________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
[१८] मागच्छन्तु जनाः सर्वे, शुद्धप्रेमणि वेगतः। चिरं विहृत्य सत्प्रेम्णि, भवामःसुखिनः सदा ॥२०॥ साई संमील्यगच्छेम, स्वादेमैक्यस्वरूपतः। प्रेमगानानि गायेम, महावीरप्रभोर्मुदा ॥२०२।। बहिरन्तर्महावीरं, पश्येम प्रेमभावतः । ब्रजेम श्रीमहावीरं, बाह्याभ्यासवियोगतः ॥२०३॥ महावीरस्य वृत्तान्तं, ध्येयं गेयं सुरागतः। सर्वतीर्थङ्करा गेया-स्तद्भक्ताश्च गुणाकराः॥२०४॥ पूजादिषु जिनेन्द्राणां, साधूनां दर्शने तथा। रोमाञ्चाश्रुमहाहर्षो-जायते प्रेमिदेहिनाम्॥२०५॥ तर्कवादविवादास्तु, त्यजन्ति प्रेमयोगिनः। महावीरप्रभौ लीना-भवन्तिपूर्णभावतः ॥२०॥ भेदाऽभावेन भक्तेषु, रक्ताः प्रेमप्रकाशनम्। कुर्वन्ति सद्गतिं यान्ति,प्रेमिणामीदृशी गतिः ॥ कामदुष्टविकाराणां, वासनानां च सर्वथा। होमं कुरु विवेकेन प्रेमाग्नौ भव्यमानव ? ॥२०८॥ सर्वैकान्तिकधर्मेषु, दर्शनेषु च भेदता । सविकल्पं मनो यत्र, तत्रानन्दो न विद्यते ॥२०९॥ शुद्धप्रेममये धर्मे, धर्मभेदोन विद्यते। दर्शनानां विकल्पोऽपि, तत्र किञ्चिन्न जायते ॥१०॥ शुद्धप्रेममये धर्मे, महावीरस्य शासने। सर्वदर्शनधर्माणां, समावेशो भवेत्सदा ॥ २११ ॥ शलभानां यथा वहौ,पातः स्वाभाविको भवेत्। प्रेमज्योतिषि भक्तामां, मनःपातस्तथा भवेत्
For Private And Personal use only