________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वजीवाः परात्मानः, सत्तया प्रेमरूपिणः । अतस्तेषां नमस्कारो - भवत्वेव मुदा सदा ॥ १६५ ॥ नमोऽस्तु सर्वजीवेभ्यः, प्रेम्णा सर्वत्र सर्वदा । आत्मैक्यं निर्विकल्पं य-तद्भूयाज्जैनशासनम् ॥ प्रेमपूर्वकचारित्र - धर्मास्तित्वं कलौ गतम् । अतः प्रेम्णैव चारित्रं, प्राप्यते सर्व साधुभिः ॥ १६७ ॥ विचारादधिकं प्रेम, यस्याचारे प्रवर्त्तते । तस्य प्रेमात्मनः शुद्धि - जयते कृपयागुरोः ॥ १६८ ॥ गुरोः कृपां विना नास्ति, हृदि प्रेमोद्भवः कदा | अतः स्त्रीपुरुषैः सेवा, कर्त्तव्या सद्गुरोः सदा ॥ १६६ ॥ गुरोः कृपाशिषा प्रेम-प्राप्तिर्भवति देहिनाम् । दर्शन ज्ञानचारित्र -- प्राप्त्या मोक्षो भवेत्ततः । १७०॥ शुद्ध प्रेमैवसद्धर्मः, सर्वत्र व्यापकः सदा । प्रत्यक्षो ज्ञानिभिर्वेद्या - महानभेद अन्तरः ॥ १७१ ॥ सर्वधर्मालयं यान्ति, सत्यप्रेमणि वस्तुतः। तत्प्राकट्यं प्रकर्तव्यं, जैनैः प्रेमाऽनुयायिभिः ॥ १७२॥ ॥ ब्रह्मप्रेमप्रतिकानि, सेव्यानिप्रेममार्गिभिः । प्रेममयं च सद्रूपं, प्रतिकं शर्मकारणम् ॥ १७३ ॥ शुद्ध प्रेम महाभक्तै- गतार्थ प्रेमिसद्गुरोः । श्राज्ञा सदैवमन्तव्या, सर्वस्वार्पणयोगतः ॥ १७४ ॥ सत्प्रमैव महाभक्ति-व्यपकदेवसद्गुरोः । कर्तव्या प्रेमिभिर्लोकैः, सद्गुरुक्तप्रबोधतः ॥ १७५ ।। सत्यं नैसर्गिकं प्रेम, सत्यप्रेमिसमागमे । गुप्तं नैव भवेत्कुत्र, प्रत्यक्षं वेद्यते जनैः ॥ १७६ ॥
[१५]
For Private And Personal Use Only