________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
मनःप्रेममयं कृत्वा, वाचं प्रेममयीं तथा । देहं प्रेममयं कृत्वा, प्रेमिन् ? सर्वत्र संचर ॥१८६॥ मृत्वा पुनर्महाप्रेम्णा, जीवन्तः प्रेमयोगिनः । जीवन्मुक्तिः सदेहेऽपि प्रेम्णाऽनुभूयते स्वयम् ॥ अत्रैव परमब्रह्म-साक्षात्कारोऽनुभूयते । शुद्धप्रेमिजनैः सद्यः, कृपां प्राप्य प्रभोर्भुवम् ॥१९१॥ गुरुरेव प्रभुः साचा-च्छ्रद्धायां यस्य विद्यते । शुद्धप्रेमोद्भवस्तस्य जायते नात्र संशयः ॥ १६२॥ सत्यप्रेमबलेनैव, सर्वत्र सर्वदेहिनाम् । परस्परं मनः पूर्ण-भेदाऽभावेन वर्त्तते ॥ १६३ ॥ सत्यप्रेम न यत्राऽस्ति, तत्र शङ्का प्रवर्त्तते । संशयात्मा भवेन्नष्ट- आत्मनः सर्वशक्तितः ॥१६४॥ प्रेमधर्मेण विश्वैक्यं, साध्यते नात्र संशयः । नान्योपायाः प्रवर्त्तन्ते, बाह्यभेद विनाशकाः । १६५ सर्वदेशीयलोकेषु, शुद्धप्रेमप्रवर्त्तनात् । सर्वदेशेन विश्वैक्यं, जायते विश्वशान्तिदम् ॥१६६॥ नित्यात्मनि कुरु प्रेम, भव्यविश्वासभावतः । आत्मैव सर्वथा सेव्यः, स एव सर्वतो महान् ॥ १६७॥ आत्मनि प्रेमयोगेन मुक्तिं प्राप्ता जना भुवि । अतः सर्वात्मसु प्रेम, कुरुध्वं प्रेमयोगिनः १ । १६८ । प्रेमैव जैनधर्मोऽस्ति, सद्धर्मरुच्यपेक्षया । प्रेमैव सद्गुरुं देवं भजन्तु सर्वशक्तितः ॥ १६६ ॥ प्रेमार्पणं प्रेम हवि, - रात्माग्नौ प्रेमिणा हुतम् । आत्मैष तेन लब्धव्यः, प्रेमधर्मसमाधितः ॥ २००॥
[ १७ ]
For Private And Personal Use Only