्ञातो-लोकसंज्ञाविनिर्गतः । देहसंज्ञाद्यभावेन, शुद्धप्रेमीप्रभुःस्वयम् ॥३९६॥ साकारश्चनिराकारः, शुद्धात्माहृदि भासते। शुद्धात्मैवपरप्रेम, पूर्णशक्तिमयःप्रभुः ॥ ३६७॥ जीवन्मुक्तो भवेच्छुद्ध-प्रेमीसर्वत्रसर्वदा । नामरूपादिमोहस्य, नाशोभवति सर्वथा ॥३९८॥ अभेदप्रेमसामर्थ्य, सर्वत्रव्यापकं खलु । सविकल्पपरप्रेम, पूर्णानन्दमयं सदा ॥ ३६९ ॥ यत्रैक्यं परमप्रेम-भावेनसर्वदेहिषु। निष्कामप्रेमशुद्धात्मा पूर्णानन्दोरसात्मकः ॥ ४००॥ सूक्ष्मकामादिसंकल्पः, किञ्चिद् भवति नोकदा। सप्तम्यां भूमिकायां च, निर्वाच्यं प्रेमवस्तुतः सत्प्रेमैवकलौ मोक्षः, सत्प्रेमपरिभाषया, अप्रमत्तदशां यावत् , शुद्धात्मप्रेम योगिनाम् ॥४०२॥ अप्रमत्तदशा जीवन्-मुक्तिरेवकलौशुभा। अप्रमत्तदशां यावत् , सत्प्रेम्णः सप्तभूमिकः ॥४०३॥ अप्रमत्तदशाशुद्ध-प्रेममुक्तिर्मनीषिभिः। अत्रैव वेद्यते साक्षात् , तत ऊर्ध्वं न वेद्यते ॥४०४॥ For Private And Personal use only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradisana Kendra www.kobatorg Acharya Shri Kailassagarsuri Gyanmandit आत्मानुभवमोक्षोऽत्र, भाषितंपरिभाषया । अप्रमत्तगुणस्थानं, यावत् भक्तिमहत्तया ॥४०॥ अप्रमत्तदशाशुद्ध-प्रेमोवं पूर्णशुद्धता । जायते तीर्थ देवानां, केवलज्ञानयोगतः ॥ ४०६ ॥ अष्टम्यां शुक्लयोगेन, शुद्धचारित्रयोगिनः। घातिकर्मक्षयान्मोक्षः, शुद्धपर्यायवान् भवेत् ॥ अष्टम्यां तीर्थकृद्देवः, केवली विश्वदेशकः । परमात्मा जिनेन्द्रः स-जायते विश्वपावकः॥४०८॥ सर्वाशेन भवेद् जीवन्-मुक्तः सर्वज्ञ योगिराट्।अष्टमी भूमिमुल्लंध्य, भवेत् सिद्धो निरञ्जनः४०६) परब्रह्ममहावीरे, तन्मया प्रेमभावतः । पश्यन्ति ते द्वयोरैक्यं, मुक्ता भवन्ति सत्त्वरम् ॥४१०॥ धनपुष्पादिना नैव, प्रभुप्राप्तिः कदाचन । प्रभुप्राप्तिः परप्रेम्णा, प्रभुजीवन जीविनाम् ॥४११॥ महावीरस्य भक्तानां, प्रेमिणां शुद्ध निश्चयात्। नैवजातिस्तथालिङ्गं, नामरूपे न वेषता॥४१२॥ गुरुरेव प्रभुः साक्षात्, प्रभुरेव गुरुः स्वयम्। प्रभुरूपं जगत् सर्व-मितिप्रेमी विलोकते ॥४१३॥ भक्तानां रोदने हास्ये दिव्यानन्दोद्भवःस्फुटः।पूज्यानामान्तरंबाह्य-मिष्टं स्यात्प्रेमदेहिनाम् सद्गुरोर्जन्म वृत्तान्त स्थानादिकं सदा प्रियम्। जायतेप्रेमिभक्तानां, यत्रतत्र स्वभावतः॥४१५॥ जीवने न स्पृहाक्रिश्चित्, मृत्यो तिर्नजायते।भक्तानां वस्त्रवद्देह-धारणत्यजनं तथा॥४१६॥ [३५] For Private And Personal use only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir [ ] विश्वोद्धाराय सत्प्रेम-प्रभुःस्थात् सर्वशक्तिमान् । खण्डदेश समाजाना-मैक्यं साधयति स्वयम् | शुद्धप्रेम न यत्राऽस्ति, तत्र पापतमो महत् । शुद्धप्रेम न यत्राऽस्ति, तत्राऽधर्म प्रवृत्तयः॥४१८॥ शुद्धप्रेम भवेद यत्र, तत्र व्यक्तःप्रभुःसदा। दयासत्यादि धर्माणां, तत्रवासोऽस्ति सर्वथा।४१६॥ शुद्धप्रेमविना शुष्कं, चित्तं सर्वमनीषिणाम् ।शुद्धप्रेम्णा जगत् सर्व-मात्मरूपं प्रभासते॥४२०॥ सर्वेषां हृदयैःसाई, भक्तानामेकता भवेत्। भक्तानां हृत्सुव्यक्तोऽस्ति, महावीरःप्रभुः सदा ४२१ ॥ पश्यन्तु प्रेमिहृत्स्वेवं, प्रभुवीरं जिनेश्वरम्। जाग्रत् प्रभुर्जनैश्यो-भक्तानां देहमंदिरे॥४२॥ | व्यक्त जाग्रत् परब्रह्म-जिनेन्द्रस्य सुभावतः। आरात्रिकं प्रकुर्वन्ति, प्रेमिण आन्तरंस्वतः॥४२३ विश्वस्थाल्यो रविश्चंद्रो-दीपकावेववस्तुतः। केवलज्ञानदेवेन्द्र-मभितो गच्छतः सदा ॥४२४॥ विश्वस्थाल्यां महातेजः, शुद्धप्रेमैवबोधत। देहस्थाल्यां भवेत् दीप-आत्मैव प्रेमजीवनम् ।४२५ परस्परंतु जीवानां, शुद्धप्रेमैव मंगलम् । भवेदतीव सन्धान-कारकं च मनीषिणाम् ॥ ४२६ ॥ शुद्धप्रेमात्म सद्भक्ता-दृश्या वीरस्य भावतः। तेषां पुण्यप्रवाहेण, सुवृष्टि (विमङ्गला ॥२७॥ संसारे वर्तमानस्य, महावीरे मनः सदा । यस्य स प्रेमभक्तोऽस्ति, निर्लेपः सर्ववस्तुबु ॥४२८॥ For Private And Personal use only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobato Acharya Shri Kailassagarsuri Gyanmandir शुद्धप्रेमैव जीवानां, रक्षकोऽस्ति जगत्त्रये।शुद्धप्रेमविना नाऽस्ति, दयादानादि सस्क्रिया ।४२९॥ दुष्कृतानां विनाशाय, धर्मिणां रक्षणाय च।शुद्धप्रेम परिणामा-भवन्ति प्रेम योगिनाम्॥४३०॥ शुद्धप्रेम प्रभुः साक्षा-दन्तर्यामी प्रवर्तते।भक्तानां हृदि संवेद्यो-जैन धर्मः स उच्यते॥४३१॥ यावन्मृत्यु भयंचित्ते, तावत् सत्प्रेम नोप्रभौ।बाह्यानां ममता यावत् , तावद्वीरेनरागता॥४३॥ जैनधर्मे वरं मृत्यु-र्मा तत् त्यागेन जीवनम् ।शुद्धप्रेमी सविज्ञेयो-जैन धर्मार्थ जीवकः ॥४३३॥ कलौसरागधर्मोऽस्ति, त्यागिनां गृहिणां तथा।न्याय्यरागादिधर्मेण, भक्तानां मुक्तिमार्गता४३४ वीतरागोभवेन्नैव, कलौकोऽपि स्वभावतः। अतोदेवादिसेवायां, शुभारागादयः स्मृताः ॥४३५।। भक्तानां स्थूलबुद्धीनां, साकारस्थावलंबनम् । भक्तानां सूक्ष्मबुद्धीनां, शुद्धात्मालंबनं शुभम् ॥ भक्तानां नैवभेदोऽस्ति, वर्णादिर्बाह्यकल्पितः। महावीरमयाः सर्वे, शुद्धप्रेमाधिकारिणः ।४३७| मनोवशीकृतं येन शुद्धप्रेमीसभक्तराट् । जीवन्मूर्तिः प्रभुर्बोध्य-स्तत्सेवाऽर्हत्पदप्रदा ॥४३८॥ दयादानंदमःसत्य, श्रद्धौदार्य चशुद्धता। क्षमासाम्यं च निर्लोभो-माध्यस्थ्यं लघुता तथा॥ सौजन्यं च तपोधैर्य, साक्षित्वं सर्ववस्तुषु।शुद्धप्रेम्णा प्रजायन्ते, गुणाएते मनीषिणाम् ।४४०॥ [१७] For Private And Personal use only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth og Acharya Shri Kailassagarsuri Gyanmandit शुद्धात्मप्रेमसामर्थ्यात् , क्षणिकेषु नरागता। तथात्मनो महावीरे, समाधिर्जायते स्वयम्॥४४१॥ लयंयान्ति महावीरे, मनांसि शुद्धरागिणाम् । स्वयं भूत्वा महावीरा-गच्छन्ति परमपदम्।४४२॥ त्यजन्तु स्वार्थसंबंधान् , भजन्तु भक्तयोगिनः।आत्मशुद्धिं प्रकुर्वन्तु, शुद्धात्मप्रेमयोगिनः ४४३| शुभाशुभं न दृश्येषु यदाकिञ्चिद् भविष्यति। तदा शुद्धात्मसत्प्रेमी, कर्मयोगी भविष्यसि ४४४ संप्रति विपरीतं त्वं, पश्यसि मोहचक्षुषा।शुद्धप्रेमणिसंजाते,सत्यं द्रक्ष्यसि सर्वथा ॥ ४४५ ॥ प्रेम्णस्तु वैखरीभाषा, नास्ति सर्वत्रबोधत।तथापि प्रेमभाषाऽस्ति, सर्वत्रैका परामिका॥ अन्तर्विशुद्धभक्तानां, जैनानां संगतिं कुरु। नास्तिकाऽधर्मिपापानां, सर्वथा संगतित्यज।४४७॥ शुद्धप्रेमणि विक्षेपं, कर्तृणां संगतित्यज । शुद्धप्रेमविहीनानां, ग्रन्थानां वाचनां त्यज॥४४८॥ कुरु सर्वत्र सत्प्रेम, स्वार्थमोहं निवारय । शुद्धप्रेम्णा महावीर-जापं कुरु प्रतिक्षणम् ॥४४॥ गुर्वाज्ञां मस्तके धृत्वा, सर्वं तस्मै समर्पय। सद्गुरुदेवसेवायां, निःशङ्को भव सर्वथा ॥४५०॥ भवे मुक्तौ च सर्वत्र, समत्वं यस्य जायते । पूर्णशुद्धात्मसत्प्रेमी, कुत्राऽपि नैव लिप्यते ।४५१॥ शाब्दिकतार्किकग्रन्थ-कोटिपाठेन किंफलम् ? किं तत्त्वशास्त्रपाठेन ? महावीरं सदा भज।४५२॥ For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir कर्मणा किंच यज्ञेन, किं विवादेन बाह्यतः?। परब्रह्ममहावीरं, प्रेम्णा भजतमानवाः?॥४५३॥ जैनधर्म महावीरं गुरुं च पूर्णरागतः। भज श्रद्धाबलेनैव, सर्वेष्वैक्यं विभावय ॥ ४५४ ॥ भवस्य हेतवो ये ये, ते ते मोक्षस्य हेतवः। भवन्त्यपेक्षया सत्य-प्रेमयुक्तमनीषिणाम् ।४५५ शुद्धप्रेमात्मनोध्यानं, भवत्येव न संशयः । शुद्धात्मप्रेमलीनस्य, समाधिः सततंभवेत् ॥४५६॥ महावीरो परिप्रेम्णा, लीनानां हि समाधयः। अहर्निशं भवन्त्येव, यत्रतत्र यदा तदा ।४५७। उच्चनीचादिभेदास्तु, प्रेमौदार्य विनाभुवि। प्रेमौदार्य विनाविश्वे, कदापिनैवशान्तिता॥४५८ प्रेमौदार्य महादानं, प्रेमौदार्य महत्तपः। प्रेमौदार्य महा भक्तिः, प्रेमौदार्य शुभार्जवम् ।४५६।। ज्ञानादिसर्वयोगेषु, रसः सत्प्रेम वर्त्तते । अतःसत्प्रेमयोगेन, हृदि व्यक्तः प्रभुभवेत् ॥४६०॥ मधुरंप्रियहृयंयत् , तत्प्रेमवानुभूयते। ज्ञानिना व्यक्तभावेन, वैखर्या नैव वर्ण्यते ॥४६१॥ आनन्दोल्लसितं चित्तं, रोगादौ यस्य विद्यते।कीर्त्यादि वासनातीतः, शुद्धप्रेमी स उच्यते।४६२।। गालीदानादितो रोषो-यस्य चित्ते न जायते। भय दुःखादि वृत्तीनां, जेता प्रेमी महान् स्मृतः॥ प्रेमाग्नौ स्वार्थ होमस्तु, यत्रनृणां परस्परम्। जायते तत्र शुद्धात्म-व्यक्तीभावो मनीषिणाम् ४६४/ [ ३९ ] For Private And Personal use only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir - [.. कृत्रिम प्रेमचेष्टाभि-धू विश्वं प्रवंचितम्।सावधानतयाभाव्यं, शुद्धात्म प्रेमधारकैः ॥४६५॥ शीताच्छीततरंप्रेम-मिष्टनिद्रा समं शुभम् । प्रेमाग्नौ पतनं याति, प्रेमी शलभवद् रयात्॥४६॥ | संज्वलत्परमप्रेम, हृदि यस्य निरंतरम् । तस्य किं कर्मकाण्डेन, बाह्यशौचेन तस्य किम् ।४६७४ | जलेऽरण्ये स्थलेद्वीपे, दिनेरात्रौ च देहिनाम्। भक्त्यारक्षेन् महावीरो-जैनेन्द्रः परमेश्वरः॥४६८॥ दोषाःसर्वे गुणायन्ते, वीरस्य प्रेमिणां खयम्।दुष्टवृत्ति विजेतारो-जैनाभक्ताःसुरागिणः।४६६। शुद्धात्मप्रेमि जैनानां, जन्ममृत्युनविद्यते। तेषां कर्माणि मोक्षाय, भवन्ति शुद्धबुद्धितः। ४७०॥ ॥ नपुंसक समास्ते स्युः,प्रेमिणो नाममात्रतः। नामरूपादिके सक्ता-धैर्यशौर्य पराङ्मुखाः ।४७१। वीरप्रेमावधूतानां, प्रारब्ध कर्मवेदिनाम्।साक्षिणांसुखदुःखेषु,मुक्तिःसाक्षात्प्रभासते॥१७॥ आत्मा साक्षितया यस्य, सर्वदृश्यादि कर्मसु।शुद्धप्रेम्णा भवेत्तस्य, सिद्धता मुक्तिरूपिणी ४७३|| वीरवीति सज्जायः, सर्वजाप शिरोमणिः। महावीरोति मंत्रेषु, मंत्रःसर्वार्थसाधकः॥४७४॥ . मृत्युकाले महावीर-जापो मुक्तिप्रदःशुभः। घोरातिघोर कर्माणि, नाशयेत्प्रेमयोगिनाम् ४७५ शुद्धप्रेम्णा महावीर-मयः प्रेमीभवेद्धवम्।बहिरन्तर्महावीरं, विनाकिञ्चिन्न पश्यति ॥४७६॥ anAAAAAAAAAAAAAAAAAAPre - For Private And Personal use only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir कृतकानुसारेण, सुखंदुःखं भवेत् सदा। ज्ञात्वैवं प्रेमिणो वीर-वीरेति जापका जनाः॥४७७॥ शुभार्थं जायते यत्तद् , जानन्ति प्रेमयोगिनः।हर्षशोकं न कुर्वन्ति, कर्मसिद्धांत वेदिनः॥१७॥ महावीरे प्रलीनस्य, समत्वं सर्ववस्तुषु।जायते मुक्तिदं नित्यं, नाशकं सर्वकर्मणाम् । ४७६॥ ममत्वं जायते यस्य, महावीरप्रभो दृढम् । सुगुरौ जैनधर्मे च, तस्य मुक्तिधुवं भवेत् ॥४८॥ घोरासिघोरपापानां,महावीरस्यरागतः। मृत्युप्रान्ते भवेन्मुक्ति-मुह्यन्ति तत्रनास्तिकाः॥४८१॥ जैनधर्मोपरिद्वेषो, यस्यवीरे गुरौ तथा। नास्तिकेषु महापापी, स याति दुर्गतिं सदा ॥४८२॥ नास्तिकानां प्रतीकारात्, महावीरस्य रागिणः। स्वर्गादिसद्गति यान्ति, व्रतायै रहिता अपि ॥ धर्मोद्धाराय जायन्ते, शुद्धप्रेमावतारिणः। दुष्टानां सर्वथा नाशं, कुर्वन्ति सर्वशक्तितः॥४८४॥ पूर्णश्रद्धा सदा कार्या, वीरगुर्वादिके जनैः। श्रद्धामूलं भवेत प्रेम, जैनधर्मे मनीषिणाम्॥४८५॥ तर्कादिकं न कर्त्तव्यं,महावीर प्रभौ कदा। महावीरोक्ततत्वेषु,शङ्का कार्यान रागिभिः॥४८६॥ तर्कशङ्कादितः श्रद्धा,प्रेमनाशो भवेत् खलु।विवादोऽपि न कर्त्तव्यः, कदापि जैन धर्मिभिः । श्रद्धाप्रेमविनाशाय, कुयुक्तितर्ककोट यः। तत्पारं याति नो कोऽपि, तत्त्वस्य तर्ककोटिभिः॥ [४] For Private And Personal use only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४२ ] सर्वज्ञः श्रीमहावीरः सर्वथा सत्यभाषकः । पूर्णश्रद्धाबलेनैव, तस्मिन् प्रेम सुखावहम् ॥४८९ ॥ जैनधर्मसमो धर्मो, नैव भूतो भविष्यति । वेदादनादिकः सत्य-स्तस्यश्रद्धा महाफला ॥४६०॥ तस्य श्रद्धाबलेनैव, पूर्णप्रेम प्रजायते । पूर्णप्रेमबलेनैव, प्रेमी याति परां गतिम् ॥४६१॥ सर्वज्ञ श्री महावीर-देवेन सत्य भाषितम् । तद्वाच एव सद्वेदा - स्तस्य श्रद्धैव मुक्तिदा ॥४६२॥ महावीरागमेष्वेव, श्रद्धाप्रेम सुखप्रदम् । सर्वधर्मान् परित्यज्य, वरिस्य शरणं व्रज ॥४६३॥ वीरागमेषु सत्प्रेम, कलौ मुक्तिप्रदायकम् । मुक्तिप्रयुक्तिभिर्भक्तै- रक्ष्या जैनागमाः सदा ॥ जैनसंघोपरिप्रेम, तथा जैनागमोपरि । यस्य स सर्वभक्तेषु, श्रेष्ठस्तस्मै नमोऽस्तुनः ॥४६५॥ अन्तःप्रेम बहिःप्रेम, यस्य प्रेममयं जगत् । तस्यात्मा व्यापको भूयात्, केवलज्ञानतः स्वयम् ॥ धर्ममाभवेद्यस्य, दुष्टता नैव विद्यते । तस्य भक्तिर्भवेत् सत्या, परमात्मप्रदर्शिका ॥४६७॥ पूर्णप्रामाण्ययोगेन, प्रेमभक्तिः प्रजायते । भक्तिमार्गाधिरोहेण, विनिपातो न जायते ॥ ४६८ ॥ प्रत्यवायो न जायेत, भक्तानां धर्मकर्मसु । जैनधर्मबलेनैव, प्रान्ते मुक्तिर्न संशयः ॥ ४६६ ॥ पूर्णप्रेम महाभक्ति - जैनानां नान्यदेहिनाम् । जैत्रशक्तिविहीनानां, भक्तिर्ज्ञानं न जायते ॥ For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir जैत्रशक्तिर्भवेद्यत्र, तत्राऽस्ति जैनशासनम् । जैत्रशक्तिप्रतापेन, शुद्धप्रेम प्रजायते॥५०॥ भक्तानां परिणामेषु, कृत्येषु नैव दोषता। भक्ताः सर्वत्र निर्दोषा, धर्म्यकर्तव्यकारकाः॥५०२॥ अब्धिवत् पूर्णगंभीराः, क्षुद्रादिदोषवर्जिताः। भक्ता भवन्ति सत्पात्रं,शुद्धप्रेमाधिकारिणः ॥ हठादिसर्वयोगाना, लयो भक्तौ प्रजायते । साधिते भक्तियोगे तु, सर्वयोगाः प्रसाधिताः॥ सर्वजातीयमंत्राणां, लयोऽस्ति वीरनामनि। सर्वशक्तिसमुत्पत्ति-महावीरस्य जापतः॥५०५॥ सर्वकर्मविनाशोऽस्ति, महावीरेतिजापतः। महावीरप्रभोर्जापे, बुद्धिलक्ष्मीसमृद्धयः ॥५०६॥ महावीरस्य भक्तानां, देवदेवीसहायता। यत्र तत्र भवेद् गुप्त-रूपेण सत्यनिश्चयः ॥५०७॥ दर्शनं देवदेवीनां, वीरभक्तस्य जायते। स्वप्नेऽपि तस्य बोधस्य, प्रदाता सद्गुरुर्भवेत् ॥५०८॥ महावीरप्रभोक्ता-महावीरेतिगर्जनाम्। कुर्वन्ति पूर्णभावेन, वीरकल्याणकोत्सवे । ५०६॥ जिनेन्द्रश्रीमहावीरे, सद्गुरौ जैनशासने । नामरूपलयं कृत्वा, वर्तितव्यं सुरागिभिः ॥५१०॥ पूर्णविश्वाससत्प्रेम्णा, प्रत्यक्षसद्गुरौजनैः। ममत्वस्य लयं कृत्वा, कर्तव्यं कर्म सर्वदा । ५११॥ सत्कर्तव्योपरिप्रेम, कर्तव्यं शुद्धरागिभिः। यत्र प्रेम भवेत् तत्र, चित्तैकाम्यं प्रजायते ॥१२॥ [३] For Private And Personal use only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४४ ] धर्माकर्षणयोगेन, आत्मा कृष्णोभवेत् स्वयम् । निजात्मा वासुदेवोऽस्ति, महावीरः स्वर्यितः गोप्यस्तुवृत्तयः सर्वा - स्तासामन्तः प्रपालकः । गोपालः सर्वथात्मैव, न च देहो विनश्वरः ॥ ५१४॥ वज्रादपि कठोराणि, हृदयानि मनीषिणाम्। मृदूनि पुष्पवच्छीघ्रं भवन्ति प्रेमशक्तितः ॥ ५१५ ॥ निष्ठुरस्यापि कारुण्य-मज्ञस्यापि प्रकाशता । सर्वात्मसु च सौन्दर्य, शुद्ध प्रेमामृताद् भवेत् ॥ आस्तिक्यं नास्तिकस्यापि, शुष्काणामार्द्रता हृदि । शुद्धप्रेमामृतस्वादाद्, जायते स्वीयभक्तितः यस्यात्मा प्रेमरूपोऽस्ति, तस्य प्रेममयं जगत् । प्रेमात्मा यः स्वयं नास्ति, तस्य शून्यं जगद् भवेत् । मानवेन्द्राः सुरेन्द्राश्च, दानवाश्चक्रवर्तिनः । वराका इव विज्ञेयाः, शुद्ध प्रेमामृतं विना ॥५१६ ॥ सात्त्विकप्रेमसाम्राज्यं, यस्य जीवनताभृतम्। तस्याग्रे निष्ठुर स्वार्थ - दोषा जीवन्ति नो कदा ॥ आत्मप्रेम भवेन्नित्य-मानन्दा द्वैतरूपकम् । जडप्रेम भवेद्देह - वित्तादिसंभवं तथा ॥ ५२१ ॥ आत्मप्रेम्णाभवेन्मुक्ति-र्जडप्रीत्या तु संसृतिः । ईश्वरोपासको ह्यात्म-प्रेमीचान्यो भवेज्जडः ॥ देहस्य भोगिनो नैव, किन्तु सौन्दर्य भोगिनः । आत्मनां मनसां चैव, ज्ञानाग्निपक्वरागिणः ॥ ते प्रेमतो विश्वं, गुप्तभेदं प्रकाशते । प्रेम्णा विश्वं वशीभूतं, जायते भक्तियोगिनाम् ॥ ५२४॥ For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagersuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शुद्धप्रेम जगत्स्वामी, कोऽपिनास्ति च तत्समः। प्रिय आत्मा प्रभुर्देवः, प्रिय एव जगत् प्रभुः॥ आत्माग्नौ प्रेमिणो भक्ता, पतन्तिशलभाइव। कुर्वन्ति भस्मसात् देहान्, गच्छन्ति परमां गतिम् | यत्रतत्राऽपि सत्प्रेम्णा, प्रभुमत्वा विवेकिभिः। कर्त्तव्यं तन्मयं चित्तं, ततो व्यक्तःप्रभुर्भवेत्॥ शुद्धप्रेम महायोगो-यस्य वीरोपरिस्फुटः।समाधिस्तस्य भक्तस्य, यत्र तत्र निरन्तरम । ५२८ । शुद्धप्रेम महायोगो-यस्य शुद्धात्मनः सदा। वर्तते तस्य भक्तस्य-समाधिः स्यादहर्निशम् ५२९ सर्वेषां धर्मिणां धर्मः, सत्प्रेमैव महीतले।सर्वधार्मिक लोकाना-मैक्यं सत्प्रेमतो भवेत्॥५३०॥ जातिलिङ्गादि भेदानां, नाशःप्रेम्णा प्रजायते। सर्वात्मनां भवेदैक्यं शुद्धप्रेमरसा ध्रुवम् ५३१ अनेकान्तनये ज्ञाते, शाश्वते जैनशासने। अनेकान्तमहाप्रेम, जायते भेदनाशकम् ॥ ५३२॥ आत्मरूप महावीर-प्रियस्य पूर्णरागतः। गेयानि सर्वगानानि, सर्ववाद्यैर्जनैः खलु ॥५३३॥ आत्मतानस्य गानेन, तन्मयोगायकोभवेत्। हर्षोल्लासस्ततोवीर-दर्शनं जायते स्फुटम्॥५३४॥ परिणीतपतिर्नार्या-व्यवहारनयात्मतः। परब्रह्म महावीरः, सर्वेषामान्तरः पतिः ॥५३५॥ प्रेमशास्त्रस्य पाठेन, शुद्धप्रेम न जायते । प्रेमिणां संगतेः प्रेम, जायते पूर्णनिश्चयः ॥५३६॥ [४] For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir [४] शुद्धानुभवसत्प्रीत्यां, नास्ति किञ्चित् प्रयोजनम्। नयप्रमाणनिक्षेप-बुद्धिवादस्य वस्तुतः॥ नचतर्कादिभिः प्रेम, जायते भक्तदेहिनाम् । तर्कवादलयेनैव, शुद्धप्रेम प्रजायते ॥५३८॥ सर्वजातिभयं नास्ति, शुद्धप्रेमणि योगिनाम् । संति नैव कषायाश्च, मिथ्याबुद्धिर्न वर्त्तते ॥ निर्विकल्पात्मरूपस्य, दर्शनं प्रेमभक्तितः। जायते पूर्णभक्तानां, तद्दशा नैव गुप्यते॥५४०॥ शुद्धप्रेमसमा शक्ति-विद्यते न जगत्रये। यस्य शक्त्या भवेत् सेवा, विश्वस्य सर्वहोमतः॥ शुद्धप्रेमसमं मंत्र, यंत्रतंत्रं न विद्यते । व्यापकं विश्वसत्प्रेम, ब्रह्मप्रेमेव कथ्यते ॥ ५४२ ॥ जीवाजीवादितत्त्वज्ञः, आन्तरप्रेमयोगतः। मृत्युकालेऽपि वीरस्य, स्मृतेर्भक्तः शिवं व्रजेत् ॥ शुद्धात्मप्रेम कुर्वन्तु, भक्ताः प्रेमिसमागमात् । महावीरस्य भक्तानां, तत्प्रेमैव परंतपः ॥ महावीरोपरिप्रेम-मात्रं सर्वं यमादिकं । तद्ध्यानं तत्समाधिश्च, लययोगो भवेत्ततः ॥५४५॥ अभेदप्रेमयोगेन, मानवपशुपक्षिणाम् । देहोत्सर्गात्मिका सेवा, जायते दुःखनाशिका ॥५४६॥ अभेदः सर्वजीवेषु, भवेन्निर्भेदरागतः। पश्चात् सर्वत्र शुद्धात्म-वीर एव प्रदृश्यते ॥ ५४७ ॥ ब्रह्मज्ञानान्महत्प्रेम, जायते दिव्यदेहिनाम् । आन्तरिकसमुत्क्रान्ति-र्जायते च प्रतिक्षणम् ॥ For Private And Personal use only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir श्रात्मिकं मानसं प्रेम, जायते ज्ञानचक्षुषाम् । ततो दिव्यसुखास्वादा - दवधूतो भवेज्जनः ॥ ५४६ ॥ - स्वर्गएवाऽस्ति सत्प्रेम, यत्रतत्र मनीषिणाम् । सत्प्रेमतो विहीनानां श्वभ्रमेवगृहं वनम् ॥५५०॥ शुद्धप्रेमविना यस्य, मनोराज्यं प्रवर्त्तते । विश्वराज्यस्य संप्राप्तौ तस्य शान्तिर्न जायते ॥ ५५१ ।। यावद् भौतिकभावेषु, दृढरागोऽभिजायते । तावत् शुद्धात्मसत्प्रीते- रधिकारो न संभवेत् । चमा पृथ्वीस्वरूपास्ति, सत्यप्रेम विभावय । जलं शान्तिस्त्ररूपं तत्, सत्यप्रेम हृदि स्मर ॥ ज्ञानं वह्निस्वरूपं तत्, सत्यप्रेम जगत् प्रभुः । रागादिकर्मणां भस्म - सात्करोतिमनीषिणाम् । ध्यानं वायुस्वरूपं तत्, सत्यप्रेम महाविभुः । जीवति नैव जीवोऽपि यं विनात्मस्वभावतः । ५५५ । आत्माकाशस्वरूपोऽस्ति, व्यापक प्रेम बोधत । भूतरूपकसत्प्रेम, तत्प्रतीकं जगत् सदा ॥ आत्मभास्करसत्प्रेम, तथात्मचंद्ररूपकम् । तारकासंख्यरूपेण, सत्प्रेमात्मा स्वयंसदा । ५५७ | सह्यन्ते ऽनन्तदुःखानि, सत्य प्रेमबलाज्जनैः । श्रात्मनोऽनन्तसामर्थ्यं, शुद्धप्रेम्णा प्रकाशते ॥ सर्व जातीय विद्यायाः, प्रेमशक्ति प्रदर्शकम् । स्वातन्त्र्य रक्षकं प्रेम, तदभावे हि शून्यता । ५५६ । यत्रप्रेम भवेत्तत्र, मरणं जीवनंसमम् । सर्वाशाजीवनं प्रेम, यत्रतत्र प्रयत्नता ॥ ५६० ॥ 1 [ ४७ ] For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassaga suri Gyanmandir Shri Mahavit www.kobatrth.org in Aradhana Kendra [४८ ] सर्वविश्वकसाम्राज्यं, शुद्धप्रेम्णः प्रवर्त्तते । यस्याने कालचक्रस्य, भयं किञ्चिन्न वर्तते ॥ शुद्धप्रेमी स्वमंतव्ये, प्राप्नोति न पराभवम् । प्रेमसंस्कारसामर्थ्यात् , कार्यसिद्धिकरो भवेत्॥ प्रेमागे हि गिरीन्द्रोऽपि, कम्पते नास्ति संशयः। अशक्यमपि सत्प्रेमी, करोति सर्वथा भुवि॥ महावीरोपरिप्रेमि-लोकानां सर्वसिद्धयः । शीघ्रं भवन्ति सर्वेषां, तत्रकिञ्चिन्न संशयः ॥५६४॥ शूरैरवाप्यते प्रेम, निर्बलेनैव लभ्यते। धर्म्यकामस्यभोगोऽपि, शुद्धप्रेम्णालयं व्रजेत् ॥५६५।। सत्यप्रामाण्यसद्भाव-स्वार्थत्यागपरार्थतः। विशुद्धप्रेमदिव्यात्मा. प्राप्यते भव्यमानवैः ।। आगतस्वागतं प्रेम्णा, सत्कारात्मनिवेदनम् । प्रणिपातादिकं दिव्यं, जायते भक्तयोगिनाम् । अन्तर्यामिप्रभुं साक्षात् , दृष्ट्वा सर्वत्र देहिषु। तेषां पूजाच सत्सेवा, प्रेमभक्तै विधीयते।५६८। सत्यप्रेमविना लग्नं, कल्पते न द्वयोः कदा। कायलग्नमपि प्रेम, विना न नरयोषिताम् ॥ ५६९॥ आर्याणां प्रेमशुद्धत्वं, प्रामाण्यं तद्बलाद्भवेत् । आत्मनां गुप्त सज्ज्ञानं, शुद्धप्रेम्णा प्रकाशते॥ सूर्योदयेन पद्मानां, विकासोऽस्ति यथा भुवि। तथाचित्तविकासस्तु, नृणां प्रेमिसमागमात् ।। अभेदप्रेमयोगेन, मनुष्याणां परस्परम् । अद्वैतं जायते पूर्णं, सापेक्ष निरपेक्षकम् ॥५७२॥ For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairthorg Acharya Shri Kailassagarsuri Gyanmandir आन्तरं मानसं प्रेम, तथात्मिकं चिदात्मकम्। कायाद्युपाधिभेदेन, बाह्यं हि क्षणिकं स्मृतम् ५७३ अशुभं च शुभं ज्ञेयं,मानसं प्रेम मानवैः। शुभं स्वर्गादि सौख्याय, श्वभ्रायचाशुभं स्मृतम् ॥ आत्मिकं प्रेम मोक्षाय, बाह्य दुःखाय देहिनाम् । आत्मिकं मानसं बाह्यं, प्रेमसापेक्षबुद्धितः॥ महावीरस्य जैनानां, परस्परसमागमे। अपूर्वानन्दसंप्राप्ति-र्जायते भक्तियोगतः ॥५७६॥ महावीरोपरिप्रेमि-जैनानां हि परस्परम् । जीविका व्यवहारेण, साहाय्यं सर्वथा भवेत् ॥ शुद्धप्रेमामृतं पूर्णं, सच्चिदानन्दजीवनम् । अहमेव त्वमेवास्मि. मत्त्व दो न भासते॥५७८॥ क्रोधक्लेशविनाशेन, मैत्रीभावस्य जीवनम् । सर्वधर्मस्य सन्मूलं, शुद्धप्रेम प्रजायते ॥५७६ ॥ ज्ञानेनोत्पद्यते प्रेम, निःस्वार्थेन प्रवर्धते । विश्वसेवाफलं शीघ्रं, प्रेमवृक्षस्य जायते ॥ ५८०॥ प्रेममेधेन सिञ्चन्तु, जीवा विश्वद्रुमावलिम्। प्रेमात्मवायवो वान्तु, विश्वोद्यानेषु सत्त्वरम् ।९८१॥ विश्वविश्वासयोगेन, स्नानं कुर्वन्तु सजनाः। निमजन्तु च भावेन,शुद्धप्रेमात्मवारिधौ ।५८॥ आत्मपाथोधिरूपस्त्वं,शुद्धप्रेमाऽस्तु जीवनम् ।त्वयि मृत्युर्नकस्याऽपि,मृत्युः पुद्गलपर्ययः।५८३॥ विश्वं विकासते प्रेम-रसयोगेन सर्वदा। आत्मरूपं जगत् सर्वं, तस्य प्रेमविकासनम् ॥८॥ [४९] For Private And Personal use only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [५० ] पशुपक्षिगणेष्वेव, वनस्पत्यादिषु स्फुटम् । मानवदेवलोकेषु, प्रेमज्योतिः प्रकाशते ॥ ५८५ ॥ पशुपक्ष्यादिगीतेषु, सत्प्रेमात्मा विलासते । प्रेममाधुर्यसाम्राज्यं, स्वर्गादिशर्मरूपकम् ॥ ५८६॥ सर्वजीवाधिदेवत्वं, प्रेमविश्वस्य जीवनम् । त्वयि विश्वस्य कर्तृत्वं, भासते त्वत्स्वभावतः । ५८७॥ परब्रह्म महावीर ? त्रैलोक्यजीवजीवन ? । शुद्धप्रेमस्वरूपं श्री - जैनधर्मं समर्पय ॥ ५८८ ॥ पूर्णानन्दरसोऽसि त्वं, सर्वजीवान् प्रफुल्लय । शुद्धप्रेमरसाब्धे ? त्वं, शुद्धप्रेम समर्पय ॥ ५८६ ॥ शुद्धप्रेम रसाद्वैतं वर्त्तते जैनशासनम् । एकोऽप्यनेकधारूप- स्त्वमेवैकजगत्प्रभो ? ॥। ५९० ।। यद्यत् क्षणिकरूपं तत्, प्रेमाधारो न विद्यते । नित्यात्मा शुद्धबोधादि - प्रेमाधारो निगद्यते । ५६ १ ॥ सदेवात्माऽस्ति विश्वस्य, ज्ञायकश्च प्रशासकः । आत्मभिन्नमसद्द्रव्यं, जडमेवास्ति सर्वथा । ५६२ ॥ सदात्मा प्रेमपाथोध-रनन्तज्ञानवान्महान् । यत्र प्रेम भवेत्तत्र, रसः सज्योतिषां सदा ॥ ५६३॥ सत्प्रेमी पूर्णतामेति, पूर्णः पूर्णेन पूर्यते । शुद्धात्मनि सदा सन्ति, पूर्णस्य कारकाणि षट् । ५६४ प्रेमशब्देन वाच्योऽस्ति, सदात्मा विश्वपर्यवी । शुद्धप्रेमैव शुद्धात्मा, ज्ञानज्ञेयस्वरूपवान् । ५६५॥ प्रतिष्ठाया भयं नास्ति, यस्य कीर्त्तेर्भयं तथा । तस्य प्रेमरसावाप्ति- र्भवेत्तत्र न संशयः ॥ ५६६ ॥ For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir सर्वभयप्रसंगेषु, महावीरस्य जापतः । यस्यात्मा निर्भयो भाति, तस्य प्रेमविशुद्धता ।५६७। भीतिरूपं न यस्याऽस्ति, किञ्चिदपि जगत्रये। कामादि वासनामुक्तो-वीरः स एव वीर्यवान् ५६८ आत्मा वीरोऽस्ति लोकानां, सर्वपापाऽपहारकः । अतो जीवाःप्रयत्नेन भवन्तु वीररागिणः५९६ महावीरस्य शरणं, व्रजन्तु सर्वदेहिनः । वीरवीरेति जापेन, जीवन्तु रसयोगतः॥ ६०० ॥ विचाराचारलालित्यं, शुद्धप्रेमरसात्मकम् । शुद्धप्रेमात्मनां स्वच्छं, जायते वीरजापतः॥६०१॥ साकारो देहयोगेन, निराकारः स्वरूपतः। महावीरो हृदि ध्येयः, शुद्धप्रेममयैर्जनैः ॥ ६०२ ॥ निराकारादपि श्रेष्ठो-वीरः साकाररूपवान्। प्रभोः साकाररूपेण, विश्वोद्धारो भवेद्रयात्।६०३। पूर्णानन्तोपकारस्तु, देशनाद्यैर्भवेद्यतः। अतः साकारवीरस्य, श्रेयस्ता चोपकारता ॥६०४॥ आकारः पुद्गगलैर्योगात् , सतु प्रकृतिरुच्यते। प्रकृतिमन्तरा कोऽपि, नास्ति विश्वोपकारकः प्रकृतिमन्तरा कोऽपि, प्रकृत्या न विमुच्यते। परस्परोपकारस्तु,साकारात् सर्वदेहिनाम् ।६०६। अतोऽनन्तगुणश्रेष्ठो-वीरः साकाररूपवान्। गेयः पूज्यः सदाध्येयः,प्रेमिभिरात्मरूपकः॥६०७॥ निराकारो महावीरः पूर्णशुद्धोपयोगिभिः। देहस्थ आन्तरः पूर्णः, प्राप्यते व्यापको महान्।६०८| [५१] For Private And Personal use only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassage sur Gyanmandir [५२] अन्तरात्ममहावीर-साकारस्य कलौ सदा। जापः स्मृतिश्च सत्यूजा,कर्तव्या प्रेमतानतः ।६०६। सर्वजीवैः सहाऽभेद-आत्मनः सर्वथा यदा। तदा स्वयं महावीरो-भक्त्यात्मा जायते खलुा६१०॥ भावेषु विद्यते वीरो-नाभावेषु कदाचन । आत्मभावानुसारेण, भवेद् वीरः फलप्रदः ॥६११ ॥ महावीरोपरिप्रेमि-लोकानां सर्वसंपदः । जायन्ते पुत्रपौत्राद्या-स्तत्र किञ्चिन्न संशयः ॥६१२॥ महावीरोपरिप्रेमि-लोकानां पूर्णभक्तितः। विद्यासत्तादितः पूर्णा, समुत्क्रान्तिर्भवेत्सदा ॥६१३॥ महावीरोपरि प्रेम, यस्य पूर्णं भवेत् खलु। तस्योपरि महावीर-कृपा पूर्णा सदा भवेत् ॥६१४॥ महावीरोपरिप्रेम-जैनानां पशुपक्षिषु।समाजे च भवेत्सेवा, वित्तादिस्वार्पणात् सदा ॥६१५॥ जैनानामुपरिव्यक्त-प्रेमिजैना भवन्ति ये। महावीरपदं यान्ति, परस्परसहायतः ॥६१६॥ उद्धारो नास्ति विश्वस्य, जैनधर्माश्रयं विना। महावीरसदाझैवं, प्रेम्णा सर्वत्र गर्जति ॥६१७॥ महावीरोपरि प्रेमि-जैनाः शौर्यादि संयुताः।प्राणादि सर्वनाशेऽपि, भ्रष्टा भवन्ति नो कदा ६१८ अन्य धर्मोपदेशेऽपि, मिथ्यागुरुसमागमात् । महावीरस्य विश्वासात् , चलन्ति कर्हिचिन्न ते॥ महावीरस्य सत्प्रेमा, कन्यावित्तादिलोभतः। तथान्यरागयोगेन, न जैनेन्द्रं गुरुं त्यजेत् ॥६२०॥ For Private And Personal use only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir भावनाप्रेमसामर्थ्य, बीजरूपं प्रबोध्यते । सर्वसेवाप्रवृत्त्या तु, फलरूपं प्रजायते ॥ ६२१ ॥ वार्तारूपं तु यत्प्रेम, तत्तुभावस्य कारणम् । भावनाप्रेमपाकेन, कार्य प्रेम प्रजायते ॥६२२॥ सर्वकर्तव्यकार्येषु, यस्य प्रेम भवेद् दृढम् । तस्य कार्यस्वरूपेण, सत्यप्रेम निगद्यते ॥६२३॥ अधिकारोऽस्ति कार्येषु. दिव्यप्रेमात्मनां सदा। कामस्वार्थादियुक्तानां, तत्रास्ति नैव योग्यता॥ दिव्यप्रेमी भवेजैनो-धर्म्यलग्नादिकर्मठः।आत्मनां पूजकः पूर्णो-जडस्य न च पूजकः ॥६२५॥ आत्मानमन्तरा कोऽपि, प्रेमरूपो न बोध्यते। ज्ञानिना ज्ञानयोगेन, ज्ञायते सर्वदा खलु ॥६२६॥ पिण्डब्रह्मांडकार्येषु. दिव्यप्रेम विलोकते।आत्मभावेन दिव्यात्मा, यत्र तत्र यदा तदा ॥६२७॥ खण्डनं मण्डनं नैव, न च तर्कविवादता।शुद्धप्रेमणि भक्तानां, दृश्यो वीरो जिनेश्वरः ॥६२८॥ परब्रह्म महावीर-एकएव महाप्रभुः । प्रेमिणां सर्वथाऽऽधारः, कलौ प्रेम्णैव तारकः ॥६२६॥ सर्व विश्वमयं वीरं, जानाति तस्य वीरता। वीरस्य प्रेममात्रेण, कलौ मोक्षोऽस्ति देहिनाम् ।। परब्रह्म महावीरे, प्रेमधारणमात्रतः। कृत्स्नकर्मक्षयो मोक्षो-भवेत् तत्र न संशयः ॥ ६३१ ॥ सम्यक्त्वस्य रुचिःप्रेम, भाषितं तीर्थ नायकैः। कलौ वीरस्य प्रेम्गौव, निष्कर्मो जायते जनः॥ For Private And Personal use only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyomandi A [५४ ] महावीरस्य भक्तानां, नराणां योषितां शिवम्। भवत्येवकलौ प्रान्ते, तत्र किञ्चिन्न संशयः॥ महावीरस्य वृत्तान्त-गीतस्तुत्यादिभिर्जनैः। कर्तव्या नवधा भक्ति-निश्चयव्यवहारतः ६३४ महावीरप्रभुःसेव्य,-एकएव सनातनः। महापापात्मनां मुक्ति, ददात्येव स्वभावतः ॥६३५॥ आत्मानः श्रीमहावीराः, सर्वेषां सत्तया सदा। शुद्धात्मप्रेमतस्तेस्यु-र्व्यक्तितः परमेश्वराः ॥ महावीरोपरिप्रेम-कारिणां भक्तदेहिनाम् । नैव विघ्नादि संपातो-भवत्येव सुभक्तितः ॥६३७॥ महावीरस्य नामादि-प्रेमिणां भक्तदेहिनाम् । अति शीघ्रतया मुक्ति-र्जायते नान्यथा कदा॥ प्रेमामृतमयं विश्वं, दृश्यते प्रेमदृष्टितः। प्रेमज्योतिर्मयं विश्वं, प्रेमदृष्ट्या विलोक्यते ॥६३९॥ जैनधर्मे रुचिर्यस्य, तस्मै किं रोचतेऽपरम् ! तृषितः स्वर्णदीतीरे. कूपं वांच्छति कः सुधीः१।६४०॥ यस्यजैनोपरिप्रेम, जैनधर्मे च सर्वथा । वर्त्तते स्वात्मभोगेन, तस्य मुक्तिर्न संशयः॥६४१॥ वीरभक्तिर्जनैः साध्या, सर्वकल्याणकोत्सवैः। महावीरचरित्रस्य, श्रवणात् प्रेमवान् भवेत् ॥ परब्रह्म महावीरः, सर्वज्ञपरमेश्वरः। तस्मिन् विश्वासयोगेन, शुद्धप्रेम प्रजायते ॥ ६४३ ॥ सर्वद्रव्यजगच्छेष्ठ-कर्ता हर्ता प्रभुः स्वयम् । वीरो यस्य हृदि व्यक्तः, शुद्धप्रेमी स उच्यते॥ AAAAA For Private And Personal use only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवप्रेम गुरोः प्रेम, धर्मप्रेम च मुक्तिदम् । विज्ञायेति महावीर - भक्तो याति परंपदम् ॥६४५॥ सर्वात्मानो महावीराः, संग्रहसत्तया स्फुटम्। तेषामुपरि सत्प्रेम, सेवा मोक्षाय देहिनाम् । ६४६ ॥ प्रतिघत्रं महावीर - मूर्तिपूजाविधायकः । गुरोः पूजाविधाता च, भक्तो मोक्षाय कल्पते॥६४७॥৷ व्यापक प्रेमसद्भक्त्या, सर्वविश्वस्य देहिनाम् । उपकाराय जीवेद्यो - वीरभक्तः स सर्वथा ॥ ६४८॥ प्रेमयोगं समाश्रित्य, अनन्ताः परमं पदम् । याता यान्ति च यास्यन्ति, जीवा आन्तरजीवनाः ॥ असंख्य दृष्टिभिर्मोक्षो - महावीरेण दर्शितः । तत्र सत्प्रेमतोमुक्ति - जयते सर्वदेहिनाम् ॥ ६५० ॥ कलौ तु प्रेमयोगेण, मुक्तिमार्गः प्रवर्त्स्यते । सर्वभव्यात्मनां शान्ति-दायकः पापरोधकः । ६५१ मिथ्यायुक्ति शतेनाऽपि, जैनधर्मान्न यश्चलेत् । जैनधर्मः स विज्ञेयः, सत्यप्रेमा स्थिराशयः। ६५२ परब्रह्म महावीरं, विना देवो न विद्यते । इत्येवं निश्चयो यस्य, तस्यैव भक्तियोग्यता ॥ ६५३ ॥ संप्रति विद्यमानाना-मागमानां तथा कलौ । सूरिवाचकसाधूनां श्रद्धया प्रेमपात्रता ॥६५४॥ वीरभक्तस्य गांभीर्यं, पूर्णसागरवद् भवेत् । चाल्यते नैव देवेन्द्र - देहादिनाशतः कदा ॥ ६५५॥ महावीरस्य सत्प्रेम, भक्तानां शरणं सदा । सर्वधर्मान् परित्यज्य, वीरस्य शरणं व्रज ॥ ६५६ ॥ [ ५५ ] For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagar Gyanmandit [५६] प्राणान्तेऽपि न मुञ्चन्ति-महावीरं च सद्गुरुम्। जैनधर्म न मुश्चन्ति, लोकास्ते प्रेमयोगिनः॥६५७ चित्तेन क्रियते यद्यत् , क्रियते यच्चवाचया। देहेन क्रियते तत्स्यात्, वीरस्य प्रेमपूजनम् ।६५८। महावीरमयं चित्तं, महावीरमयं वचः। महावीरमयो देहो भूयान्मे सर्वथा सदा ॥ ६५६ ॥ कृतं करोमि यत्सर्वं, करिष्यामि च भावतः। तत्सर्वं प्रेमयोगेन, भूयाद् वीरार्पणं सदा ॥६६०।। विश्वं प्रेममयं भूयात्. तथा श्रीजैनशासनम् ! सर्वसंघस्य मांगल्यं, भूयात्सर्वत्र सर्वदा ॥६६११ श्रीमहावीरगीतायां, भक्तियोगः प्रदर्शितः । तत्र सत्प्रेमतो मुक्ति-महावीरेण दर्शिता ॥६६२॥ मया तदनुसारेण प्रेमगीता प्रदर्शिता। महावीरप्रभोः पत्नी, यशोदा प्रेमरूपिणी ॥ ६६३ ॥ गृहादर्शस्तु लोकाना-मादेयो द्रव्यभावतः। महावीरस्य मे भूयात् , तथा प्रेमप्रवर्धकः ॥६६॥ त्यागादर्शमहावीरः, त्यागिनां मोक्षहेतवे। भूयात् सत्प्रेमयुक्तानां, सर्वकल्याणकारकः ॥६६५॥ त्यागादर्श महावीरे,गौतमस्वामिनश्च मे। शुद्धप्रेमास्तु लोकानां, सात्विकं शरणं महद् ।६६६। जैनानां जैनशास्त्राणां, सद्गुरूणां विशेषतः। सत्प्रेम पूर्णमोक्षाय, जायते पञ्चमाऽरके।६६७ तपोभिः संयमै पैः, किं फलं जायते कलौ। महावीरप्रभुप्रेम्णा. मोक्षो भवति देहिनाम् १६६८ For Private And Personal use only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirthang Acharya Shri Kailassagauti Gyanmandit ॐतत्सत् परम प्रेमिन् ! महावीर महाप्रभो!। सर्वविश्वोपकाराय,भवतु त्वत्पदाम्बुजम् । ६६९ शमस्तु सर्वलोकानां, जैनशासनरागिणाम् । कलो प्रेममयं जैन-शासनं जयतात्सदा ।६७०। परंपराप्रवाहेण, प्रेमगीता प्रवर्त्तिता । उद्धृता भक्तियोगेन, यशोभद्रेण सूरिणा ॥ ६७१ ॥ परंपरोद्धृता भूयात् , सर्वत्र पञ्चमाऽरके । भक्तियोगस्य सद्बोध-दायिनी मुक्तिवाहिनी।६७२। गृहत्यागदशापूर्ण-महावीरयशोदयोः। निष्कामप्रेमयोगोऽस्तु, लोकानां शरणं सदा । ६७३ । नेत्र द्वीप रस क्षोणी-[१९७२] प्रमिते वैक्रमेशुभे। वत्सरे श्रावणे शुक्ल पञ्चम्यां भृगुवासरे।६७४। विद्यापुरीयसंघेन, प्रार्थितेन महर्षिणा । चतुर्मासस्थितिं तत्र-विधाय सुसमाधिना ॥६७५ ॥ प्रेमगीता सुगीतेयं, बुद्धिसागर सूरिणा। लोकत्रयी पठित्वेमां, नन्दतात्सुचिरं भुवि ॥६७६ । यावद्भूमण्डलं धत्ते, यावच्चन्द्रदिवाकरौ। तावदुल्लासतामेतु, प्रेमगीतेयमुत्कटा ॥ ६७७ ॥ अध्यात्मरसनिर्भिन्ना, प्रेमगीतेयमद्भुता। प्रेमिण प्रेमतो देया, यादृक्तादृक् जनस्य नो ।६७८ छद्मस्थत्वात्प्रमादाद्वा, क्वाऽपि दोषस्य संगतिः। वायते मतिमद्भिश्चेत्-क्षन्तव्यं कृपया मयि । मगलं भगवान् वीरो-मङ्गलं गौतमप्रभुः। नैगमायैर्नयैः सर्वे-जैनधर्मोऽस्तु मङ्गलम् ॥६८०॥ For Private And Personal use only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ५८ ] सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम्। प्रधानं सर्वधर्माणां, जैनं जयतु शासनम् ॥ ६८१ ॥ Acharya Shri Kailassagarsuri Gyanmandir इति श्रीस्वपरसमयपारावारपारीणजैन तत्त्व महोदधिशास्त्रविशारद योगनिष्ठाध्यात्मज्ञानदिवाकरजैनाचार्य श्रीमद् बुद्धिसागरसूरीश्वरविरचिता श्रीप्रेमगीता समाप्ता. For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavit Jain Aradhana Kendra www.kobatirthat Acharva Shri Kailassagersuri Gyanmandit For Fate And Personal use only