________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
[ १६ ]
प्रकृतिपारगन्तॄणां योगिनां प्रेमवेदनम् । शुद्धब्रह्मतयासाचा - द्भवत्येव न संशयः॥ १७७ ॥ प्रकृतिप्रीतिमातृत्वं, यस्यात्मनि प्रकाशते । कामभोगादिसंकल्प - नाशस्तस्य प्रजायते ॥ १७८ ॥ सर्वत्र व्यापक प्रेम, नैवाऽन्यत्र परिभ्रम | आत्मन्येवपरप्रेम - प्रकाशो जायते सताम् ॥ १७९ ॥ सर्वतीर्थमयं प्रेम, विद्यते सर्वदेहिषु । भक्त्या सर्वत्र जीवानां, प्रेमब्रह्म प्रकाशते ॥ १८० ॥ वीरस्य प्रेमनामैव, संबोध्य भक्तिभाजनैः । महावीरार्हतः पूजा, कर्त्तव्या सर्वकर्मभिः ॥ १८९ ॥ दयावात्सल्यरूपाणि, प्रेम्णः सर्वत्रबोधत । सर्वत्र सर्वलोकेषु, प्रेम चिन्तामणीयते ॥ १८२ ॥ शाब्दिका तार्किकाः शुष्काः शुद्धप्रेमविना हहा ? । शुद्धप्रेमविना ब्रह्म, कस्यनैव प्रकाशते । १ ८३ ॥ शुद्धप्रेमविना बुद्धि-नरसा खेददायिनी । ज्ञात्वैवं हृद्यसत्प्रेम, सेव्यं भक्तैः स्वभावतः ॥ १८४॥ शुद्धप्रेमप्रभावेण चित्तैकाग्र्यं भवेद्रुतम् । ध्येयस्य स्थैर्यभावाय, शुद्ध प्रेमैव कारणम् ॥१८५॥ प्रेम मेघायते विश्वे, प्रेम सूर्यायते स्वयम् । प्रेम चंद्रायते सम्यग् प्रेमसर्वायते सदा ॥ १८६ ॥ सर्वमिष्टपदार्थेभ्यः प्रेमणिमिष्टताऽधिका । इष्टत्वं चैवमिष्टत्वं, सत्यप्रेमिषु सर्वदा ॥ ९८७ ॥ विश्वं सर्वं नमत्येव, पुरः प्रेम्णः स्वभावतः । सर्वत्र प्रेमसाम्राज्यं, पूर्णानन्दं प्रवर्त्तते ॥ १८८ ॥
1
For Private And Personal Use Only