________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २ ]
ऐक्यं सर्वात्मभिः सार्द्ध-मनुभूयेत वस्तुतः । तत्प्रेमैव महाब्रह्म - रसाऽनुभवदायकम् ॥ ६ ॥ सर्वजातीयजीवानां, देहमन्दिरवासिनाम् । आत्मवद्दर्शनं नित्यं, विशुद्धप्रेमतो भवेत् ॥१०॥ सर्वदोषा लयं यान्ति, शुद्धप्रेमप्रभावतः । यत्र यत्र भवेत् प्रेम, तत्र तत्र न दुष्टता ॥११॥ सर्वव्यापकरागेण, निन्दादिदोषसंक्षयः । प्रशस्यप्रेम पुण्याय, मोक्षाय च मनीषिणाम् ॥१२॥ प्रशस्येन रागेण, भवे दुःखपरंपरा । सर्वदुःखविनाशाय शुद्धप्रेम कुरुष्व भोः ? ॥१३॥ प्रेम्णा गुणाः प्रजायन्ते, सत्प्रेमैव महातपः । सत्प्रेमैव महायोगो - मैत्र्यादिभावमूलकम् ॥ १४॥ शुद्धप्रेमैव सीताऽस्ति, स्वात्मारामः सनातनः । आत्मा कृष्णो हरि वीरो - राधाप्रेमैव भाखती ॥१५॥ पृथ्वीरूपाऽस्ति सत्प्रीति-धर्मयोनिर्हिशाश्वती । नभोरूपः सदात्माऽस्ति, ज्ञानलिङ्गः सनातनः॥ शुद्धात्मैव महादेवः, सत्प्रीतिः पार्वती शुभा । जीवानां देहरूपेषु, मंदिरेषु विराजते ॥ १७॥ स्वाऽर्पणं प्रेमयोगेन मुक्तिः सात्त्विकरागतः । शुद्धप्रेमविहीना ये, निर्जीवा नीरसा जनाः | १८ | प्रेमरूपाऽस्ति सद्भक्ति-रात्मवद् विश्वदर्शिका । पिण्डब्रह्माण्डयोरैक्यं, जायते नैव संशयः॥१६॥ श्रात्ममनःशरीरेषु, प्रेमाविर्भावता भवेत् । मानन्दोल्लासरोमाञ्चो-द्रवस्तेन प्रजायते ॥ २० ॥
For Private And Personal Use Only